Page loading... Please wait.
6|4|92 - मितां ह्रस्वः
॥ तस्मै पाणिनये नमः ॥
6|4|92
SK 2568
मितां ह्रस्वः  
सूत्रच्छेदः
मिताम् (षष्ठीबहुवचनम्) , ह्रस्वः (प्रथमैकवचनम्)
अनुवृत्तिः
उपधायाः  6|4|89 (षष्ठ्येकवचनम्) , णौ  6|4|90 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
मिताम् अङ्गस्य उपधायाः णौ ह्रस्वः
सूत्रार्थः
मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य णिच्-प्रत्यये परे ह्रस्वादेशः भवति ।
यः धातुः मित्संज्ञकः अस्ति, तस्य धातोः उपधायाः णिच्-प्रत्यये परे ह्रस्वादेशः भवति । किम् नाम मित्संज्ञकः? वस्तुतः "मकारः यस्मिन् धातौ इत्संज्ञकः, सः धातुः मित्संज्ञकः" - इति अर्थः भवेत्, परन्तु कस्मिन्नपि धातौ मकारः इत्संज्ञकः नास्ति । तर्हि कस्य धातोः मित्संज्ञा भवति? धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः "मित्"संज्ञकाः उच्यन्ते । यथा, चुरादिगणे विद्यमानम् गणसूत्रम् ज्ञपादयो मितः इत्यनेन ज्ञपँ, यमँ, चहँ, रहँ, बलँ, चिञ् - एते षट्-धातवः मित्संज्ञकाः भवन्ति । तथैव, घटादयो मितः इत्यनेन घटाद्यन्तर्गणे विद्यमानाः धातवः मित्संज्ञकाः भवन्ति । एतादृशाः मित्-संज्ञकाः ये धातवः, तेषाम् उपधावर्णस्य णिच्-प्रत्यये परे अनेन सूत्रेण ह्रस्वादेशः भवति । यथा -

1. चुरादिगणे विद्यमानः ज्ञप् धातुः -
ज्ञप् + णिच् [सत्यापपाश.. 3|1|25 इति णिच्]
→ ज्ञप् + इ [इत्संज्ञालोपः]
→ ज्ञाप् + इ [अतः उपधायाः 7|2|116 इति वृद्धिः]
→ ज्ञप् + इ [मितां ह्रस्वः 6|4|92 इति ह्रस्वादेशः]
→ ज्ञपि [सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा]
अस्य रूपाणि अग्रे "ज्ञपयति", "ज्ञपयतः" आदीनि भवन्ति ।

2. भ्वादिगणस्य घटाद्यन्तर्गणे विद्यमानः वेष्ट्-धातुः-
वेष्ट् + णिच् [हेतुमति च 3|1|26 इति णिच्]
→ वेष्ट् + इ [इत्संज्ञालोपः]
→ विष्ट् + इ [मितां ह्रस्वः 6|4|92 इति ह्रस्वादेशः । एच इग्ह्रस्वादेशे [1।1।48]] इति एकारस्य ह्रस्वादेशः इकारः]
→ विष्टि[सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा]
अस्य रूपाणि अग्रे "विष्टयति", "विष्टयतः" आदीनि भवन्ति ।

3. चुरादिगणे विद्यमानः चिञ्-धातुः
चि + णिच् [सत्यापपाश.. 3|1|25 इति णिच्]
→ चि + इ [इत्संज्ञालोपः]
→ चै + इ [अचो ञ्णिति 7|2|115 इति वृद्धिः]
→ चाय् + इ [एचोऽयवायावः 6|1|78 इति आय्-आदेशः]
→ चय् + इ [मितां ह्रस्वः 6|4|92 इति ह्रस्वादेशः]
→ चयि [सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा]
अस्य रूपाणि अग्रे "चययति", "चययतः" आदीनि भवन्ति ।

