Page loading... Please wait.
6|4|51 - णेरनिटि
॥ तस्मै पाणिनये नमः ॥
6|4|51
SK 2313
णेरनिटि  
सूत्रच्छेदः
णेः (षष्ठ्येकवचनम्) , अनिटि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|4|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणाम् अपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटि इति किम्? कारयिता। हारयिता।
`णेः` इति। णिङणिचोर्विशेषकरावनुबन्धावुबन्धावुत्सृज्य यत्? समान्यं णिमात्रं तस्य ग्रहणम्। इयङादिभिः सर्वस्य विषयस्यावष्टब्धत्वादनवकाशीऽयं णिलोपस्तेषामपवादोऽयं विज्ञायत इत्यत आह--`इयङ्यण्` इत्यादि। `अततक्षत्, अररक्षत्` इति। तक्षिरक्षिभ्यां हेतुमण्णिच्, तदन्तालुङ्? `णिश्रिदुरुआउभ्यः 3|1|48 इत्यादिना च्लेश्चङ्, ङित्त्वाद्? गुणस्य प्रसङ्ग एव नास्तीतीयङादेशः स्यात्। अतस्तस्यापवादो णिलोपः। `आटिटत्, आशिशत्`। अटशिभ्यां पूर्वं णिजादिषु कृतेषु `अजादेर्द्वितीयस्य` 6|1|2 इति टिशब्दशिशब्दौ द्विरुच्येते। अत्र `एरनेकाचः` 6|4|82 इत्यादिना प्राप्तस्य यणादेशस्यायमपवादः। `कारणा, हारणा` इति। अत्र `सार्वधातुकार्धधातुकयोः` 7|3|84 इति प्राप्तस्य गुणस्य। `कारकः, हारकः` इति। अत्र `अचो ञ्णिति` 7|2|115 इति वृद्धेः। `कार्यते, हार्यते` इति। अत्र `अकृत्सार्वधातुकयोः` 7|4|25 इति प्राप्तस्य दीर्घस्य। `ज्ञीप्सति` इति। `अज्झनगमां सनि` 6|4|16 इति प्राप्तस्य दीर्घस्यैव। जानातेर्णिचि `अर्त्तिह्यी` 7|3|36 इत्यादिना पुक्, `मारणतोषणनिशामनेषु ज्ञा` (धातुपाठः-811) इति घटादिपाठात्? `घटादयो मितः` (ग।सू।धातुपाठः-817) इति मित्संज्ञा, `मितां ह्यस्वः` 6|4|92 इति ह्यस्वत्वम्, `अत्र लोपोऽभ्यासस्य` 7|4|58 इत्यभ्यासलोपः। `कारयिता, हारयिता` इति। `अनिटि` इति वचनादिह न भवति। `अनिटि` इति शक्यमकर्तुम्। कथम्? `निष्ठायां सेटि` 6|4|52 इति नियमार्थं भविष्यति--निष्ठायामेव सेटि, नान्यत्रेति? अयुक्तमेतत्, विपरीतनियमोऽप्याशङ्क्येत--`सेटएव निष्ठायाम्` इति। तथा च सति `कारयिता` इत्यत्र स्यादेव णिलोपः। तस्माद्विपरीतनियमाशङ्कानिरासार्थं `अनिटि` इत्युक्तम्॥
इयङदिभिरेव सर्वस्य विषयस्यावष्टब्धत्वादनवकाशो णिलोपस्तेषां बाधक इत्याह - इयङ्यणित्यादि । एननु पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्युदारहिष्यति, ण्यासश्रन्थो युच् इति युचि प्राप्ते क्तिन्नजादिभ्यः इति क्तिन्प्रत्ययः क्तिज्वा पुनरयं द्रष्टव्यः, तत्कथमनवकाशः उच्यते, यद्येतावत् प्रयोजनं स्यात्, अनिटीति न वक्तव्यंस्यत्, अतोऽनिटीति वचनादीर्घधातुकमात्रविषयतास्यावसीयते, ततश्च युक्तमियङदीन्प्रत्यपवादत्वम् । वार्तिककारेण तु पूर्वविप्रतिषेधः पठितः - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति । अततक्षदिति । अत्र चङे ङित्वाद् गुणिस्याप्रसङ्गः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एएवायं विषयः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एवायं विषयः, अत्रेयङ् सिति पुनः प्रसङ्गविज्ञानात् भवन्नपि लोपोऽन्त्यस्य स्यात् । । आशिशदिति । एरनेकाचः इति यणोऽत्र प्रसङ्गः । अत्र सत्यपि यणि असिद्धत्वात्पुनःप्रसङ्गविज्ञानेन वा णिलोपे सति सिद्धमिष्टम् । एवं गुणवृद्धिदीर्घविषयेऽपि द्रष्टव्यम् । च न गुणवृद्ध्योरयादेशप्रसङ्गः, वार्णादाङ्गं बलीयः इति णिलोपः । ज्ञीप्सतीति । आप्ज्ञप्यृधामीत् अज्झनगमां सनि इति दीर्घप्रसङ्गः । अनिटीति शक्यमकर्तुम् । कथं कारयिता निष्ठायां सेटि इत्येतन्नियमार्थं भविष्यति - सेटि यदि भवति निष्ठायामेवेति । विपरीतस्तु नियमो न भवति - निष्ठायां सेट।लेवेति अनिटो निष्ठाया असम्भवात् । असम्भावश्चोतरसूत्रे वक्ष्यते । अथ वा - अयामन्ताल्वाय्येन्विष्णुषु इत्यत्र णेरिति योगविभागः क्रियते, सेट।लर्द्धधातुके णेरयादेशो भवति लोपस्यापवादः ॥
सिद्धान्तकौमुदी
अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः--(कौमुदी-272) इति यणि प्राप्ते ॥ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् (वार्तिकम्) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥
णेरनिटि - णेरनिटि । आद्र्धदातुक इत्यधिकृतम् । "अतो लोप" इत्यस्माल्लोप इत्यनुवर्तते ।अनिटी॑त्यस्य आद्र्धधातुकविशेषणत्वात्तदादिविधिः ।तदाह — अनिडादाविति । तथा च णिलोपे काम् अ त इति स्थिते — परत्वादिति । "एरनेकाच" इत्यस्यणेरनिटी॑त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपे दुर्लभः, णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारम् अलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात् । स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति । णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयडण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह — णिलोपस्य त्विति । पच्धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्स्त्रियां क्ति॑न्निति क्तिनि,तितुत्रतथसिसुसकरसकेषु चे॑तीण्निषेधे,णेरनिटी॑ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः ।क्तिजन्त॑मिति पाठे तुक्तिच्क्तौ च संज्ञाया॑ मिति क्तिज्बोध्यः ।पाक्ति॑रिति कस्यचित्संज्ञा । अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह — वस्तुस्त्विति । आद्र्धधातुकमात्रमिति । कृत्स्नमनिडाद्याद्र्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते । परापेक्षयाऽपवादस्य प्रबलत्वात् । परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्याद्र्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततस्च अनिटीति वचनसामथ्र्यादिनिडादावाद्र्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्याद्र्धधातुके सर्वत्र णिलोपैति, — अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु "चिकीर्षक" इत्यत्र वृदिंध,चिकीष्र्या॑दित्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षिदिति । तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाच इति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि "टी" त्यस्य द्वित्वे "एरनेकाच" इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारणेति ।स्त्रिया॑मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिंध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इति । उदाहरणसूचनम् । कार्यत इति । कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकिअकृत्सार्वधातुकयो॑रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथा च प्रकृते काम् इ अ त इत्यत्र "एरनेकाच" ति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम् ।
णेरनिटि - णेरिति णिङ्णिचोग्र्रहणम् । एवमन्यत्रापि बोध्यम् ।अनिटी॑त्यनेनाधिकृतमाद्र्धधातुक इत्येतद्विशेष्यते ।यस्मिन्विदि॑रिति तदादिविधिः ।अतो लोपः॑ इत्यस्माल्लोप इति चानुवर्तते, तदाह — अनिडादावित्यादि । यणि प्राप्त इति । ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत्, नैवं शङ्क्यम्, इयङादेशे ह्रन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्चअतो लोपः॑इति सूत्रे भाष्ये स्थितम् । न चाऽत्रकारणा॑कारक॑ इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयायादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोषौक्त इति शङ्क्यं,॒वार्णादाङ्गं बलीयःर॑ इत्ययादौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात् । ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति । ण्यल्लोपाविति । णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन । अल्लोपस्तु- वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तसंभव एव नास्तीत्यत आह — पाक्तिरित्यादि क्तिजन्तमिति । तत्रतितुत्रे॑तीण्निषेधादिति भावः । वचनसामथ्र्यादिति । अयं भावः — णे॑रित्येतावति सूत्रे कृतेऽप्याद्र्धधातुक इत्यनुवृत्त्या आद्र्धधातुके परतः प्रवर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयथ्र्यं प्रसज्येत, तथा चाऽनिडाद्याद्र्धधातुकं सर्वमप्यस्य विषयो, न तु क्तिजन्तमेवेति । अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेनचिकीर्षक॑ इत्यत्र वृद्धि, चिकीष्र्यादित्यत्रअकृत्सार्वे॑ति दीर्घं च बाधित्वा पूर्वप्रतिषेधेनअतो लोपः॑ इति लोपो भवतीत्याहुः ।
लघुसिद्धान्तकौमुदी
अनिडादावार्धधातुके परे णेर्लोपः स्यात्।
महाभाष्यम्
णेरनिटि (3049) (अनिटिग्रहणप्रत्याख्यानभाष्यम्) अनिटीति किमर्थम् ? कारयिता । कारयितुम् । अनिटीति शक्यमवक्तुम् । कस्मान्न भवति ‐ -कारयिता, कारयितुम् ? निष्ठायां सेटि 6|4|52 इत्येतन्नियमार्थं भविष्यति ‐ -निष्ठायामेव सेटि णेर्लोपो भवति नान्यत्रेति । क्व मा भूत् ? कारयिता, कारयितुम् । अथवा ‐ उपरिष्टाद्योगविभागः करिष्यते ‐ -इदमस्ति निष्ठायां सेटि जनिता मन्त्रे शमिता यज्ञे । ततः ‐ - अय् । अयादेशो भवति णेः सेटि । ततः ‐ -आमन्ताल्वाय्येत्न्विष्णुषु । अय् भवतीत्येव ।।