Page loading... Please wait.
7|1|101 - उपधायाश्च
॥ तस्मै पाणिनये नमः ॥
7|1|101
SK 2571
उपधायाश्च   🔊
सूत्रच्छेदः
उपधायाः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
धातोः  7|1|100 (षष्ठ्येकवचनम्) , इत्  7|1|100 (प्रथमैकवचनम्) , ॠतः  7|1|100 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
धातोः उपधायाः ॠतः इत्
सूत्रार्थः
धातौ विद्यमानस्य उपधा-ॠकारस्य इकारादेशः भवति ।
येषां धातूनाम् उपधावर्णः दीर्घ-ॠकारः अस्ति, तस्य अनेन सूत्रेण "इ"-आदेशः भवति । अत्र किमपि निमित्तम् नापेक्ष्यते । अनेन सूत्रेण निर्दिष्टः इ-आदेशः उरण् रपरः 1|1|51 इत्यनेन रपरः वर्तते । इत्युक्ते, अस्मात् इकारात् परः रेफः आगच्छति । यथा , कॄत् (संशब्दने) इति चुरादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
कॄत् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ कॄत् + णिच् + लट् [सत्यापपाश... 3|1|25 इति णिच्]
→ कॄत् + इ + तिप् [तिप्तस्.. 3|4|78 इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ कॄत् + इ + शप् + तिप् [कर्तरि शप् [3।1।68]] इति औत्सर्गिकं गणविकरणम् शप्]
→ क् इर् त् + इ + अ + ति [उपधायाश्च 7|1|101 इति उपधा-ॠकारस्य इकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ किर्ति अ ति [वर्णमेलनम्]
→ किर्ते अ ति [सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ किर्तयति [एचोऽयवायावः 6|1|78 इति अय्-आदेशः]
→ कीर्तयति [उपधायां च 8|2|78 इति उपधादीर्घः]
One-line meaning in English
The उपधा-ॠकार present in a धातु is converted to इकार.
काशिकावृत्तिः
उपधायाश्च ऋ̄कारस्य इकारादेशो भवति। कीर्तयति, कीर्तयतः, कीर्तयन्ति।
ॠकारान्तस्य धातोरित्त्वमुक्तम्। उपधाभूतस्य धातोॠकारस्य न प्राप्नोति, इष्यते; तदर्थमेतत्। `कीत्र्तयति` इति। `कृत संशब्दने` (धातुपाठः-1656) चुरादौ ण्यन्तः। ननु च `ऊतियूतिजूतिसातिहेतिकीत्र्त यश्च` 3|3|97 इति निपातनादेवेत्त्वं भविष्यतीति कथं तदर्थो योगरम्भः? नैतदस्ति; क्तिन्विषय एव निपातनं स्यात्। एवं तर्हि पूर्वयोगे धातुना ॠकारं विशेषयिष्यामः, अत्र तत्स्थस्येति? एतदपि नास्ति; एवं सति ॠकारमिच्छति ॠकारीयतीत्यत्रापि स्यात्। तस्माद्वक्तव्यमिदम्। `कृतश्च` इति वक्तव्ये `उपधायाश्च` इति वचनं वैचित्र्यार्थम्। `कृतश्च` इत्युच्यमाने तकारस्य स्यात्? नैतदन्ति; `ॠतः` इति पूर्वसूत्रे विशेषणत्वेन प्रककृतम्; न शक्यते तद्धि विशेष्यत्वेन विवक्षितुमिति। तस्य `उपधाया ॠकारस्येकारादेशो भवति` इत्येष वृत्तिग्रन्थो विरुध्यते। अत्र हि ऋकारस्य विशेष्यता दर्शिता। तस्माद्यथाङ्गस्यैतत्? क्वचिद्विशेषणम्; तथा `ॠतः` इत्येतदपि पूर्वसूत्रे विशेषणम्, इह तु विशेष्यम्॥
पूर्वेण आञ्कारान्तस्य धातोरित्वमुक्तम्, उपधायामपि यथा स्यादित्ययमारम्भः । ननु पूर्वयोगे धातुना आञ्कारं विशेषयिष्यामः - धातोर्य ऋकारो यत्र स्थित इति, इहापि तर्हि प्राप्नोति - आञ्कारमिच्छति आञ्कारीयतीति एवमपि कृतस्य इतीयता सिद्धम्, आञ्तः इत्यनुवृतेरन्त्यस्य न भविष्यति तथा तु न कृतमित्येव । एकीर्तयतीति । कत संशब्दने चुरादिः ॥
सिद्धान्तकौमुदी
धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च (कौमुदी-2265) इति दीर्घः । कीर्तयति । उर्ऋत् (कौमुदी-2567) । अचीकृतत् । अचिकार्तत् । 1655 वर्ध छेदनपूरणयोः 1656 कुबि आच्छादने । कुम्बयति । कुम्बति । कुभि इत्येके । 1657 लुबि 1658 तुबि अदर्शने । अर्दन इत्येके । 1659 ह्लप व्यक्तायां वाचि । क्लप इत्येके । 1660 चुटि छेदने 1661 इल प्रेरणे । एलयति । ऐलिलत् । 1662 म्रक्ष म्लेच्छने 1663 म्लेच्छ अव्यक्तायां वाचि 1664 ब्रूस 1665 बर्ह हिंसायाम् । केचिदिह गर्ज गर्द शब्दे । गर्द अबिकाङ्क्षायामिति पठन्ति । 1666 गुर्द पूर्वनिकेतने 1667 जसि रक्षणे । मोक्षण इति केचित् । जंसयति । जंसति । 1668 ईड स्तुतौ 1669 जसु हिंसायाम् 1670 पिडि संघाते 1671 रुष रोषे । रुठ इत्येके । 1672 डिप क्षेपे 1673 ष्टुप समुच्छ्राये ॥ आ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् । 1674 चित संचेतने । चेतयते । अचीचितत । 1675 दशि दंशने । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् । 1676 दसि दर्शनदंशनयोः । दंसयते । दंसति । दसेत्यप्येके । 1677 डप 1678 डिप संघाते 1679 तत्रि कुटुम्बधारणे । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति । 1680 मत्रि गुप्तपरिभाषणे 1681 स्पश ग्रहणसंश्लेषणयोः 1682 तर्ज 1683 भर्त्स तर्जने 1684 बस्त 1685 गन्ध अर्दने । बस्तयते । गन्धयते । 1686 विष्क हिंसायाम् । हिष्केत्येके । 1687 निष्क परिमाणे 1688 लल ईप्सायाम् 1689 कूण सङ्कोचे 1690 तूण पूरणे 1691 भ्रूण आशाविशङ्कयोः 1692 शठ श्लाघायाम् 1693 यक्ष पूजायाम् 1694 स्यम वितर्के 1695 गूर उद्यमने 1696 शम 1697 लक्ष आलोचने । नान्ये मित इति मित्त्वनिषेधः । शामयते । 1698 कुत्स अवक्षेपणे 1699 त्रुट छेदने । कुट इत्येके । 1700 गल स्नवणे 1701 भल आभण्डने 1702 कूट आप्रदाने । अवसादने इत्येके । 1703 कुट्ट प्रतापे 1704 वञ्चु प्रलम्भने 1705 वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते । 1706 मद तृप्तियोगे । मादयते । 1707 दिवु परिकूजने 1708 गृ विज्ञाने । गारयते । 1709 विद चेतनाख्याननिवासेषु । वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् । 1710 मान स्तम्भे । मानयते । 1711 यु जुगुप्सायाम् । यावयते । (गणसूत्रम् -) 1712 कुस्म नाम्नोवा । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥ 1713 चर्च अध्ययने 1714 बुक्क भषणे 1715 शब्द उपसर्गादाविष्कारे च । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति । 1716 कण निमीलने । काणयति । णौ चङ्युपाधाया ह्रस्वः (कौमुदी-1324)काण्यादीनां वेति विकल्प्यते (वार्तिकम्) ॥ अचीकणत् । अचकाणत् । 1717 जभि नाशने । जम्भयति । जम्भति । 1718 षूद क्षरणे । सूदयति । असूषुदत् । 1719 जसु ताडने । जासयति । जसति । 1720 पश बन्धने । पासयति । 1721 अम रोगे । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति । 1722 चट 1723 स्फुट भेदने । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् । 1724 घट सङ्घाते । घाटयति हन्त्यर्थाश्च (गणसूत्रम् -) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः । 1725 दिवु मर्दने । उदित्त्वादेवतीत्यपि । 1726 अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । 1727 घुषिर् विशब्दने । घोषयति । घुषिरवि शब्दने (कौमुदी-3063) इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् । 1728 आङः क्रन्द सातत्ये । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति । 1729 लस शिल्पयोगे 1730 तसि 1731 भूष अलंकरणे । अवतंसयति । अवतंसति । भूषयति । 