Page loading... Please wait.
6|4|65 - ईद्यति
॥ तस्मै पाणिनये नमः ॥
6|4|65
SK 2843
ईद्यति  
सूत्रच्छेदः
ईत् (प्रथमैकवचनम्) , यति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|4|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः। देयम्। धेयम्। हेयम्। स्तेयम्।
`क्ङिति` इत्युत्तरार्थमनुवर्तमानमपीह नाभिसम्बध्यते; यत क्ङित्त्वासम्भवात्। तकार उच्चारणार्थः; अनण्त्वादेव हि सवर्णग्रहणं न भविष्यति। असत्यपि वा जातिपक्षे सवर्णग्रहण आन्तरम्याद्दीर्घ एव भविष्यति; न ह्यस्वः। दीर्घोच्चारणमुत्तरार्थम्। इह तु गुणेन भवितव्यम्। न चात्र दीर्घस्य ह्यस्वस्य वा गुणे कृते कश्चिद्विविशेषोऽस्ति। `देयम्` इति। `अचो यत्` 3|1|97
दीर्घविधानमुतरार्थम् - अध्यगीष्ट । इह तु गुणेन भवितव्यमिति ह्रस्व एव विधेयः ॥
सिद्धान्तकौमुदी
यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥तकिशसिचतियतिजनिभ्यो यद्वाच्यः (वार्तिकम्) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च (कौमुदी-2512) इति नेषेधात् ॥ ।हनो वा यद्वधश्च वक्तव्यः (वार्तिकम्) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥
ईद्यति - इद्यति । आत इति ।आतो लोप इटि चे॑त्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोःअचोय॑दिति यति अत ईत्त्वेसार्वधातुकाद्र्धधातुकयो॑रिति गुण इति भावः । ग्लेयमिति । "ग्लै हर्षक्षये" इति धातोर्यति "आदेचः" इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि,शसि , चति , यति, जनी प्रादुर्भावे॑ इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः । सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननुअर्हे कृत्यतृचश्चे॑त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह — स्वरार्थ इति । "यतोऽनावः" इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति — न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह — जनिवध्योरिति । हनो वेति । हनधातोर्यद्वा स्यात्,प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यतिहनस्तोऽचिण्णलो॑रिति नस्य तः । कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः ।
ईद्यति - * हनो वा यद्वधश्च वक्तव्यः । हनो वा यदिति । हन्तेर्वा यत्स्यात् । यत्संनियोगेन वधादेशस्तु नित्य एव । यद्यपि वधमर्हतीति वध्य इतिशीर्षच्छेदाद्यच्चे॑त्यतो यदित्यनुवर्तमानेदण्डादिभ्यः॑ इति तद्धितेन यताऽपि सिध्यति तथाप्यसिवध्यो मुसलवध्य इति समासो न सिध्येत् । कृति पुनःकर्तृकरणे कृता॑ इति सिध्यति । न चासिवधमर्हतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम् । दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविदेश्च प्रतिषेधात्, स्वरे भेदाच्च । असिवधशब्दाद्यति हि सतितित्स्वरित॑मिति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्द आद्युदात्तः । अतएव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास इत्यपि न वाच्यम्, अन्तोदात्तत्वप्रसङ्गादिति दिक् । घात्य इति ।हनस्तोऽचिण्णलोः॑ इति तत्वम् ।हो हन्तेः॑ इति कुत्वम् ।
लघुसिद्धान्तकौमुदी
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.