Page loading... Please wait.
7|1|17 - जसः शी
॥ तस्मै पाणिनये नमः ॥
7|1|17
SK 214
जसः शी   🔊
सूत्रच्छेदः
जसः (षष्ठ्येकवचनम्) , शी (लुप्तप्रथमान्तनिर्देशः)
अनुवृत्तिः
अतः  7|1|9 (पञ्चम्येकवचनम्) , सर्वनाम्नः  7|1|14 (पञ्चम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः सर्वनाम्नः अङ्गात् जसः शी
सूत्रार्थः
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य जस्-प्रत्ययस्य शी-आदेशः भवति ।
सर्वनामसंज्ञकः यः अदन्तः शब्दः, तस्मात् परस्य जस्-प्रत्ययस्य "शी" आदेशः भवति ।

1) सर्व + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ सर्व + शी [जसः शी 7|1|17 इति जस्-प्रत्ययस्य शी-आदेशः]
→ सर्व + ई [लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा]
→ सर्वे [आद्गुणः 6|1|87 इति गुण-एकादेशः]

2) तत् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ त अ अस् [त्यदादीनामः 7|2|102 इत्यनेन तकारस्य अकारादेशः]
→ त अस् [अतो गुणे 6|1|97 इति पररूप-एकादेशः]
→ त शी [जसः शी 7|1|17 इति जस्-प्रत्ययस्य शी-आदेशः]
→ त ई [लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा]
→ ते [आद्गुणः 6|1|87 इति गुण-एकादेशः]

प्रश्नः 1 - जस्-प्रत्यस्यय "शी" इति सर्वादेशः कथं भवति ?
उत्तरम् - "शी" इति अनेकाल् आदेशः अस्ति अतः अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन जस्-प्रत्ययस्य "शी" इति सर्वादेशः भवति ।
प्रतिप्रश्नः - परन्तु "शी" इत्यत्र शकारः लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञकः भवति किल? अतः अत्र सर्वादेशः "शित्त्वात्" भवेत्, न हि "अनेकाल्त्वात्" ।
उत्तरम् - "शी" इत्यत्र लशक्वतद्धिते 1|3|8 इत्यनेन शकारस्य इत्संज्ञा तदा एव भवितुम् अर्हति यदा "शी" आदेशः "प्रत्ययत्वं" प्राप्नोति (यतः लशक्वतद्धिते 1|3|8 इत्यनेन प्रत्ययस्यैव आदिस्थस्य शकारस्य लोपः भवति, अन्येषाम् शकारस्य न) । परन्तु शी-आदेशः यावत् जस्-इत्यस्य स्थाने न विधीयते, तावत् तस्य "प्रत्यय"संज्ञा अपि न भवितुम् अर्हति । इत्युक्ते, प्रारम्भे "शी" इति यत्र विधानं क्रियते तत्र शकारस्य इत्संज्ञा नैव भवति । अतः अस्याम् अवस्थायाम् "शी" इति अनेकाल् एव मन्तव्यः । अयम् अनेकाल्-आदेशः जस्-इत्यस्य स्थाने यदा सर्वादेशरूपेण विधीयते, तदा स्थानिवद्भावेन शी-इत्यत्र "प्रत्यय" इति संज्ञा भवति । तदनन्तरमेव शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा भवितुम् अर्हति । अतः प्रारम्भे सर्वादेशविधानम् तु अनेकाल्त्वात् एव भवति, शित्त्वात् न ।

प्रश्नः 2 - अस्मिन् सूत्रे "शी" इति दीर्घः आदेशः किमर्थम् कृतः अस्ति? ह्रस्वादेशं कुर्मश्चेदपि अयमेव रूपम् सिद्ध्येत् किम्?
उत्तरम् - अत्र कृतः दीर्घादेशः अग्रिमसूत्रार्थम् अस्ति । नपुँसकाच्च 7|1|19 अस्मिन् सूत्रे वर्तमानसूत्रात् "शी" इति अनुवर्तते, तत्र "वारिणी", "मधुनी" एतानि रूपाणि कर्तुम् दीर्घादेशः आवश्यकः अस्ति । अतः अत्र दीर्घादेशविधानं क्रियते ।

प्रश्नः 3 - स्त्रीलिङ्गवाचिनां शब्दानां विषये अस्य सूत्रस्य प्रसक्तिः किमर्थं न स्यात्?
उत्तरम् - अत्र "अतः" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयम् आदेशः न भवति । यथा - सर्वा + जस् = सर्वाः ।
One-line meaning in English
The जस्-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश शी.
काशिकावृत्तिः
अकारान्तात् सर्वनाम्नः उत्तरस्य जसः शी इत्ययम् आदेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणम् उत्तरार्हम्। त्रपुणी। जतुनी।
युष्मदस्मदोः षष्ठी। षष्ठआदिविशिष्योरिति। षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः। षष्ठआदिविशिष्टयोरिति यावत्। षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति, `पदस्ये`त्यधिकारविरोधात्। पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम्। न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति। भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात्। स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते।
दीर्घोच्चारणमुतरार्थमिति । खथैह त्वत इत्यधिकाराद् गुणेन भवितव्यमिति, ह्रस्वेऽपि सिद्धम् । न च सर्वे च्छत्रिण इत्यत्र षत्वतुकोरसिद्धः इत्येकादेशस्यासिद्धत्वाद् ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गः, तत्र हि पदान्तपदाद्योर्य एकादेशस्तस्यैवासिद्धत्वम् ॥
सिद्धान्तकौमुदी
अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव [(परिभाषा - )नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम्] । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥
जसः शी - युष्मदस्मदोः षष्ठी । षष्ठआदिविशिष्योरिति । षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः । षष्ठआदिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति,पदस्ये॑त्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते ।
जसः शी - जसः शी । दीर्घोच्चारणमुत्तरार्थं-वारिणी मधुनी । अनेकाल्त्वादिति । न तु शित्त्वादिति भावः । इत्संज्ञाया एवाभावादिति ।तृ॑इत्यत्रोपदेशकाल एव ऋकारस्येत्संज्ञा, शीभावस्य तु सर्वादेशत्वानन्तरं स्थानिवत्त्वेन प्रत्ययत्वे लब्धेलशक्वतद्धिते॑ इति प्रत्ययादेःशस्येत्संज्ञेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः ।
लघुसिद्धान्तकौमुदी
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥
महाभाष्यम्
जसः शी जश्शसोः शिः किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ।। का रूपसिद्धिः ‐ ते ये के ।। आद्गुणेन सिद्धम् ।। नैवं शक्यम् ‐ -ःथ्द्य;ह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ।। एवं तर्हि शीभाव एवोच्येत(2) ।। नैवं शक्यम् । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ।। ( जसः शी ) ।।