1732 अर्ह पूजायाम् 1733 ज्ञा नियोगे । आज्ञापयति । 1734 भज विश्राणने 1735 शृधु प्रहसने । अशशर्धत् । अशीशृधत् । 1736 यत निकारोपस्कारयोः 1737 रक 1738 लग आस्वादने । रघ इत्येके । रग इत्यन्ये । 1739 अञ्चु निशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् । 1740 लिगि चित्रीकरणे । लिङ्गयति । लिङ्गति । 1741 मुद संसर्गे । मोदयति सक्तून् घृतेन । 1742 त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये । 1743 उध्रस उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति । 1744 मुच प्रमोचने मोदने च 1745 वस स्नेहच्छेदापहरणेषु 1746 चर संशये 1747 च्यु सहने । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति । 1748 भुवो ऽवकल्कने । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति । 1749 कृपेश्च (अवकल्कने) । कल्पयति ॥ (गणसूत्रम् -) आ स्वदः स्वकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् । 1750 ग्रस ग्रहणे । ग्रासयति फलम् । 1751 पुष धारणे । पोषयत्याभरणम् । 1752 दल विदारणे । दालयति । 1753 पट 1754 पुट 1755 लुट 1756 तुजि 1757 मिजि 1758 पिजि 1759 लुजि 1760 भजि 1761 लघि 1762 त्रसि 1763 पिसि 1764 कुसि 1765 दशि 1766 कुशि 1767 घट 1768 घटि 1769 बृहि 1770 बर्ह 1771 वल्ह 1772 गुप 1773 धूप 1774 विच्छ 1775 चीव 1776 पुथ 1777 लोकृ 1778 लोचृ 1779 णद 1780 कुप 1781 तर्क 1782 वृतु 1783 वृधु भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घटयति । घण्टयति ।
उपधायाश्च - उपधायाश्च ।ऋत इद्धातो॑रित्यनुवर्तते । तदाह — धातोरित्यादिना । चङिउरृ॑दित्युपधाया ऋत्त्वपक्षे आह — अचीकृतदिति । उपधाया ऋत्त्वे कृदित्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वेदीर्घो लघो॑रिति दीर्घं इति भावः । ऋत्त्वाऽभावपक्षे आह — अचिकीर्तदिति । ॠत इत्त्वे रपरत्वे "उपधायां च" इति दीर्घे कीर्दित्यस्य द्वित्वे हलादिशेषे अभ्यासह्यस्वे चुत्वमिति भावः । लघुपरकत्वाऽभावेन सन्वद्भावविषयत्वाऽभावान्नाऽभ्यासदीर्घः ।आकुस्मा॑दित्यत्र आङभिविधाविति मत्वाह — तमभिव्याप्येति । ननुणिचश्चे॑ति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह - अकर्तृगामीति । ननु "दशि दंशने" णिजभावेदंशती॑ति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तङो दुर्वारत्वादित्यत आह — आकुस्मीयमिति ।दंशसञ्जस्वञ्जां शपी॑ति नलोपमाशङ्क्य आह — नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत ।अत्स्मृदृत्वरे॑ति अभ्यासस्य अत्त्वम् — इत्त्वापवादः । गूर उद्यमने । अयं दीर्घोपधः । गूरयते । तदादौ तु "गुरी उद्यमने" इति ह्यस्वोपधः । दिवदौ तुधूरी, गूरी हिंसागत्यो॑रिति दीर्घोपध एवेति केचित् । ह्यस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेदं सङ्गृह्णाति — सत्ताया#ं विद्यतेइत्यादिश्लोकेन । कुस्म नाम्नो वा । गणसूत्रम् ।कुस्मे॑ति पृथक्पदमविभक्तिकम् ।तदाह — कुस्म इति धातुरिति ।कुत्सितस्मयने वर्तते॑ इति शेषपूरणं, व्याख्यानादिति भावः । णादिति भावः । अचुकुस्मतेति । उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः ।