Page loading... Please wait.
6|4|83 - ओः सुपि
॥ तस्मै पाणिनये नमः ॥
6|4|83
SK 281
ओः सुपि   🔊
सूत्रच्छेदः
ओः (षष्ठ्येकवचनम्) , सुपि (सप्तम्येकवचनम्)
अनुवृत्तिः
धातुः  6|4|77 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , यण् अचि 7/1 [6|4|77]  6|4|81 (प्रथमैकवचनम्) , असंयोगपूर्वस्य  6|4|82 (षष्ठ्येकवचनम्) , अनेकाचः  6|4|82 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
अनेकाचः अङ्गस्य असंयोगपूर्वस्य ओः धातोः सुपि अचि यण्
सूत्रार्थः
धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य उवर्णस्य अजादौ सुप्-प्रत्यये परे यणादेशः भवति ।
अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -

1. अनेन सूत्रेण अजादि-सुप्-प्रत्यये परे यणादेशः प्रोक्तः अस्ति ।
2. कस्य यणादेशः? अत्र स्थानी अस्ति "असंयोगपूर्वस्य ओः धातोः" । "धातोः" इति विशेष्यम्, "असंयोगपूर्वस्य" तथा "ओः" एते विशेषणे ।
3. प्रथमं विशेषणम् अस्ति - "ओः" इति । एतत् "उ" इत्यस्य षष्ठी-एकवचनम् अस्ति । "ओः धातोः" इत्युक्ते "उवर्णान्त-धातोः" (येन विधिस्तदन्तस्य 1|1|72 )।
4. अलोऽन्त्यस्य 1|1|52 इत्यनेन अस्य उवर्णान्तधातोः "अन्तिमवर्णस्य" ( = उवर्णस्य) यणादेशः भवति इति अर्थः जायते ।
4. "धातोः" अस्य द्वितीयम् विशेषणम् अत्र प्रयुक्तम् अस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-उवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? हलोऽनन्तराः संयोगः 1|1|7 इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति।
5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतम् अस्ति? सः धातुः यस्य अन्ते उकारः अस्ति, तथा यस्मिन् धातौ उकारात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इकारस्य स्थाने अजादि-सुप्-प्रत्यये परे यणादेशः भवति ।
6. अयं स्थानी "अनेकाच्-अङ्गस्य" भवेत् इति उक्तम् अस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । "अनेकाच्" इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति ।
7. पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया "अनेकाचः अङ्गस्य धातोः" इत्युक्ते "अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः" इति अर्थः निष्पद्यते ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गम् अनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि उवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः उवर्णस्य अजादि सुप्-प्रत्यये परे यणादेशः भवति ।

उदाहरणानि एतानि -

1) "खलं पुनाति सः" अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा "खलपू" इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गम् अनेकाच् तथा धात्वन्तम् अस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः उवर्णान्तः च अस्ति, अतः उवङ्-आदेशं बाधित्वा अत्र यणादेशः भवति , ततः च "खलप्वौ" इति रूपं सिद्ध्यति ।

2) "कटं प्रवति सः" अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा "कटप्रू" इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेशः आगच्छति । अत्र अङ्गम् अनेकाच् तथा धात्वन्तम् अस्ति, परन्तु अस्य अन्ते विद्यमानः धातुः संयोगपूर्वः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः उवङ्-आदेशे कृते "कटप्रुवौ" इत्येव रूपं सिद्ध्यति ।

3) अस्मिन् सूत्रे "अचि" इत्यस्य "सुपि" इति विशेषणम् अस्ति । अतः अस्य सूत्रस्य प्रसक्तिः केवलं सुप्-प्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, "लूञ्" (छेदने) अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशं सिद्ध्यति -
लू + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ लू लू ल् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ लु नी ल् [ह्रस्वः 7|4|59 इति अभ्यासस्य ह्रस्वः]
→ लु लू तस् [तिप्तस्.. 3|4|78 इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्]
→ लु लू अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तस्-इत्यस्य अतुस्-आदेशः]
→ लु ल् उवङ् अतुस् [अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेशः]
→ लुलुवतुः

