Page loading... Please wait.
7|1|14 - सर्वनाम्नः स्मै
॥ तस्मै पाणिनये नमः ॥
7|1|14
SK 215
सर्वनाम्नः स्मै   🔊
सूत्रच्छेदः
सर्वनाम्नः (पञ्चम्येकवचनम्) , स्मै (प्रथमैकवचनम्)
अनुवृत्तिः
अतः  7|1|9 (पञ्चम्येकवचनम्) , ङेः  7|1|13 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः सर्वनाम्नः अङ्गात् ङेः स्मै
सूत्रार्थः
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङि-प्रत्ययस्य स्मै-आदेशः भवति ।
ङेर्यः 7|1|13 इत्यनेन अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशे प्राप्ते सर्वनामशब्दानां विषये अनेन सूत्रेण अपवादत्वेन "स्मै" आदेशः विधीयते । यथा -

1. सर्व + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ सर्व + स्मै [सर्वनाम्नः स्मै 7|1|14 इति ङे-इत्यस्य स्मै-आदेशः]
→ सर्वस्मै ।

2. तत् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ त अ ए [त्यदादीनामः 7|2|102 इत्यनेन तकारस्य अकारादेशः]
→ त ए [अतो गुणे 6|1|97 इति पररूप-एकादेशः]
→ त स्मै [सर्वनाम्नः स्मै 7|1|14 इति ङे-इत्यस्य स्मै-आदेशः]
→ तस्मै

ज्ञातव्यम् - "अतः" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयम् आदेशः न भवति । यथा - सर्वा + ङे = सर्वस्यै ।
One-line meaning in English
The ङि-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश "स्मै".
काशिकावृत्तिः
अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययम् आदेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अतः इत्येव, भवते। अथो ऽत्र अस्मै इत्यन्वादेशे ऽशादेशे एकादेशः प्राप्नोति? तत्र अन्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति।
`भवते` इति। त्यदाद्यत्वं न भवति। `द्विपर्यन्तास्त्यदादयः` (वा।7.2.102) इति भवच्छब्दस्य त्यदादित्वाभावादकारान्तता न भवति। `अथो अत्र` इत्यादि चोद्यम्। अत्र इदम्? ए इति स्थिते `इदमोऽन्वादेशे` 2|4|32 इत्यशादेशे कृते परमपि स्मैभावं बाधित्वा नित्यत्वादेकादेशोऽकः सवर्णे दीर्घत्वं 6|1|97 प्राप्नोति। नित्यत्वं पुनरस्य कृताकृतप्रसङ्गित्वात्। एकादेशे च कृतेऽनकारान्तत्वात्? स्मैबावो न प्राप्नोति। `तत्र` इत्यादि परीहारः। तत्रैकादेशे प्राप्तेऽन्तरङ्गत्वात्? पूर्वं स्मैभावो विधीयते, पश्चादेकादेशः। अन्तरङ्गत्वं तु स्मैभावस्यैकपदाश्रयत्वात्। एकादेशस्य द्विपदाश्रयत्वात्? बहिरङ्गत्वम्॥
भवत इति । द्विर्यन्तास्त्यदादयः इति वचनादन्यत्र त्यदाद्यत्वाभावादनकारन्तत्वम् । अन्वादेशेऽशदेशे कृत इति । अनन्वादेशे त्वत्रास्मै चेद्रूपलोपः, न चाकृते इद्रूपलोपे एकादेशः प्राप्नोतीति । न चाद्गुणप्रसङ्गः, नित्येनेद्रूपलोपेन बाधितत्वात् । एकादेशः प्राप्नोतीति । नित्यत्वात् । वाक्यसंस्कारपक्षे चैतच्चोद्यम् । तद्ध्यर्थप्रतिपादनाय लोके प्रयुज्यते, तदेव च शास्त्रे विभज्यान्वाख्यायते । अन्तरङ्गत्वादिति । एकपदा(यत्वादन्तरङ्गत्वम्, पदद्वयाश्रयत्वादेकादेशो बहिरङ्गः ॥
सिद्धान्तकौमुदी
अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥
सर्वनाम्नः स्मै - सर्वशब्दाच्चतुर्थ्येकवचने "ङेर्यः" इति प्राप्ते — सर्वनाम्नः स्मै । "अतो भिस" इत्यस्मादत इत्यनुवरत्ते । "ङेर्य" इत्यतोङे॑रिति च । तदाह — अतः सर्वेत्यादिना ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥
महाभाष्यम्
सर्वनाम्नः स्मै ।। अश एकादिष्टत्वात्स्मायादीनामुपसङ्ख्यानम् ।। अश एकादिष्टत्वात्स्मायादीनामुपसङ्क्यानं(2) कर्तव्यम् ‐ अथो अत्रास्मै, अथो अत्रास्मात्, अथो अत्रास्मिन्निति; एकादेशे कृते अत इति स्मायादयो न प्राप्नुवन्ति ।। किं पुनः कारणमेकादेशस्तावद्भवति न पुनः स्मायादयो, न परत्वात्स्मायादिभिर्भवितव्यम् ? ।। न भवितव्यम् ।। किं कारणम् ? ।। ।। नित्यत्वादेकादेशः ।। नित्य एकादेशः कृतेष्वपि स्मायादिषु प्राप्नोत्यकृतेष्वपि । नित्यत्वादेकादेशे कृतेऽत इति स्मायादयो न प्राप्नुवन्ति ।। किमुच्यते अश इति, नेहापि कर्तव्यम् ‐ अत्रास्मै अत्रास्मात् अत्रास्मिन्निति; एकादेशे कृते अत इति स्मायादयो न प्राप्नुवन्ति ।। आनुपूर्व्या सिद्धमेतत्(1) ।। नात्राऽकृतेषु स्मायादिषु हलादिर्विभक्तिरस्ति, हलादौ च इद्रूपलोपो न चाऽकृते इद्रूपलोपे एकादेशः प्राप्नोतितदानुपूर्व्या(1) सिद्धम् ।। तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ।। न वा बहिङ्गलक्षणत्वात् ।। न वा कर्तव्यम् ।। किं कारणम् ? ।। बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षण एकादेशोऽन्तरङ्गाः स्मायादयः ।। असिद्धं बहिरङ्गमन्तरङ्गे।।