॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
6|4|22
SK 2183
6|4|22
असिद्धवदत्राभात्‌  
SK 2183
सूत्रच्छेद:
असिद्धवत् - अव्ययम् , अत्र - अव्ययम् , आ - अव्ययम् , भात् - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
अङ्गस्य  [6|4|1] , असिद्धवदत्राभात्  [6|4|22]
सम्पूर्णसूत्रम्
असिद्धवत् अत्र आभात्
सूत्रार्थ:
अधिकारोऽयम् । इतः परम् आपादपरिसमाप्तेः समानाश्रये कर्तव्ये अस्य अधिकारस्य अन्यत् सूत्रम् असिद्धम् भवति ।
एतत् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् प्रचलति ।

सूत्रस्य पदच्छेदम् आदौ पश्यामः । असिद्धवदत्राभात् = असिद्धवत् + अत्र + आभात् । प्रत्येकस्य पदस्य अर्थः एतादृशः -
- अत्र = अस्मिन् अधिकारे ।
- आभात् = भस्य 6|4|129 अधिकारस्य परिसमाप्तिपर्यन्तम् (इत्युक्ते, षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्) ।
- असिद्धवत् = असिद्धत्वं स्यात् ।
अतः अस्त सूत्रस्य शब्दशः अर्थः जायते - अस्मात् सूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् असिद्धत्वम् स्यात् । इदम् असिद्धत्वम् सर्वदा न भवति, केवलं "समानाश्रये" एव भवति, एतत् व्याख्यानात् ज्ञायते ।

कः अर्थः अस्य सर्वस्य ? केषाञ्चन शब्दानाम् अर्थं जानीमश्चेत् सूत्रार्थज्ञानम् सुलभम् भवेत् -
1) आश्रयः = कस्यापि कार्यस्य यः स्थानी, यत् च निमित्तम्, तयोः सामान्यनाम "आश्रय" इति । यदि स्थानी न स्यात् उत निमित्तम् न स्यात्, तर्हि सूत्रस्य कार्यमेव भवितुम् न अर्हति । अतः सूत्रकार्यस्य "आश्रयभूताः" (= अस्तित्वस्य कारणम्) ये सर्वे, तेषाम् "आश्रय" इति संज्ञा भवति । यथा, इको यणचि 6|1|77 अस्मिन् सूत्रे इक्-वर्णः यथा अच्-वर्णः द्वौ अपि आश्रयौ स्तः ।
2) समानाश्रयः = यत्र द्वयोः सूत्रस्योः कश्चन आश्रयः समानः अस्ति, तर्हि ते सूत्रे "समानाश्रये स्तः" इत्युच्यते । यथा, इको यणचि 6|1|77 तथा एचोऽयवायावः द्वयोः सूत्रयोः "अच्" इति समानाश्रयः अस्ति ।
3) "आभीय" = तत् कार्यम् यत् अस्मिन् अधिकारे उक्तम् अस्ति । यथा, श्नान्नलोपः 6|4|23 इत्यनेन श्नम्-प्रत्ययस्य अकारस्य लोपः क्रियते । इदम् आभीयकार्यम् ।
4) "असिद्धम्" = तत् कार्यम् यत् न दृश्यते । त्रिपाद्याम् असिद्धाधिकारे "असिद्ध" शब्दस्य यः अर्थः, सः एव अत्रापि अस्ति । यथा, लोपः शाकल्यस्य 8|3|19 इत्यनेन कृतः यकारलोपः आद्गुणः 6|1|87 इत्यनेन न दृश्यते ।

अतः अस्य सूत्रस्य अर्थः अयम् - यदि द्वयोः आभीय-कार्ययोः समानाश्रयः अस्ति, तर्हि तौ परस्परयोः कृते असिद्धौ स्तः ।

अर्थम् स्पष्टरूपेण ज्ञातुम् कानिचन उदाहरणानि पश्यामः । अत्र अधः दत्तेषु उदाहरणेषु सम्पूर्णा प्रक्रिया न दर्श्यते, केवलं आभीय-कार्यस्य विषये यत् आवश्यकम्, तदेव स्पष्टीक्रियते एतत् ज्ञातव्यम् ।

