Page loading... Please wait.
6|4|38 - वा ल्यपि
॥ तस्मै पाणिनये नमः ॥
6|4|38
SK 3334
वा ल्यपि  
सूत्रच्छेदः
वा (अव्ययम्) , ल्यपि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ल्यपि परतः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः वा भवति। व्यवस्थितविभाषा च इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यम् एव लोपः। प्रयत्य, प्रयम्य। प्ररत्य, प्ररम्य। प्रणत्य, प्रणम्य। आगत्य, आगम्य। आहत्य। प्रमत्य। प्रवत्य। प्रक्षत्य।
अझलाद्यर्थ आरम्भः। `प्रयत्य` इति। प्रादसमासे कृते `समासेऽनञ्पूर्वे क्त्वो ल्यप्? 7|1|37 `ह्यस्वसय पिति कृति तुक्` 6|1|69
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-(कौमुदी-3080) । [(परिभाषा - ) अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते] ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
वा ल्यपि - प्रदायेति ।दोदद्धोः॑रिति न । प्रखन्येति ।जनसनखना॑मित्यात्वं न । प्रस्थायेति ।द्यतिस्यतीतीत्वं न । प्रक्रम्येति ।क्रमश्च क्त्वी॑ति दीर्घो न । आपृच्छ्य । प्रदीव्येति । छकारवकारयोश्छ्वोरिति शूठौ च । इडभावस्योदाहरणं तु प्रखन्य प्रदीव्येत्यादावेव बोध्यः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.