Page loading... Please wait.
7|1|103 - बहुलं छन्दसि
॥ तस्मै पाणिनये नमः ॥
7|1|103
SK 3578
बहुलं छन्दसि   🔊
सूत्रच्छेदः
बहुलम् (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि विषये ऋ̄कारान्तस्य धातोरङ्गस्य बहुलम् उकारादेशो भवति। ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्थ्यपूर्वस्य अपि भवति। मित्रावरुणौ ततुरिः। दूरे ह्रध्वा जगुरिः। ओष्ठ्यपूर्वस्य अपि न भवति। पप्रितमम्। वव्रितमम्। क्वचिद् भवति। पुपुरिः। इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्ः पादः। । सप्तमाध्यायस्य द्वितीयः पादः।
`ततुरिः, जगुरिः` इति। तरतेर्गिरतेश्च `आदृगमहनजनः किकिनौ लिट्? च` 3|2|171 इति किकिनोरन्यतरः, ततश्चोत्त्वे `द्विर्वचनेऽचि` 1|1|59 इति स्थानिवद्भावात् `तृ? गृ`, इति द्विरच्यते, `उरत्` 7|4|66 इत्यत्त्वम्। `पप्रितमम्, वव्रितमम्` इति। `पृ, वृ` इत्येतयोः किकिनोरन्यतरः, यथदेशः। किप्रत्ययान्तात्? `अतिशायने तमप्` 5|3|55 इत्यादिना तमप्॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां सप्तमाध्यायस्यप्रथमः पादः॥ - - -अथ सप्तमाध्यायःद्वितीयः पादः
ततुरिर्जगुरिरिति । तृगृभ्याम् आदृगमहनः इति किन्प्रत्ययः, उत्वम्, तस्य द्विर्वचनेऽचि इति स्थानिवद्भावातृगृ - इत्येतस्य द्विर्वचनम् । पप्रितममिति । पृ इत्येतस्मात्पूर्ववत्किन्, इत्वोत्वयोरभावे यण्, तस्य स्थानिवद्भावाद् द्विर्वचनम्, अतिशायने तमप् ॥
सिद्धान्तकौमुदी
ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.