नाम्नो गृह्रते, प्रत्यासत्त्या । तथा चकुस्मेति धातोः, कुस्मेतिप्रातिपदिकाद्वा णिजिति फलितम् । तत्रधातोर्णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाण्णिचि विशेषमाह — ततिति । तस्मात् = प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे, आचष्टे इत्यर्थे वेत्यर्थः । नच "तत्करोति तदाचष्टे" इत्येव प्रातिपदिकाण्णिच् सिद्ध इति वाच्यम्,आकुस्मादात्मनेपदिनः॑ इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुराविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति । अनुपसर्गात्परोऽपि शब्दधातुर्णिचं लभते इत्यर्थः ।आविष्कारे॑इत्यस्यैवानुवृत्त्यर्थं पृथगुक्तिः ।शब्द आविष्कारे चे॑त्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह — आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिकं भ्राजभासभाषे॑ति सूत्रे भाष्ये पठितम् ।काणिराणिश्रणिभणिहेठिलोपयः षट्काण्यादयः॑ इत भाष्यम् । अचीकणदिति । ह्यस्वत्वपक्षे लघुपरकत्वादभ्यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे, शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोर्हिंसा गमनं चार्थः । एतदर्थका ये धातवो भ्वादिषु नवसु गणेषु पठितास्ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह — नवगण्यामित्यादि । दिवु मर्दने । उदित्तवादिति । उदित्करणम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थम् । द्यूत्वा देवित्वा । इडभावे ऊठ् । इटि तु — न क्त्वा से॑डिति कित्तवनिषेधाद्गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन क्त्वयामिड्विकल्पस्य अप्रसक्तेरुदित्करमं व्यर्थं सज्ज्ञापयति अस्य दिवुधातोर्णिज्विकल्प इतीति भावः । घुषिर् विशब्दने । विशब्दनं = शब्देन स्वाभिप्रायाविष्करणं, प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः । घोषयतीति । शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा । लिङ्गादिति । इण्निषेधप्रकरणे "घुषिर् अविशब्दने" इति सूत्रम् । अविशब्दनार्थकाद्धुषधातोर्निष्ठआमिण्न स्यादित्यर्थः । यथा — ॒घुष्टा रज्जुः॑ । प्रसारितेत्यर्थः । अविशब्दने इति किम् । अवघुषितं वाक्यम् । प्रतिज्ञातमित्यर्थः । अत्र विशब्दनार्थकत्वान्नेण्निषेध इति स्थितिः । तत्र विशब्दनार्थकस्य घुषदातोश्चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेतीण्निषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्याऽस्य विशब्दनार्थकस्य घुषेर्णिचो विकल्पं गमयति । एवं चअवघुषितं वाक्य॑मित्यत्र चौरदिकघुषेर्विशब्दनार्थकस्य निष्ठायामिण्निषेधो नेति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ।णिजभावपक्षे॑इति शेषः । ननु इरित्त्वादेव णिजविकल्पे सिद्धे "घुषिरविशब्दने" इति इण्निषेधसूत्रे "अविशब्दने" इति पर्युदासास्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न, अत एव भाष्यादिरित्त्वाऽभावविज्ञानात् । एवं च "घुषिर् विशब्दने" इत्यत्रघुषी॑रित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् ।इरित्त्वादङ्वे॑ति मूलं तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तां तावत् । आङः क्रन्द सातत्ये इति । आङः परः क्रन्ददातुराह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः । यद्वाआह॑इत्यनन्तरं "घुषि" रित्यनुवर्तते । "क्रन्दसातत्ये" इत्यर्थन#इर्देशः । तदाह — अन्ये त्विति । लस शिल्पयोगे इति । कौशले इत्यर्थः । तसि भूषेति । अत्र तसिः प्रायेण अवपूर्वः । तदाह — अवतंसयतीति । ज्ञा नियोगे इति । आङ्पूर्वः । तदाह — आज्ञापयतीति । आदन्तत्वात्पुक् । अजिज्ञपत् । यत निकारेति । तालव्याऽन्तः स्थादिः । यत्नो वा प्रैषो वा - निकारः । यातयति । अयीयतत् । अञ्च विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति ।