Page loading... Please wait.
6|4|90 - दोषो णौ
॥ तस्मै पाणिनये नमः ॥
6|4|90
SK 2604
दोषो णौ  
सूत्रच्छेदः
दोषः (षष्ठ्येकवचनम्) , णौ (सप्तम्येकवचनम्)
अनुवृत्तिः
उपधायाः  6|4|89 (षष्ठ्येकवचनम्) , ऊत्  6|4|89 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
दोषः उपधायाः ऊत् णौ
सूत्रार्थः
दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।
"दुष्" (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे -

दुष् + णिच् [हेतुमति च 3|1|26 इति णिच्]
→ दूष् + इ [पुगन्तलघूपधस्य च 7|3|86 इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन दोषो णौ 6|4|90 इति उपधायाः ऊकारः]
→ दूषि [सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा ]

अस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "दोषः" इति दुष्-इत्यस्य षष्ठी-एकवचनम् अस्ति । वस्तुतः अत्र "दुषः" इति भवेत्, परन्तु अत्र "दोषः" इति निर्दिष्टम् अस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - "दुषः इति सुवचम् ।
2. "ऊत्" इत्यत्र तकारः उच्चारणार्थः अस्ति ।
One-line meaning in English
The उपधा letter of the verb root दुष् is converted to ऊकार when followed by the णिच् प्रत्यय.
काशिकावृत्तिः
दोषः उपधाया ऊकारः आदेशो भवति णौ परतः। दूषयति, दुषयतः, दूषयन्ति। विकृतग्रहणम् प्रक्रमाभेदार्थम्। पूर्वत्र हि गोहः इत्युक्तम्। णौ इति किम्? दोषो वर्तते।
`दीषयति` इति। `दुष वैकृत्ये` (धातुपाठः-1185)। अथ किमर्थम्? `दोषः` इति विकृतस्य ग्रहणम्, न `दुषः` इत्येवोच्येत, विषयावधारणार्थमिति चेत्? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह--`विकृतग्रहणम्` इत्यादि पूर्वसूत्रे हि `गोङः` इत्युक्तम्, अत्र यदि `दूषः` इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्, अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्। वैचित्त्र्यस्य ह्रयं प्रकारः--प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!॥
किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥
सिद्धान्तकौमुदी
दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥
दोषो णौ - दोषो णौ । "ऊदुपधाया" इत्यनुवर्तते । "दुष वैकृत्ये" इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।
दोषो णौ - दोषो णौ । दुष वैकृत्ये । दिवादिः । णौ किम् । दोषः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दोषो णौ (3088) (विकृतनिर्देशाक्षेपभाष्यम्) किमर्थं दुषेर्विकृतस्य ग्रहणं क्रियते, न दुष इत्येवोच्येत ? (6574 विकृतनिर्देशप्रयोजनवार्तिकम् ।। 1 ।।) - दोषिग्रहणे च - किम् ? अयादेशप्रतिषेधार्थं विकृतग्रहणं क्रियते । ह्रस्वादेशे ह्ययादेशप्रसङ्गः, ऊत्वस्यासिद्धत्वात् । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । उपदूष्य गतः । किं कारणम् ? ऊत्वस्यासिद्धत्वात् । असिद्धमूत्वं तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशः प्रसज्येत ।। (प्रयोजनाक्षेपभाष्यम्) समानाश्रयवचनात्सिद्धमित्येव । समानाश्रयमसिद्धम् । व्याश्रयं चैतत् । णावूत्वम्, णेर्ल्यप्ययादेश इति ।।