Page loading... Please wait.
6|4|6 - नृ च
॥ तस्मै पाणिनये नमः ॥
6|4|6
SK 283
नृ च   🔊
सूत्रच्छेदः
नृ (लुप्तषष्ठ्यन्तनिर्देशः)(अव्ययम्)
अनुवृत्तिः
दीर्घः  6|3|111 (प्रथमैकवचनम्) , उभयथा नामि [6|4|3] 6/1  6|4|5 (अव्ययम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
नृ-अङ्गस्य नामि दीर्घः उभयथा
सूत्रार्थः
षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नृ-शब्दस्य दीर्घादेशः विकल्पेन भवति ।
नामि 6|4|3 इत्यनेन षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । अयं दीर्घादेशः नृ-शब्दस्य विषये विकल्पेन भवति । अतः नृ-शब्दस्य षष्ठीबहुवचनस्य द्वे रूपे भवतः - नृणाम्, नॄणाम् ।

विशेषः - "उभयथा" अस्य अर्थः अत्र "वा / विकल्पेन" इति स्वीक्रियते । "द्वाभ्याम् प्रकाराभ्याम्" इति अर्थग्रहणं क्रियते चेत् "दीर्घः द्वाभ्यां प्रकाराभ्यां भवति" इति अनिष्टं वाक्यं सिद्ध्येत् ।
One-line meaning in English
In presence of the नाम् प्रत्यय, the last letter of the word नृ becomes दीर्घ optionally.
काशिकावृत्तिः
नृ इत्येतस्य नामि परे उभयथा भवति। त्वं नृ̄णां नृपते, त्वं नृणां नृपते केचिदत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायाम् अपि विकल्पो भवति।
`केचिदेतचछन्दसीति नानुवत्र्तयन्ति` इति। त एवं मन्यन्ते--यद्ययं योगश्चन्दस्येव स्यात्? `छन्दसि नृ चोभयथा` इत्येकयोगमेव कुर्यात्। चकारो हि तिसृचतरुआओरनुकर्षणार्थः। तत्रैकयोगेनैव सिद्धे पृथग्योगकरणान्निश्चीयते--भाषायामप्येष योग इति॥
केचिदत्रेति । च्छन्दस्युभयथा इत्यतः । येत्वनुवर्तयन्ति ते पूर्वसूत्रे तिसृचतसृग्रहणमनुवर्तयन्ति ॥
सिद्धान्तकौमुदी
नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥ कॄ तॄ अनयोरनुकरणे [(परिभाषा - ) प्रकृतिवदनुकरणम्‌] इति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः । किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू (कौमुदी-276)इति ऋतो ङी (कौमुदी-275)ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥ गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ (कौमुदी-279)दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
नृ च। इह `छन्दस्युभयथे`ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह---वा दीर्घः स्यादिति। केचित्त्विह `छन्दसी`त्यप्यनुवर्तयन्ति, तेषां हि `चिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,``नृणामेको गम्यस्त्वमसी`त्यादिप्रयोगा न सङ्गच्छेरन्। किञ्च `छन्दस्युभयथे`ति पूर्वसूत्रेणैव `नृणा`मिति सिद्धे `नृ चे`ति सूत्रस्य वैयथ्र्यं स्यात्। यदपि पूर्वसूत्रे `तिसृचतसृ`इत्यनुवर्तयन्ति, तदप्ययुक्तम्। अविशेषेण विकल्पदर्शनात्। तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्य्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक्।
लघुसिद्धान्तकौमुदी
अस्य नामि वा धीर्घः। नृणाम्। नॄणाम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.