ज्ञातव्यम् - एतत् सूत्रम् अतः उपधायाः 7|2|116 इत्यस्य अपवादः नास्ति, यतः अनेन सूत्रेण सर्वेषाम् उपधावर्णानाम् ह्रस्वादेशः उच्यते, केवलम् अकारस्य न । एतयोर्मध्ये विप्रतिषेधः अपि नास्ति, यतः उपधायाम् अकारः अस्ति चेत् अस्य सूत्रस्य किमपि प्रयोजनमेव नास्ति । अतः णिच्-प्रत्यये परे आवश्यकं चेत् अतः उपधायाः 7|2|116 इत्यस्यापि प्रयोगः भवितुम् अर्हति, मितां ह्रस्वः 6|4|92 इत्यस्यापि च । एवमस्ति चेत् च णिच्-प्रत्ययविशिष्टानि कार्याणि ( यथा - गुणवृद्धी तथा तस्मात् जायमानाः अय्/अव्/आय्/आव् एते आदेशाः - एतानि सर्वाणि) आदौ कृत्वा तदनन्तरमेव च अनेन सूत्रेण ह्रस्वादेशः विधीयते । किमर्थम्? यतः आदौ एव अनेन सूत्रेण ह्रस्वादेशं कृत्वा अनन्तरम् णिच्-प्रत्ययविशिष्टानि कार्याणि कुर्मश्चेत् ह्रस्वादेशस्य प्रयोजनमेव विनश्येत् ।
One-line meaning in English
The उपधा letter of a मित्संज्ञक अङ्ग becomes ह्रस्व when followed by the णिच् प्रत्यय.
काशिकावृत्तिः
मितो धातवः घटादयो मितः इत्येवम् आदयो ये प्रतिपादिताः, तेषाम् उपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वा इत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा। तेन उत्क्रामयति, सङ्क्रामयति इत्येवम् आदि सिद्धं भवति।
`एवमादिना` इति। आदिशब्देन `जनीजृष्कनसुरञ्जोऽमन्ताश्च` (धातुपाठः-817) इत्येवमादिग्रहणम्। `घटयति` व्यथयति` जनयति` इति। `घट चेष्टायाम्` (धातुपाठः-763) `व्यथ भयचलनयोः (धातुपाठः-764) `जनौ प्रादुर्भावे` (धातुपाठः-1149)। ननु च जनेः `जनिवध्योश्च` 7|3|35 इति वृद्धिः प्रतिषिध्यते, तदयुक्तमिदमुदाहरणम्, मित्सज्ञाप्यापार्थिका? नैतदस्ति; चिण्कृतोर्हि स वृद्धिप्रतिषेधः, तत्र हि `आतो युक्? चिण्कृतोः` 7|3|33 #इत्यनुवत्र्तते। `रजयित` इति। `रञ्जेर्णौ मृगरमण उपसंख्यानम्` (वा।778)। इत्यनुनासिकलोपे कृते `अत उपधायाः` 7|2|116 इति वृद्धिः। तस्यानेन ह्यस्वः। `शमयति` इति। शमेरमन्तत्वान्मित्त्वम्। अस्यापि `नोदात्तोपदेश` 7|3|34 इत्यादिना वृद्धिप्रतिषेधश्चिण्कृतोरेव। `ज्ञापयति` इति। `ज्ञा अवबोधने` (धातुपाठः-1507) इत्यस्य क्र्यादिपरिपठितस्य `मारणतोषणनिशामनेषु (धातुपाठः-811) ज्ञा, मिच्च` इति मित्संज्ञा, `अर्तिह्यी` 7|3|36 इत्यादिना पुकि कृते ह्यस्वः। `केचिदत्र` इत्यादि। `क्रमु पादविक्षेपे` (धातुपाठः-437)इत्यस्यामन्तत्वान्मित्संज्ञा, तस्य च ह्यस्वत्वे संक्रामयति, उत्क्रामयतीति न सिद्ध्येत्। तस्मादेतत्सिद्धये `वा चित्तविरागे` 6|4|91 इत्यतो वाग्रहणमनुवर्तयन्ति। तस्मश्चानुवत्र्तमाने सर्वत्र विकल्पः प्रसज्येतेत्यतिप्रसङ्गपरिहारार्थं `सा च व्यवस्थितविभाषा` इति। व्याचक्षते। अथ `मितामत्` इत्येवं कस्मान्नोक्तम्, लघु ह्रेवं सूत्रं भवति? अशक्यमेवं वक्तुम्, `वेष्ट वेष्टने` (धातुपाठः-255) इति घटादौ पठते, तत्रैवमुच्यमाने तस्याप्कारः प्रसज्येत्, `ह्यस्वः` इत्युच्यमाने `एच इग्? ह्यस्वादेशे` 1|1|47 इतीकारः सिद्धो भवति॥
रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ॥
सिद्धान्तकौमुदी
मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति । 1626 यम परिवेषणे । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः । 1627 चह परिकल्कने । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति । 1628 रह त्यागे इत्येके । अरीरहत् । कथादेस्तु अररहत् । 1629 बल प्राणने । बलयति । 1630 चिञ् चयने
मितां ह्रस्वः - मितां ह्यस्वः । "ऊदुपधाया गोहः" इत्यत उपधाया इति, "दोषो णौ" इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्यस्व इति भावः । यम च परिवेषणे । चान्मिदिति । "इति अनुकृष्यते" इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे "यमोऽपरिवेषणे" इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । "यमोऽपरिवेषणे" इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु "यमोऽपरिवेषणे" इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य "चिञ् चयने" इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्यस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । "चह परिकल्पने" इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । "रह त्यागे इत्येके" इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति ।
मितां ह्रस्वः - वेष्टनमिति ।परिवेषस्तु परिधि॑रित्यमरः । न त्वित्यादि । अयं भावः — घटादौयमोऽपरिवेषणे॑ इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम् । हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः । तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौयच्छतिर्भोजनातोऽन्यत्र मिन्ने॑ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः । अत्रेदं बोध्यं — घटादौयमोऽपरिवेषणे॑ इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्,यम च परिवेषणे॑ इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपियम च परिवेषणे॑ इत्यनेन मित्त्वं सिध्यतीति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.