उदितो वेटत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानादिड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्यनित्यण्यन्तत्वादण्यन्तत्वमसिद्धमित्यत आह — अत एवेति । च्यु सहने इति । च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेर्णिच् स्यादित्यर्थः । कल्पयतीति । "कृपो रो लः" इति लत्वम् । आ स्वदः सकर्मकादिति । आङभिविधौ । तदाह — स्वदिमभिव्याप्येति । तत्र "ष्वद आस्वादने" इत्यस्य अकर्मकत्वादाह — संभवत्कर्मभ्य इति । इत आरभ्य आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति । एकतिंरशद्धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गं प्रथमादी । चतुर्थाद्या एकादशैदितः । त्रिसिपिसी इदुपधौ इत्येके । अदुपधावित्यन्ये । षोडशसप्तदशाविदितौ । अलुलोकत् अलुलोचदित्यत्र उपधाह्यस्वे प्राप्ते —
उपधायाश्च - उपधायाश्च ।ऋत इद्धातो॑रिति वर्तते । तदाह — धातोरुपधाया इति । ननुॠत इद्धातो॑रिति सूत्रे धातोरृत इति वैयधिकरण्येन व्याख्याने सिद्धमिष्टमिति किमनेन सूत्रेणेति चेन्मैवम् । तथा हि सति ॠकारीयतीत्यत्रापि इत्वप्रसङ्गात् । अर्दन इत्येके इति । अत्र वदन्ति — - अर्दने लुबितुबि भ्वादौ पठितौ, तयोस्तत्र पाठो वृथा स्यात् । इदित्त्वादेव लुम्बति तुम्बतीत्यादिरूपमिद्धेः । अदर्शने त्वर्थेऽर्थभेदाद्भ्वादिपाठः सार्थक इत्यर्दनार्थत्वं चौरादिकयोरयुक्तमित्यस्वरसादेक इत्युक्तमिति । म्रक्ष म्लेच्छने । म्रक्षणेऽप्ययम् । तच्च तैलादिनाऽभ्यञ्जनम् । म्रक्षयति । अमम्रक्षत् । गुर्द पूर्व निकेतने । गुर्दयति । पूर्वयति । केचित्तुपूर्वनिकेतने॑ इति पठित्वा गुर्दधातुः पूर्वनिवासे वर्तते इति व्याचक्षते । जसु हिसांयाम् । क्त्वायामिड्वकल्पार्थमुदित्करणमिति तत्सामथ्र्यादस्य णिजनित्यः । जासयति । जसति । जसित्वा । जस्त्वा । जस्तम् । चिति संचेतने । संचेतनं — मूच्र्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम् । दंशतीति । इहदंशसञ्जे॑ति नलोपमाशङ्क्याह — सञ्जिसाहचर्यादिति । स्पश । स्पाशयते ।अत्स्मृदृत्वरे॑त्यादिनाऽभ्यासस्य अत्वम् — - इत्वापवादः । अपस्पशत् । तर्ज भत्र्स तर्जने । तर्जयते । भत्र्सयते ।तर्जयन्निव केतुभिटरिति प्रयोगस्तु णिजन्तादस्माद्भौवादिकात्तर्जतेर्वा हेतुमण्णिचि बोध्यः । भ्रूण । भ्रूणयते ।भ्रूणोऽर्भके रुऔणगर्भे॑ इत्यमरः । गूर उद्यमने । दीर्घोपधोऽयम् । गूरयते । ह्यस्वोपधस्तु दिवादौ चेति मनोरमायां स्थितम् । यद्यपि तुदादौगुरी उद्यमने॑ इति पाठाद्ध्रस्वोपध एव तथापि दिवादौ धूरी गूरी हिंसागत्योरिति पाठान्नास्ति ह्यस्वोपध इति नव्याः । शम लक्ष । ननुनिशामय तदुत्पत्ति॑मित्यत्र शामय इत्येतत् शमु उपशम इत्यस्म ण्णिचि रूपं चेदमन्तत्वन्मित्त्वे सति ह्यस्वेन भाव्यमित्याशङ्क्य कथमनेन सिद्धमिति वदन्ति, आकुस्मीयत्वात्तङि निशामयस्वेति रूपस्य सर्वसंमतत्वादिति चेत् । अत्राहुः — स्वार्थण्यन्तादस्माद्धेतुमण्णिचि निशामयेति रूपम् । न चार्थाऽसङ्गतिः,निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॑ इति सिद्धान्तादिति । कुत्स अवक्षेपणे ।यूनश्च कुत्साया॑मिति निर्देशादङ् ।कुत्सा ।ण्यासश्रन्थे॑ति युच् । कुत्सना । भल आभण्डनं निरूपणमित्याहुः । वञ्चु प्रलम्भने । ल्युटि वञ्चनम् । उदित्करणस्य क्त्वायामिड्विकल्पार्थत्वाण्णिजनित्यः । वञ्चयति । वञ्चति । वचित्वा । वञ्चित्वा । वक्त्वा ।