Page loading... Please wait.
6|4|89 - ऊदुपधाया गोहः
॥ तस्मै पाणिनये नमः ॥
6|4|89
SK 2364
ऊदुपधाया गोहः  
सूत्रच्छेदः
ऊत् (प्रथमैकवचनम्) , उपधायाः (षष्ठ्येकवचनम्) , गोहः (षष्ठ्येकवचनम्)
अनुवृत्तिः
अचि  6|4|77 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
गोहः उपधायाः ऊत् अचि
सूत्रार्थः
गुह्-धातोः अजादिप्रत्यये परे "गोह्" इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुम् उपधायाः ऊकारादेशः भवति ।
"गुहूँ" (संवरणे) इति भ्वादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे यदि उपधावर्णस्य (उकारस्य) गुणादेशं कृत्वा ओकारस्य प्रसक्तिः जायते, तर्हि तस्य गुणादेशस्य निषेधं कर्तुम् अस्य सूत्रस्य प्रयोगः भवति । अनेन सूत्रेण उकारस्य स्थाने दीर्घ-ऊकारस्य विधानं कृत्वा गुणादेशः निषिध्यते । यथा, गुह्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -
गुह् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ गुह् + झि [तिप्तस्.. 3|4|78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः "झि"]
→ गुह् + शप् + झि [कर्तरि शप् 3|1|68 इति शप्]
→ गूह् + अ + झि [अजादिप्रत्यये परे पुगन्तलघूपधस्य च 7|3|86 इत्यनेन गुह्-इत्यस्य उकारस्य गुणे प्राप्ते ऊदुपधाया गोहः 6|4|89 इत्यनेन तस्य अपवादत्वेन उकारस्य ऊकारादेशः भवति]
→ गूह् + अ + अन्ति [झोऽन्तः 7|1|3 इति अन्तादेशः]
→ गूहन्ति [अतो गुणे 6|1|97 इति पररूपः अकारः]

अस्मिन् सूत्रे "गोहः" अस्य ग्रहणम् एतत् ज्ञापयति यत् अस्य सूत्रस्य प्रयोगः तदा एव भवेत् अदा अजादिप्रत्ययः गुणं कारयितुम् समर्थः अस्ति । एवमस्ति चेदेव तस्य गुणादेशस्य बाधकरूपेण अनेन सूत्रेण ऊकारादेशः विधीयते । यदि गुह्-इत्यस्य उकारस्य गुणादेशः एव न प्रसज्यते, तर्हि अस्य सूत्रस्यापि प्रयोगः न भवति इति ज्ञातव्यम् । यथा, गु्ह्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -

गुह् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ गुह् गुह् + ल् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ गु गुह् + ल् [हलादि शेषः 7|4|60 इति हकारलोपः]
→ जु गुह् + ल् [कुहोश्चुः 7|4|62 इति गकारस्य चवर्गादेशः जकारः]
→ जु गुह् + तस् [तिप्तस्.. 3|4|78 इति तस् ]
→ जु गुह् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तस्-इत्यस्य अतुस्-आदेशः]
→ जुगुहतुः [अत्र "अतुस्"-प्रत्ययस्य अकारः सार्वधातुकमपित् 1|2|4 इत्यनेन ङित्-अस्ति, अतः क्ङिति च 1|2|5 इत्यनेन सः गुणस्य निषेधं कारयति । अतः अत्र पुगन्तलघूपधस्य च 7|3|86 इत्यनेन गुणस्य प्रसक्तिः नास्ति । अतः अत्र ऊदुपधाया गोहः 6|4|89 इत्यनेन दीर्घादेशः अपि न भवति ।]

ज्ञातव्यम् - "ऊत्" इत्यत्र तकारः उच्चारणार्थः अस्ति ।
One-line meaning in English
When the उपधा of verb root गुह् has a chance of undergoing a गुणादेश while followed by an अजादिप्रत्यय, the गुणादेश is blocked and the उपधा becomes दीर्घ instead.