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - गतिकारकेतरपूर्वपदस्य यण् नेष्यते । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा -
1. "सुष्ठु लूनाति सः" इत्यर्थे "सुलू" इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् "सु" इति गतिसंज्ञकम् अस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा "सुल्वौ", "सुल्वः" आदीनि रूपाणि सिद्ध्यन्ति ।
2. "परमम् वृक्षम् लूनाति सः" इत्यर्थे "परमलू" इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् "परम" एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा "परमल्वौ, "परमल्वः" आदीनि रूपाणि सिद्ध्यन्ति ।
3. "परमः च असौ लूः" इत्यर्थे अपि "परमलू" इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गम् अनेकाच् तथा असंयोगपूर्व-उवर्णान्त-धात्वन्तम् अस्ति, तथापि अत्र यणादेशः न भवति । अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेशः एव जायते । यथा - परमलुवौ, परमलुवः ।
One-line meaning in English
An उवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by a सुप् अजादिप्रत्यय.
काशिकावृत्तिः
धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान् न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति। खलप्वौ। खलप्वः। शतस्वौ। शतस्वः। सकृल्ल्वौ। सकृल्ल्वः। सुपि इति किम्? लुलुवतुः। लुलुवुः। अनेकाचः इत्येव, लुवौ। लुवः। असंयोगपूर्वस्य इत्येव, कटप्रुवौ। कटप्रुवः। गतिकारकाभ्याम् अन्यपूर्वस्य न इष्यते, परमलुवौ। परमलुवः।
`खलप्वौ` इति। खलं पुनातीति `अन्येभ्योऽपि दृश्यते` 3|2|178 इति क्विप्। `शतस्वौ` इति। अत्रापि शतं सूत्र इति `सत्सूद्विष` 3|1|61 इत्यादिना क्विप्। `सकृल्ल्वौ` इति। `तोर्लि` 8|4|59 इति परसवर्णः। `कटप्रुवौ` इति। `प्रूङ्? गतौ` (धातुपाठः-957), [`प्रुङ्`--धातुपाठः-] `क्विब्? वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च` इति क्विप्, दीर्घत्वञ्च। `ओः` इति स्पष्टार्थम्। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; `य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण्--उन्न्यौ; ग्रामण्याविति॥
सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् । कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ॥
सिद्धान्तकौमुदी
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥गतिकारकेतरपूर्वपदस्य यण्नेष्यते (वार्तिकम्) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः (कौमुदी-273) । स्वभुवौ । स्वभुवः ॥
ओः सुपि - ओः सुपि । "एरनेकाचः" इति सूत्रं, एरितिवर्जमनुवर्तते । "अचि श्नुधातु" इत्यतोऽचीत्यनुवृत्तं । तेन सुपीति विशेष्यते । तदादिविधिः । "इणो य" णित्यतो यणित्यनुवर्तते । तदाह — धात्ववयवेत्यादिना । गतिकारकेति । इदमपि वार्तिकमत्रानुवर्तते इति भावः । खलप्वौ खलप्व इति । कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः । खलप्वम् खलप्वौ खलप्वः । खलप्वा । खलप्वे । खलप्वः । खलप्वः खलप्वोः । खलप्वि । इह अजादौ "एरनेकाचः" इतिओः सुपी॑ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः । एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलूरित्यादिसङ्ग्रहः । कटप्ररिति ।प्रुगतौ॑ ।क्विब्वची॑त्यादिना क्विप्, उकारस्य दीर्घश्च । परमलुवाविति । परमश्चासौ लूश्चेति विग्रहः । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षर्तावुत्पन्न इत्यर्थः । वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः ।वर्षाभूर्ददुरे पुमान् इति यादवः ।न भूसुधियो॑रिति निषेधे प्राप्ते- ।
ओः सुपि - ओः सुपि ।इणो यण्इत्यतो यण्,एरनेकाचः ॑इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्,ओ॑रित्युकारस्य कार्यिणो निर्देशात् ।अचि श्नुधात्वि॑ति सूत्राद्धातुःएरनेकाचः॑इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे — -धात्ववयवसंयोगेत्यादि ।
लघुसिद्धान्तकौमुदी
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.