Page loading... Please wait.
6|4|26 - रञ्जेश्च
॥ तस्मै पाणिनये नमः ॥
6|4|26
SK 2397
रञ्जेश्च   🔊
सूत्रच्छेदः
रञ्जेः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
नलोपः  6|4|23 (प्रथमैकवचनम्) , उपधायाः  6|4|24 (षष्ठ्येकवचनम्) , शपि  6|4|25 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
रञ्जेः अङ्गस्य उपधायाः शपि नलोपः
सूत्रार्थः
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य शप्-प्रत्यये परे लोपः भवति ।
रन्जँ (रागे) इति भ्वादिगणस्य धातुः । शप्-विकरणे परे अस्य धातोः उपधा-नकारस्य लोपः भवति । यथा -

रन्ज् + लट् [वर्तमाने लट् 3|2|123 इति लट् ]
→ रन्ज् + तिप् [तिप्तस्... 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ रन्ज् + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ रज् + अ + ति [शप्-प्रत्यये परे रञ्जेश्च 6|4|26 इति उपधा-नकारस्य लोपः]
→ रजति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे यद्यपि "रञ्ज्" इत्यत्र ञकारः प्रयुक्तः अस्ति, तथापि अयं मूलरूपेण नकारः एव । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः ।
2. वस्तुतः रञ्ज्-धातोः निर्देशः अपि दन्शसञ्जस्वञ्जां शपि 6|4|25 अस्मिन्नेव सूत्रे भवितुम् अर्हति । परन्तु रञ्ज्-इत्यस्य अनुवृत्तिः अग्रिम-सूत्रे अपि आवश्यकी, अतः वर्तमानसूत्रे "रञ्ज्" इति पृथग् रूपेण निर्दिष्टः अस्ति ।
One-line meaning in English
The उपधा-नकार of the verb रञ्ज् is removed in presence of the विकरणप्रत्यय शप्.
काशिकावृत्तिः
रञ्जेश्च शपि परतः उपधायाः नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरनम् उत्तरार्थम्।
अथ पृथग्योगकरणं किमर्थम्, न पूर्वयोग एव रञ्जेग्र्रहणं क्रियते? इत्याह--`पृथग्योगकरणम्` इत्यादि। उत्तरसूत्रे रञ्जेरेवानुवृत्तिर्यथा स्यात्? दंशप्रभृतीनां मा भूदिति॥
पृथग्योगकरणमुतरार्थमिति । उतरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ॥
सिद्धान्तकौमुदी
एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि (कौमुदी-2361) इति सूत्रे ।स्वञ्जेरुपसंख्यानम् (वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात्---(कौमुदी-2276) इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा (कौमुदी-2359) इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति--(कौमुदी-2270) इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त । 977 हद पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥ 978 ञिष्विदा अव्यक्तेशब्दे 979 स्कन्दिर् गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.