काशिकावृत्तिः
गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः। निगूहति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपधायाः इति किम्? अलः अन्त्यस्य मा भूत्। गोहः इति विकृतग्रहणं विषयार्थम्। यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह मा भूत्, निजुगुहतुः। निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वादिति णेरयादेशः स्यात्। व्याश्रयत्वादेव असिद्धत्वम् अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति। अचि इत्येव, निगोढा। निगोढुम्।
`निगूहयति` इति। `गुहू संवरणे` (धातुपाठः-896), हेतुमाण्णिच्। `निगूहकः` इति। ण्वुल्। `साधुनिगूहि` इति। `सुप्यजातौ णिनिस्ताच्छील्ये` 3|2|78 इति णिनिः। `निगूहं निगूहम्` इति। `आभीक्ष्ण्ये णमुल्? च` 3|4|22 इति णमुल्, `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `निगूहः` इति। भावे घञ्। `अलोऽन्यस्य मा भूत्` इति। उत्तरत्र इत्यभिप्रायः। इह त्वोरित्यनुवत्र्य विनाप्युपधाग्रहणेन शक्यत एवायमर्थः प्रतिपादयितुमित्येतदेव मनसि कृत्वा परं पृष्टवान्--`उपधाग्रहणं किं? इति; इत्तरार्थञ्चोपधाग्रहणं क्रियमाणमत्राप्यलोऽन्त्यस्य विधिं निवत्र्तयति। तेन प्रयोजनाभावात्? ओरित्येतन्नानुवर्तते। अथ किमर्थम्? `गोहः` इति विकृतनिर्देशः क्रियते, न `गुहः` इत्येवोच्येत, लघु ह्रेवं सूत्रं भवति? इत्याह--`गोह इति विकृतग्रहणम्` इत्यादि। ऊत्त्वस्य विशिष्टविषयो यथा स्यादित्येवमर्थम्। `गोह` इति विकृतस्य कृतोकारस्थ ग्रहणमित्यर्थः। एतदेव व्यक्तीकर्त्तुमाह--`यत्र` इत्यादि। अस्य कश्चिदमुमर्थमाचष्टे। एतदुक्तं भवति--गुणे कृते ऊत्त्वेन भवितव्यमिति लक्ष्यते; एतच्चायुक्तम्; एवं हि व्याख्यायमाने `अयादेशप्रतिषेधार्थं `निगूह्र गतः` इति `केचिदिच्छन्ति` इत्युक्त्वा यद्वक्ष्यति--`उत्त्वस्यासिद्धत्वात्? `ल्यपि लघूपूर्वात्` 6|4|56 इति णेरयादेशः स्यात्` इति, तन्नोपपद्यते। यदि गूणं कृत्वोकारस्योत्त्वं विधीयते, ततश्च सत्यूकारस्यासिद्धत्वेनैव लघुपूर्वत्वमुपपद्यते, ओकारपूर्वत्वात्; तत्? कुत ऊकारस्यासिद्धत्वेऽयादेशप्रसङ्गः? तस्मादयमत्रार्थः--यस्मिन्? विषये गुहेर्गोह इत्येतद्रूपं सम्भाव्यते तत्र यथा स्यात्। यत्र प्रत्यये गुणः सम्भवति तस्मिन्? कृतेऽकृत एव गुणे यथा स्यात्, अन्यत्र मा भूदिति। तस्माद्विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्? गुणविषये सम्मुखीभूत एवाकृत एव गुण ऊत्वेन भवितव्यम्। एवञ्च सति `ऊत्तवस्यासिद्धत्वात्` इत्यादिकः प्रसङ्गग्रन्थो युज्यते, नान्यथा। ननु च गुणनिमित्ते प्रत्यय उत्पन्ने परत्वाद्? गुणेनैव भवितव्यम्, तत्कथमकृत एव गुण ऊत्त्वं भवेत्? कृताकृतप्रसङ्गित्वात्। तद्धि कृते गुणे प्राप्नोत्यकृतेऽपि, विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्। न तूत्त्वे कृते गुणः प्राप्नोति, अलघूपधत्वात्। तस्माद्? गुणात्? पूर्वमूत्त्वेन नित्यत्वाद्भवितव्यम्। अत एव दीर्घोच्चारणमर्थवद्भवति, नान्यथा। यदि गुणे कृते सत्ययमादेशः स्यात्, दीर्घोच्चारणमनर्थकं स्यात्। आन्तरतम्यादेव दीर्घस्य दीर्घो भविष्यति। ज्ञापितं हि `दिव उत्` 6|1|131 इति तपकरमेन--`भाव्यमानोऽप्युकारः सवर्णान्? गृह्णति` (चान्द्र।