Page loading... Please wait.
6|4|27 - घञि च भावकरणयोः
॥ तस्मै पाणिनये नमः ॥
6|4|27
SK 3187
घञि च भावकरणयोः  
सूत्रच्छेदः
घञि (सप्तम्येकवचनम्) , च (अव्ययम्) , भावकरणयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
नलोपः  6|4|23 (प्रथमैकवचनम्) , उपधायाः  6|4|24 (षष्ठ्येकवचनम्) , रञ्जेः  6|4|26 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
रञ्जेः अङ्गस्य भावकरणयोः घञि नलोपः
सूत्रार्थः
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य घञ्-प्रत्यये परे भावे तथा करणे लोपः भवति ।
घञ्-इति कश्चन कृत्-प्रत्ययः । धातोः परः अयं प्रत्ययः भावे, करणे तथा अधिकरणे विधीयते । एतेभ्यः भावकरणयोः अर्थयोः रन्ज्-धातोः उपधा-नकारस्य वर्तमानसूत्रेण लोपः भवति । यथा -

1. रन्ज् + घञ् [भावे 3|3|18 इत्यनेन क्रियायाः अर्थे घञ्-प्रत्ययः]
→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]
→ रज् + अ [ घञि च भावकरणयोः 6|4|27 इति उपधा-नकारस्य लोपः]
→ राज् + अ [अचो ञ्णिति 7|2|115 इति उपधा-अकारस्य वृद्धिः]
→ राग् + अ [चजोः कुः घिन्ण्यतोः 7|3|52 इति घित्-प्रत्यये परे जकारस्य गकारः]
→ रागः ।

2. रन्ज् + घञ् [हलश्च 3|3|121 इत्यनेन "रज्यते अनेन इति" इत्यस्मिन् अर्थे करणे घञ्-प्रत्ययः]
→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]
→ रज् + अ [ घञि च भावकरणयोः 6|4|27 इति उपधा-नकारस्य लोपः]
→ राज् + अ [अचो ञ्णिति 7|2|115 इति उपधा-अकारस्य वृद्धिः]
→ राग् + अ [चजोः कुः घिन्ण्यतोः 7|3|52 इति घित्-प्रत्यये परे जकारस्य गकारः]
→ रागः ।

अधिकरणस्य अर्थे विहिते घञ्-प्रत्यये परे अयं लोपः न भवति । यथा, "रजन्ति तस्मिन् इति" इत्यत्रापि हलश्च 3|3|121 इत्यनेन अधिकरणे घञ्-प्रत्ययः भवति, परन्तु अत्र "रङ्गः" इति अन्तिमम् रूपम् जायते । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नलोपः अपि न भवति ।
One-line meaning in English
When followed by the घञ्-प्रत्यय in the meaning of भाव or करण the उपधा-नकार of the verb root रञ्ज् is removed.
काशिकावृत्तिः
भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति। भावे आश्चर्यो रागः। विचित्रो रागः। करणे रज्यते अनेन इति रागः। भावकरणयोः इति किम्? रजन्ति तस्मिन्निति रङ्गः।
`रज्यतेऽनेनेति रागः` इति। `हलश्च` 3|3|121 इति घञ्। एवं `रङ्गः` इत्यत्रापि॥
राग इति । हरश्च इति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ॥
सिद्धान्तकौमुदी
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-(कौमुदी-3188) इति कृत्यल्युटो बहुलं-(कौमुदी-2841) इति यावत् द्वयमप्यनुवर्तते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
घञि च भावकरणयोः - प्रायिकमिति । सर्वात्मना संज्ञाग्रहमत्यागेकृतः कटर॑ इत्यत्रकारः कट॑ इति स्यादिति भावः । भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम् ।
लघुसिद्धान्तकौमुदी
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.