Page loading... Please wait.
7|1|13 - ङेर्यः
॥ तस्मै पाणिनये नमः ॥
7|1|13
SK 204
ङेर्यः   🔊
सूत्रच्छेदः
ङेः (षष्ठ्येकवचनम्) , यः (प्रथमैकवचनम्)
अनुवृत्तिः
अतः  7|1|9 (पञ्चम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अतः अङ्गात् ङेः यः
सूत्रार्थः
अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशः भवति ।
अकारान्तात् शब्दात् चतुर्थ्येकवचनस्य ङे-प्रत्ययः आगच्छति चेत् तस्य "य" इति आदेशः भवति । अत्र "य = य् + अ" इति अनेकाल् आदेशः अस्ति इति स्मर्तव्यम् । अस्मिन् आदेशे कृते स्थानिवदादेशोऽनल्विधौ 1|1|56 इति स्थानिवद्भावेन "य" आदेशस्य अपि सुप्-संज्ञा भवति । तदा अदन्तात् अङ्गात् यकारादि सुप्-प्रत्यये परे सुपि च 7|3|102 इत्यनेन अङ्गस्य दीर्घः अपि विधीयते । यथा -
राम + ङे
→ राम + य [ङेर्यः 7|1|13 इत्यनेन ङे-प्रत्ययस्य यकारादेशः]
→ रामा + य [स्थानिवद्भावेन य-इत्यस्य सुप्-संज्ञायाम् सत्याम् सुपि च 7|3|102 इत्यनेन अङ्गस्य दीर्घः]
→ रामाय

अत्र सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य अस्याः परिभाषायाः प्रयोगः न भवति । अस्मिन् विषये अत्र विस्तारेण स्पष्टीकृतम् अस्ति ।

ज्ञातव्यम् - "अतः" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयम् आदेशः न भवति । यथा - माला + ङे = मालायै ।
One-line meaning in English
The ङे प्रत्यय attached to an अदन्त अङ्ग is converted to a यकार.
काशिकावृत्तिः
ङेः इति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य यः इत्ययम् आदेशो भवति। वृक्षाय। प्लक्षाय। अतः इति किम्? सख्ये। पत्ये। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयम् अनित्या, तेन दीर्घो भवति।
`ङेः` इति। चतुथ्र्यकवचनस्येदं ग्रहणम्। कस्मान्न भवति सप्तम्येकवचनस्य ग्रहणम्? यदि हि तस्य ग्रहणं स्यात्, तदा--अत्यन्तसंयोगे, भावे अपवर्गे, कारकमध्ये--इत्येवमादि न सिद्ध्यति। तस्मादेतेभ्यो निर्देशेभ्यो नेदमिह सप्तम्येकवचनस्य ग्रहणम्। अतः परिशेष्याच्चतुर्थ्येकवचनस्य ग्रहणं न निश्चीयत इति। `तस्मै हितम्` 5|1|5 इति निर्देशाच्च लिङ्गादत्तरत्राप्येतदेवानुवत्र्तते। `वृक्षाय` इति। `सुपि च` 7|3|102 इति दीर्घः।ननु `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति परिभाषया उपस्थाने सति सन्निपातलक्षणो यविधिरकारविधातं प्रति निमित्तं नोपपद्यते, कुतो दीर्घत्वम्? इत्याह--`सन्निपातलक्षणः` इत्यादि। अनित्यत्वं त्वस्याः प्रागेव प्रतिपादितम्। अथ ङकारोच्चारणं किमर्थम्? एकारमात्रस्य ग्रहणं मा भूदिति। यदि स्यात्, पचे, यजे--इत्येवमादावपि स्यात्। ननु च `अतो गुणे` 6|1|97 इति पररूपत्वे कृते निमित्ताभावान्न भविष्यति? नैतदस्ति; नाप्राप्ते ह्रतो गुणे पररूपत्वेऽयमादेश उच्यते; स यथा वृक्षाय इत्यत्र `अतो गुणे` 6|1|94 पररूपत्वं बाधते तथा पचे, यजे--इत्यत्रापि बाधेत प्रतिपदोक्तस्येकारस्य ग्रहणादिह न भविष्यतीति चेत्? न; अस्याप्येकारस्य प्रतिपदोक्तत्वात्। `टित आत्मनेपदानां टेरे` 3|4|79 इति निर्द्देशादेकारः प्रतिपदोक्तो भवति। तस्माद्विशेषणार्थो ङकार कत्र्तव्यः॥
णेó इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि णेó इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङिति इति गुणे लाक्षणिकम् । यद्यपि णेóः इति विभक्त्यन्तमुपातम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, णेóराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यé प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि च इति दीर्घः । कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमितं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ॥
सिद्धान्तकौमुदी
अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । [(परिभाषा - ) संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे (कौमुदी-2670) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥
