Page loading... Please wait.
6|4|81 - इणो यण्
॥ तस्मै पाणिनये नमः ॥
6|4|81
SK 2455
इणो यण्  
सूत्रच्छेदः
इणः (षष्ठ्येकवचनम्) , यण् (प्रथमैकवचनम्)
अनुवृत्तिः
अचि  6|4|77 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
इणः अङ्गस्य अचि यण्
सूत्रार्थः
"इण्"-धातोः अङ्गस्य अच्-वर्णे परे यणादेशः भवति ।
"इण्" (गतौ) इति अदादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशे प्राप्ते अपवादत्वेन इकारस्य यणादेशः यकारः भवति । यथा -

1. इण्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -
इ + लट् [वर्तमाने लट् 3|2|123]
→ इ + झि [तिप्तस्.. 3|4|78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]
→ इ + शप् + झि [कर्तरि शप् 3|1|68 इति शप्]
→ इ + झि [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-विकरणस्य लुक् ]
→ इ + अन्ति [झोऽन्तः 7|1|3 इति अन्त्यादेशः]
→ य् + अन्ति [इणो यण् 6|4|81 इति यणादेशः]
→ यन्ति

2. इण्-धातोः लङ्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -
इ + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ आट् + इ + ल् [आडजादीनाम् 6|4|72 इति आडागमः]
→ आ + इ + झि [तिप्तस्.. 3|4|78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]
→ आ + इ + शप् + झि [कर्तरि शप् 3|1|68 इति शप्]
→ आ + इ + झि [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-विकरणस्य लुक् ]
→ आ + इ + अन्ति [झोऽन्तः 7|1|3 इति अन्त्यादेशः]
→ आ + इ + अन्त् [इतश्च 3|4|100 इति इकारलोपः]
→ आ + य् + अन्त् [इणो यण् 6|4|81 इति इकारस्य यणादेशः]
→ आयन् [संयोगान्तस्य लोपः 8|2|7 इति तकारलोपः]

ज्ञातव्यम् -
1. अस्मिन् सूत्रे इकारस्य "यण्" भवति इत्युक्तम् अस्ति । वस्तुतः यण्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति । परन्तु स्थानसाधर्म्यात् इकारस्य यकारः एव भवति ।
2. मध्येऽपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् अनया परिभाषया अयम् यणादेशः केवलं इयङ्-इत्यस्यैव अपवादरूपेण आगच्छति, गुण-वृद्धेः अपवादत्वेन न । यथा, इण्-धातोः ण्वुल्-प्रत्यये परे -

इ + ण्वुल् [ण्वुल्तृचौ 3|1|133 इति ण्वुल्]
→ इ + अक [युवोरनाकौ 7|1|1 इति "अक" आदेशः]
→ ऐ + अक [इणो यण् 6|4|81 इति इकारस्य यणादेशे प्राप्ते, परत्वात् अचो ञ्णिति 7|2|115 इति वृद्धिः]
→ आयक [एचोऽयवायावः 6|1|78 इति आय्-आदेशः]
अत्र वृद्धि-आदेशः यणादेशम् परत्वात् बाधते ।
One-line meaning in English
The verb root इण् gets a यणादेश when followed by an अच् letter.
काशिकावृत्तिः
इणो ऽङ्गस्य यणादेशो भवति अचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवदो ऽयम्। मध्ये ऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः।
अत्र पक्षद्वयं सम्भाव्यते--`इणः` इति प्रत्याहारग्रहणं स्यात्, धातुग्रहणं वा? तत्र `एरच्` 3|3|56 इति, `ओरावश्यके` 3|1|125 इति, `उरत्` 7|4|66 इत्यवमादिभ्यो निर्देशेभ्य एव नेदं प्रत्याहारग्रहणम्। अतः परिशेष्याद्धातुग्रहणमेवेदं विज्ञायते। णकारोच्चारणमिगिङोर्निवृत्त्यर्थम्। ये तु `इण्वदिकः` (वा।167) इति सामान्येनातिदेशमिच्छन्ति, तेषामिङ एव निवृत्त्यर्थम्। इकस्त्वधियन्तीति भवितव्यमेव यणा। अथ `नेणः` इत्येव कस्मान्नोक्तम्, इयङादेशेऽचि प्रतिषिद्धे सति `इको यणचि` 6|1|77 इति यण्? भविष्यति? सत्यमेतत्; उत्तरार्थन्तु यण्ग्रहणम्। `यन्ति` इत्यद्युदाहरणेष्वदादित्वाच्छपो लुक्। `आयन्` इति। लङ्? झोऽन्तादेशे संयोगान्तलोपः, असिद्धत्वादजादित्वादाट्। अथेह कस्मान्न भवति--अयनम्? आयक इति? अत आह--`इयङादेशापवादोऽयम्` इति। ननु यथेयङि प्राप्तोऽयमारभ्यते, तथा गुणवृद्ध्योरपि, तत्? कुत एतल्लभ्यते--अयमियङोऽपवादः, न गुणवृद्ध्योरित्याह--`मध्येऽपवादाः` इत्यादि। इतिकरणो हेतौ। यस्मात्? `मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान्` (व्या।प।10), तस्मादियङ एव पूर्वस्य विधेरयमपवादः, न तु परयोर्गुणवृद्ध्योः यतश्चैतदेवं तेन गुणवृद्धिभ्यां तु परत्वाद्बाध्यते। अस्यावकाशः--यन्ति, यन्त्विति। `गुणवृद्ध्योः--चयनम्, चायक इति; अयनम्, आयक इत्यत्रोभयं प्राप्नोति। परत्वाद्यणं बाधित्वा गुणवृद्धी भवतः॥
अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ।ल्ते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङदेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्तते । इयङदेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्ट्ंअ सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङदेशे हि एप्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङ् प्रितिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ॥
सिद्धान्तकौमुदी
अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥
इणो यण् - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे "अभ्यासस्याऽसवर्णे" इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते — -
इणो यण् - येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । अयनम् । आयकः ।
लघुसिद्धान्तकौमुदी
अजादौ प्रत्यये परे। यन्ति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.