वञ्चिलुञ्च्यृतश्चे॑ति सेटः क्त्वः कित्त्वविकल्पनात्पाक्षिको नलोपः । इडभावे तु नित्यम् । निष्ठायां तु — वक्तम् ।यस्य विभाषे॑तीण्निषेधः ।नाम्नो वे॑ति वाशब्दं व्याचष्टे — अथ वेति । प्रातिपदिकमिति ।अन्येष्वपि दृश्यते॑ इति सूत्रेअन्येभ्योऽपी॑ति वक्ष्यमाणत्वात्कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपेकुगती॑ति समासे च निष्पन्नमित्यर्थः । यद्यपि कुपूर्वस्य स्मिढो लङादिषु कुस्मयते इत्यादि सिद्धं तथापि प्रकुस्मयते इत्यादि न सिद्येदुपसर्गस्य धातुना व्यवधानाऽयोगात् ।कुस्मयां चक्रे॑ इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान् । इत्याकुस्मीयाः । चर्च । सर्वोऽपि चुरादिर्णिच् पाक्षिक इति पक्षेगुरोश्च हलः॑ इत्यप्रत्ययः । चर्चा । कण निमीलने । एकनेत्रनिमीलन एवायं शब्दः, स्वभावात् । काणः । काण्यादीनामिति । एते हेतुमण्ण्य्नतेषु वक्ष्यन्ते । हन्त्यर्थाश्च । तेन घातयति हन्तीत्येततौ समानार्थौ । अर्ज । प्रतियत्नो गुणाधानम् । अर्जयतीति । सङ्गृह्णातीत्यर्थः । घुषिर् । अविशब्दनं — प्रतिज्ञानम् । निषेधाल्लिङ्गादिति । घुषिरविशब्दन इति सूत्रेण अविशब्दने निष्ठाया इण्निषिध्यते, विशब्दनार्थादेतस्मादनन्तरा निष्ठा नास्त्येव, णिचा व्यवधानात् । अतो घुषिरविशब्दन इति भौवादिकादेव निष्ठाया इण्निषेधो भवेदितिकिं विशब्दनप्रतिषेधेन । ततश्चानेननैव विशब्दनप्रतिषेधेनाऽनित्योऽस्य णिजिति ज्ञाप्यते इति भावः । इरित्करणादपि णिज्विकल्पः सिध्यतीति केचित् । शिल्पयोग इति । क्रियाकौओशलं शिल्पम् । यत निकारोपस्कारयोः । यत्नो वा प्रैषो वा निकारः ।निराकारोपस्कारयो॑रिति पाठान्तरम् । क्रियानिघणटौयत्ने प्रैषे निराकारे पादपे चाप्युपस्कृतौ । निसोऽयं धान्यधनयोः प्रतिदाने॑ इत्युक्तम् । अस्यार्थः — — यत्नाद्यर्थेषु चतुर्षु यतधातुं प्रयुञ्जीत । निसः चेत्प्रुयज्यते तदाऽयं धान्यधनयोः प्रतिदाने च वर्तते इति । ऋणं निर्यातयति । प्रतिददातीत्यर्थः । अञ्च विशेषणे । विशेषणं- व्यावर्तनम् ।भुवोऽवकल्कने॑ । भूधातोर्णिच् स्यात् । भावयतीति । मिश्रीकरोति चिन्तयति वेत्यर्थः । कृपेश्च । कृपेर्णिच् स्यादवकल्कने । आ स्वदः । अभिव्याप्येति ।आकुस्मा॑दिति पूर्वत्र, आधृषादावर्गादिति परत्र च आङोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्कयाख्यानमुचितमिति भावः । अन्ये त्वाङ्पूर्वकात्स्वदः सकर्मकाण्णिजिति व्याचख्युः । आस्वदीयेषु धातवः सर्वे सकर्मकाः । घटयतीति । अय#ं चुरादावेव सङ्घाते गतः, पुनः पाठस्तु अर्थभेदात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपधायाश्च ॠत इद्धातोः ।। उदोष्ठ्यपूर्वस्य ।। ।। इत्त्वोत्त्वाभ्यां(1) गुणवृद्धी विप्रतिषेधेन ।। इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । इत्त्वोत्त्वयोरवकाशः ‐ आस्तीर्णम्(2) । निपूर्ताः पिण्डाः । गुणवृद्ध्योरवकाशः ‐ चयनं चायकः । लवनं लावकः । इहोभयं प्राप्नोति आस्तरणम्, आस्तारकः(2) । निपरणं निपारकः । ‐ गुणवृद्धी भवतो विप्रतिषेधेन ।। अयुक्तोऽयं विप्रतिषेधो योऽयं गुणस्येत्त्वोत्वयोश्च ।। कथम् ? ।। नित्यो गुणः ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते महाभाष्ये (शब्दानुशासने) सप्तमस्य प्रथमे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ।। 7।1।1 ।।