Page loading... Please wait.
6|4|46 - आर्धधातुके
॥ तस्मै पाणिनये नमः ॥
6|4|46
SK 2307
आर्धधातुके  
सूत्रच्छेदः
आर्धधातुके (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|4|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आर्धधातुके इत्यधिकारः। न ल्यपि 6|4|69 इति प्रागेतस्माद् यदित ऊर्ध्वम् अनुक्रमिष्यामः आर्धह्दातुके इत्येवं तद् वेदितव्यम्। वक्ष्यति अतो लोपः 6|4|48। चिकिर्षता। जिहीर्षिता। आर्धधातुके इति किम्? भवति। भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं 2|4|72 प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यातित्येतन् न ज्ञापकं शपो लोपाभावस्य। यस्य हलः 6|4|49। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। आर्धधातुके इति किम्? बेभिद्यते। णेरनिटि 6|4|51। कारणा। हारणा। आर्धधातुके इति किम्? कारयति। हारयति। आतो लोप इटि च 6|4|64। ययतुः। ययुः। ववतुः। ववुः। आर्धधातुके इति किम्? यान्ति। वान्ति। घुमास्थागापाजहातिसां हलि 6|4|66। दीयते। धीयते। आर्धधातुके इति किम्? अदाताम्। अधाताम्। वा ऽन्यस्य संयोगादेः 6|4|68। स्नेयात्, स्नायात्। आर्धधातुके इति किम्? स्नायात्। आशीर्लिङो ऽन्यत्र न भवति। स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च 6|4|62। कारिषीष्ट। हारिषीष्ट। आर्धधातुके इति किम्? क्रियेत। ह्रियेत यगन्तस्य अजन्तत्वाच् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत। अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्। आल्लोप ईत्वम् एत्वम् च चिण्वद्भवश्च सीयुटि।
`चिकीर्षिता` इति। सन्नन्तात्? तुच्। `भवति, भवतः` इति। `आर्धधातुके` इत्यधिकारात्? सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति, आचार्यप्रवृत्तिज्र्ञापयति--`नानेन शपो लोपो भवति` इति यदयम्? `अदिप्रभृतिभ्यः शपः` 2|4|72 इति शपो लुकं शस्ति? इत्यत आह--`अदिप्रभृतिभ्यः` इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्। किं तत्? `वित्तः` इत्यत्र गुणो मा भूत्। यदि `वित्तः` इत्यत्र लोपः स्यात्, प्रत्ययलक्षणेन `पुगन्तलघूपधस्य` 7|3|86 इति गुणः स्यात्। `मृष्टः` इत्यत्र `मृजेर्वृद्धिः` 7|2|114 लुकि तु सति न भवति, `न लुमताङ्गस्य` 1|1|62 इति प्रत्ययलक्षणप्रतिषेधात्। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य। `बेभिदिता` इति। यङो लोपः। `बेभिद्यते` इत्यत्र शपि सार्वधातुके न भवति।`कारणा` इति। `ण्यासश्रन्थो युच्` 3|3|107 । `कारयति` इति शपि सार्वधातुके न भवति। `पपतुः, पपुः`। `ववतुः` ववुः` इति। अतुसुसौ। पातेर्वातेश्च `आतो लोप इटि च` 6|4|64 इत्यकारलोपः।`दीयते धीयते` इति। आर्धधातुके यकीत्त्वम्। `अदाताम्? अधाताम्` इति। लुङ, `तस्थस्थ` 3|4|101 इति तसस्ताम्; `गातिस्था` 2|4|77 इत्यादिना सिचो लुक्। `स्नायात्, स्नेयात्` इति। स्नातेराशिषि लिङ, तस्य `लिङाशिषि` 3|4|116 इत्यार्धधातुकसंज्ञा, यासुट्, `स्कोः संयोगाद्योः` 8|2|29 इत्यादिना सकारलोपः। `आशीर्लिङोऽक्यत्र न भवति` इति। आशीर्लिङोऽन्यद्? विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्। तेन तत्र नित्यं `स्नायात्` इत्येवं भवति। अत्र `लिङः सलोपोऽनन्त्यस्य` 7|2|79 इति सकारलोपः। `कारिषीष्ट` इति। आशिषि लिङः, सीयुट्, `भावकर्मणोः` 1|3|13 इत्यात्मनेपदम्, `सुट्? तिथोः` 3|4|107 इति सुट्? चिण्वद्भावाद्वृद्धिः। `क्रियेत` इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्, सार्वधातुके यक्, सीयुडीकरेण सह `आद्गुणः` 6|1|84 `लोपो व्योर्वलि` 6|1|64 इति यकारलोपः, `रिङशयग्लिङक्षु` 7|4|28 इति रिङादेशः। अत्र चिण्वद्भादेन यो दोषः स्यात्? तं `यगन्तस्य` इत्यादिना दर्शयति। यद्यत्र चिण्वद्भावात्? वृद्धिः स्यात्, ततश्च `आतो युक्? चिण्कृतोः` 7|3|33 इति युक्? प्रसज्येत। `अतो लोपो यलोपश्च` इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः। नन्वत्र `भ्रस्जो रोपधयो रमन्यतरस्याम्` 6|4|47 इति रम्, `दीङो युडचि क्ङिति` 6|4|63 इति युडार्धधातुकाधिकार एव विधास्यते, तत्? कस्मात्? तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते--भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठते, ततः सार्वधातुके परतः शेन भवितव्यम्। शे च सति पूर्वविप्रतिषेधाद्? ग्रहिजयादि 6|1|16 सूत्रेण सम्प्रसारणेन भवितव्यम्। युडपि नैव प्रयोजयति, दीङो हि दिवादित्वात्? सार्वधातुके श्यना भवितव्यम्। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। `आर्धधातुके` इति यदार्धधातुकसामान्यं विवक्ष्यते, तदा सामान्ये पौर्वापर्यासम्भवात्? विषयसप्तमीयम्। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः `न धातुलोपः` 1|1|4 इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति॥