ङेर्यः - ङेर्यः ।हे॑रित्येकारान्तात् षष्ठएकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात् । "अतो भिस" इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते । तेन चअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः ।सुपि चे॑ति दीर्घं मत्वा आह — रामायेति । ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह — इहेति । नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते । सच यञंशेऽलाश्रयः । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः , अनल्विधाविति तन्निषेधादिति चेत्, सत्यम् — इह दीर्घस्य यञादिसुबाश्रयतयाऽ‌ऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा.ञभावात् ।अकृत्सार्वधातुकयोदीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयोर्दीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयो॑रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑त्यस्ति परिभाषा । संनिपातः=संश्लेषः, लक्षणं=निमित्तं यस्य सः संनिपातलक्षणः । विधि — -कार्यम् । तद्विघातस्य । तं=संनिपातं विहन्तीति तद्विघातः । "कर्मण्यण्" इति कर्मण्युपपदे कर्तर्यण् ।हनस्तोऽचिण्णलो॑रिति तकारः ।हो हन्ते॑रिति कुत्वम् । संनिपातविघातकस्य न निमित्तमित्यर्थः । उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति — संनिपातलक्षण इत्यादिना । तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति ।
ङेर्यः - ङेर्यः ।ङे॑रिति चतुर्थ्येकवचनस्य ग्रहणं, न सप्तम्येकवचनस्य, व्याख्यानात् । अतएवङेरा॑मित्यत्रास्याऽग्रहणम्,समानाधिकरणे॒॑स्त्रिया॑मित्यादिनिर्देशाच्च । स्थानिवद्भवेनेति । आदेशालाश्रयविधौ स्थानिवत्त्वनिषेधाऽभावादिति भावः । सुपि चेति दीर्घ इति । न च परत्वात्अकृत्सार्वधातुकयोः — ॑ इति दीर्घोऽस्त्विति शङ्क्यम्, तत्रअयङ्यि क्ङिति॑ इत्यतःक्ङिती॑त्यनुवर्तनात् । अन्यथाउरुये॑त्यत्रापि दीर्घः स्यात् । उरुशब्दात्परस्यटा॑ इत्यस्यसुपां सुलुक् इति यादेशः । एतच्च काशिकायां स्पष्टम् । यद्यपि ङेर्यादेशस्य ङित्त्वमस्तिन ल्यपि॑ इति ज्ञापकेन अनुबन्धकार्येष्वनल्विधावपि स्थानिवत्त्वाभ्युपगमात्, तथापि शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येषु स्थानिवत्त्वानभ्युपगमाद्यादेशे ङित्त्वं नेत्यभ्युपेत्येदं । विरोधाऽभावात्परत्वमत्राकिंचित्करभित्यनादरेण वाअकृत्सार्वधातुकयोः-॑ इति दीर्घेण ज्यायानिति रूपसिद्धेरिति भाष्ये स्थितं, तदिदानीं विरुध्येत,क्ङिती॑त्यनुवृत्तौ तुज्याया॑नित्यत्रअकृत्सार्वे॑ति दीर्घाऽप्रवृत्तेः । तथाचअकृत्-॑ इति सूत्रे क्ङितीति नानुवर्तनीयम्, उरुया धृष्णुयेत्यत्र दीर्घाभावश्छान्दस इत्येवाभ्युपेयमिति चेत्, अत्राहुः,ज्ञाजनोर्जा॑ इत्याकारग्रहणमुक्तपरिभाषालिङ्गम् । अन्यथा जमेव विदध्यात् ।अतो दीर्घो यञि॑ इतिजायते॑जानातीत्यादौ दीर्घसिद्धेरित्यपि भाष्ये स्थितं, तच्च ज्ञापकम्अकृत्-॑ इत्यत्र क्ङितीत्यनुवृत्तावपि सङ्गच्छते । एवं च सतिज्यादात् इत्याकारग्रहणं लिङ्गमिति तु भाष्ये प्रौढवादमात्रमस्तु ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑ति । संनिपातेति । संनिपातः संश्लेषः लक्षणं निमित्तं यस्य स संनिपातलक्षणः । तं संनिपातं विहन्तीति तद्विघातः । कर्मण्यण्, कुत्वतत्वे । उपजीवकविधिः स्वोपजीव्यविघातकविधेर्निमित्तं न भवतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
अतोऽङ्गात्परस्य ङेयदिशः॥
महाभाष्यम्
ङेर्यः किमिदं चतुर्थ्येकवचनस्य ग्रहणमाहोस्वित्सप्तम्येकवचनस्य ग्रहणम् ? ।। कुतः सन्देहः ? ।। समानो(1) निर्देशः ।। चतुर्थ्येकवचनस्य ग्रहणम् ।। कथं ज्ञायते ? ।। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। इहापि तर्हि चतुर्थ्येकवचनस्य ग्रहणं स्यात्, ‐ ङेरान्मद्याम्नीभ्यः ।। एवं तर्हि व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमितीह चतुर्थ्येकवचनस्य ग्रहणं व्याख्यास्यामस्तत्र सप्तम्येकवचनस्येति ।। ( ङेर्यः) ।।