प।44) इति। यदन्यत्? प्राप्नोति तन्निवृत्त्यर्थं दीर्घोच्चारणमिति चेत्? स्यादेतत्--`अजुगूहत्` इत्यत्र `णौ चङ्यपधायाः` 7|4|1 इति ह्यस्वो मा भूदित्येवमर्थं दीर्घोच्चारणमिति। कुतः पुनरेष नियमोऽत्र ह्यस्वत्वेन न भवितव्यमिति? न हीह कात्यायनस्य भाव्यकारस्य वा वचनमस्ति, नापि शिष्टप्रयोगः, यत एष निश्चयः स्यात्। `यथालक्षणमप्रयुक्तेषु` इति चोच्यत। तस्मात्? `अजूगुहत्` इत्येवं भवितव्यम्। यदि गुणे कृतेऽयमादेशः क्रियेत, ततः किमनिष्टं स्यात्? दीर्घोच्चारणमनर्थकं स्यात्। अत्रापि दीर्घोच्चारणं वैचित्त्र्यार्थं प्रकल्प्येत? एवमपि प्रक्रियागौरवं स्यात्। तस्माद्दीर्घोच्चारणसामथ्र्यादकृत एव गुण ऊत्त्वेन भवितव्यम्। `निगूह्र गतः` इति। ण्यन्तात्? कत्वा, प्रादिसमासः। `समासोऽनञ्पूर्व` 7|1|37 इत्यादिना क्त्वो ल्यप्। `तत्र व्याश्रयत्वात्` इत्यादि। एतेनायादेशप्रतिषेधार्थतां विकृतिनिर्देशस्य प्रत्याचष्टे। कथं पुनव्र्याश्रयत्वम्? इत्याह--`णावूत्त्वम्` इत्यादि। `निगोढा` इति। तृच्। `हो ढः` 8|2|31 , `झषस्तथोर्धोऽधः` 8|2|40 इति धत्वम्, `ष्टुना ष्टुः` 8|4|40 इति ष्टुत्त्वम्, `ढो ढे लोपः` 8|3|13
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
ऊदुपधाया गोहः - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टाम् अगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षताम् अघुक्षन्नित्यादि ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ऊदुपधाया गोहः (3087) (उपधाकार्याधिकरणम्) (विकृतनिर्देशाक्षेपभाष्यम्) किमर्थं गुहेर्विकृतस्य ग्रहणं क्रियते, न गुह इत्येवोच्येत? (6572 विकृतनिर्देशप्रयोजनवार्तिकम्।।1।।) गोहिग्रहणं विषयार्थम्।। गोहिग्रहणं क्रियते विषयार्थम्। विषयः प्रतिनिर्दिश्यते। यत्रास्यैतद्रूपं तत्र यथा स्यात्, इह मा भूत् ‐ निजुगुहतुः, निजुगुहुरिति।। (विकृतनिर्देशप्रयोजनभाष्यम्) अयादेशप्रतिषेधार्थं च विकृतग्रहणं क्रियते।। (6573 प्रयोजनसमर्थकवार्तिकम्।।2।।) ह्रस्वादेशे ह्ययादेशप्रसङ्ग ऊत्वस्यासिद्धत्वात्।। ह्रस्वादेशे हि सति अयादेशः प्रसज्येत। प्रगूह्य गतः, उपगूह्य गत इति। किं कारणम्? ऊत्वस्यासिद्धत्वात्। असिद्धमूत्वम्, तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् 6|4|56 इत्ययादेशः प्रसज्येत। (प्रथमप्रयोजनाक्षेपभाष्यम्) विषयार्थेन तावन्नार्थो गोहिग्रहणेन। प्रश्लिष्टनिर्देशात्सिद्धम्। प्रश्लिष्टनिर्देशोऽयम् ‐ उ-ऊत्-ऊदिति। तत्र ह्रस्वस्यावकाशः ‐ निजुगुहतुः, निजुगुहुः। गुणस्यावकाशः ‐ निगोढा, निगोढुम्। इहोभयं प्राप्नोति ‐ निगूहयति, निगूहति, निगूहकः, साधु निगूही। परत्वात् गुणे कृते आन्तर्यतो दीर्घो भवति। (द्वितीयप्रयोजनाक्षेपभाष्यम्) अयादेशप्रतिषेधेन चापि नार्थः। समानाश्रयवचनात्सिद्धम्। समानाश्रयमसिद्धं भवति। व्याश्रयं चैतत्। णावूत्वम्, णेर्ल्यप्ययादेशः।।