चिकीर्षितेति । सनन्तातृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव त्यादिउ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थम् अदुपदेशाल्लसर्वधातुकानुदातत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यतर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङे यकारोपशस्तु हलन्तेषु चरितार्थः । कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् । यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूतरार्थ स्यात् । अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् । चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा एभूच्चिण्वद्भावातु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव । ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः । प्रयोजनसंग्रहर्श्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङे युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङेऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि । असिद्धत्वनिवृत्यर्थं द्वितीयाध्यायगोचरोः । आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ॥ अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् । न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ॥
सिद्धान्तकौमुदी
इत्यधिकृत्य ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आर्धधातुके (3044) (अधिकारप्रयोजनाधिकरणम्) (अधिकाराक्षेपभाष्यम्) कानि पुनरार्धधातुकाधिकारस्य प्रयोजनानि ? (अधिकारप्रयोजने श्लोकवार्तिकम्) अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप इर्त्वमेत्वं च चिण्वद्भावश्च सीयुटि ।। 1 ।। अतो लोपः ‐ -चिकीर्षिता, चिकीर्षितुम् । आर्द्धधातुक इति किमर्थम् ? चिकीर्षति ।। (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । अस्त्वत्र सनोऽकारलोपः, शपोऽकारस्य श्रवणं भविष्यति ।। (समाधानभाष्यम्) शप एव तर्हि मा भूदिति ।। (आक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति ‐ -नानेन शपोऽकारस्य लोपो भवतीति, यदयमदिप्रभृतिभ्यः शपो लुकं शास्ति ।। (ज्ञापकाक्षेपभाष्यम्) नैतदस्ति ज्ञापकम् । कार्यार्थमेतत्स्यात् । वित्तः, मृष्ट इति ।। (प्रकारान्तरेण समाधानभाष्यम्) यत्तर्हि आकारान्तेभ्यो लुकं शास्ति ‐ -याति, वाति । अस्तेश्च । अस्तेश्च शपो लुकं शास्ति । अस्ति ।। (अधिकारप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् ‐ -वृक्षस्य । अतो लोपः प्राप्नोति ।। (अधिकारप्रयोजनभाष्यम्) यलोपोऽपि प्रयोजनम् ‐ -बेभिदिता, चेछिदिता । आर्धधातुक इति किमर्थम् ? बेभिद्यते । चेछिद्यते ।। (अधिकारप्रयोजनभाष्यम्) णिलोपः प्रयोजनम् ‐ -याज्यते, पाच्यते । आर्धधातुक इति किमर्थम् ? पाचयति, याजयति ।। (अधिकारप्रयोजनभाष्यम्) आल्लोपः ‐ -ययतुः, ययुः ववतुः, ववुः । आर्धधातुक इति किमर्थम् ? यान्ति, वान्ति ।। (अधिकारप्रयोजनभाष्यम्) इर्त्वम् ‐ -धीयते, दीयते । आर्धधातुक इति किमर्थम् ? अदाताम् । अधाताम् ।। (अधिकारप्रयोजनभाष्यम्) एत्वम् ‐ -ग्लेयात्, म्लेयात् । आर्धधातुक इति किमर्थम् ? स्नायात् । स्नायाताम् ।। (अधिकारप्रयोजनभाष्यम्) चिण्वद्भावश्च सीयुटि । चिण्वद्भावे सीयुटि किमुदाहरणम् ? कारिषीष्ट, हारिषीष्ट । आर्धधातुक इति किमर्थम् ? क्रियेत, ह्रियेत । नैतदुदाहरणम् । यका व्यवहितत्वान्न भविष्यति । इदं तर्ह्युदाहरणम् ‐ -प्रस्तुवीत । इदं चाप्युदाहरणम् ‐ -क्रियेत, ह्रियेत । ननु चोक्तं ‐ -यका व्यवहितत्वान्न भविष्यतीति । यक एव तर्हि मा भूदिति । किञ्च स्यात् ? वृद्धिः, वृद्धौ कृतायां युक् प्रसज्येत ।।