1. अस्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् "एधि" इत्यस्य प्रक्रियायाम् मध्यमपुरुषैकवचनस्य "सि" प्रत्ययस्य सेर्ह्यपिच्च 3|4|87 इत्यनेन हि-आदेशः भवति । अतः "अस् + हि" इति स्थिते अग्रे त्रीणि आभीयकार्याणि क्रमेण भवन्ति -
अ) घ्वसोरेद्धावभ्यासलोपश्च 6|4|119
आभीयकार्यम् - अस्-धातोः सकारस्य "हि" प्रत्यये परे एकारादेशः ।
आश्रयौ - सकारः तथा "हि" प्रत्ययः ।
प्रक्रिया - अस् + हि → अए हि ।
आ) श्नसोरल्लोपः 6|4|111
आभीयकार्यम् - अस्-धातोः अकारस्य ङित्-प्रत्यये परे लोपः ।
आश्रयौ - अकारः तथा "हि" प्रत्ययः ।
अत्र एतत् ज्ञातव्यम् यत् घ्वसोरेद्धावभ्यासलोपश्च 6|4|119 इत्यनेन निर्दिष्टम् आभीयकार्यम्, तथा श्नसोरल्लोपः 6|4|111 इत्यनेन निर्दिष्टम् आभीयकार्यम् समानाश्रयौ स्तः, यतः उभयोः "हि" इति आश्रयः समानः अस्ति । अस्याम् स्थितौ असिद्धवदत्राभात् 6|4|22 अनेन सूत्रेण एतत् उच्यते यत् एकम् आभीयकार्यम् द्वितीय-आभीय-कार्यार्थम् असिद्धम् स्यात् । इत्युक्ते, घ्वसोरेद्धावभ्यासलोपश्च 6|4|119 इत्यनेन सकारस्य कृतः एकारादेशः श्नसोरल्लोपः 6|4|111 इत्यनेन न दृश्यते । अतः श्नसोरल्लोपः 6|4|111 इत्यस्य कृते "अस् + हि" इयमेव स्थितिः अस्ति । अस्याम् स्थितौ श्नसोरल्लोपः 6|4|111 इत्यनेन अस्-इत्यस्य अकारस्य लोपः विधीयते, अतः अन्ते घ्वसोरेद्धावभ्यासलोपश्च 6|4|119 तथा श्नसोरल्लोपः 6|4|111 एतयोः द्वयोः सूत्रयोः प्रयोगेन "ए हि" इति स्थितिः भवति ।
इ) हुझल्भ्यो हेर्धिः 6|4|101
आभीयकार्यम् - झल्-वर्णात् परस्य हि-प्रत्ययस्य "धि" आदेशः ।
आश्रयौ - अस्-इत्यस्य सकारः, तथा "हि" प्रत्ययः ।
अत्रापि एतत् द्रष्टुम् शक्यते यत् घ्वसोरेद्धावभ्यासलोपश्च 6|4|119 इत्यनेन निर्दिष्टम् आभीयकार्यम्, तथा हुझल्भ्यो हेर्धिः 6|4|101 इत्यनेन निर्दिष्टम् आभीयकार्यम् समानाश्रयौ स्तः । अस्याम् स्थितौ असिद्धवदत्राभात् 6|4|22 अनेन सूत्रेण एतत् उच्यते यत् एकम् आभीयकार्यम् द्वितीय-आभीय-कार्यार्थम् असिद्धम् स्यात् । इत्युक्ते, घ्वसोरेद्धावभ्यासलोपश्च 6|4|119 इत्यनेन सकारस्य कृतः एकारादेशः हुझल्भ्यो हेर्धिः 6|4|101 इत्यनेन न दृश्यते । अतः हुझल्भ्यो हेर्धिः 6|4|101 इत्यस्य कृते "ए हि" इति स्थितिः नास्ति, अपितु "अस् हि" इयमेव स्थितिः अस्ति । (स्मर्तव्यम् - श्नसोरल्लोपः 6|4|111 इत्यनेन कृतं आभीयकार्यम् अपि हुझल्भ्यो हेर्धिः 6|4|101 इत्यनेन न दृश्यते, यतः एतयोः सूत्रयोः अपि आश्रयः समानः अस्ति ) । "अस् + हि" इति स्थिते तु हुझल्भ्यो हेर्धिः 6|4|101 इत्यनेन हि-इत्यस्य "धि"-आदेशः भवत्येव । अतः "ए हि" इत्यत्रापि हुझल्भ्यो हेर्धिः 6|4|101 इत्यनेन अयम् आदेशः क्रियते । अतः अन्ते एधि इति रूपम् सिद्ध्यति ।

2. "हन्" धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् मध्यमपुरुषैकवचनस्य "सि" प्रत्ययस्य सेह्यर्पिच्च 3|4|87 इत्यनेन हि-आदेशः भवति । अतः "हन् + हि" इति स्थिते अग्रे द्वयोः आभीयकार्ययोः प्रसक्तिः अस्ति -
अ) हन्तेर्जः 6|4|36
आभीयकार्यम् - हन्-धातोः "ज" इति अनेकाल् (सर्वादेशः) भवति ।
आश्रयौ - हन्-धातुः तथा हि-प्रत्ययः
प्रक्रिया - हन् + हि → जहि
आ) अतो हेः 6|4|105
आभीयकार्यम् - अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य लोपः ।
आश्रयौ - अकारः, तथा "हि" प्रत्ययः ।
अत्र एतत् द्रष्टुम् शक्यते यत् ज हि" अस्याम् अवस्थायाम् अतो हेः 6|4|105 इत्यस्य वस्तुतः प्रसक्तिः भवेत् । परन्तु, हन्तेर्जः 6|4|36 तथा अतो हेः 6|4|105 एते आभीयकार्ये स्तः । एतयोः "हि" इति आश्रयः अपि समानः अस्ति । अतः हन्तेर्जः 6|4|36 इत्यनेन कृतः हन्-इत्यस्य जकारादेशः अतो हेः 6|4|105 इत्यनेन न दृश्यते । अतः अतो हेः 6|4|105 इत्यस्य कृते "हन् + हि" इयमेव स्थितिः अस्ति । अस्यां स्थितौ अङ्गम् अदन्तं नास्ति, अतः अत्र हि-प्रत्ययस्य लोपः न जायते ।

3. शास्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनप्रक्रियायाम् "सि" प्रत्ययस्य सेह्यर्पिच्च 3|4|87 इत्यनेन हि-आदेशः भवति । अतः "शास् + हि" इति स्थिते अग्रे द्वे आभीयकार्ये क्रमेण भवतः -
अ) हुझल्भ्यो हेर्धिः 6|4|101
आभीयकार्यम् - झल्-वर्णात् परस्य हि-प्रत्ययस्य "धि" आदेशः ।
आश्रयौ - शास्-इत्यस्य सकारः, तथा "हि" प्रत्ययः ।
प्रक्रिया - शास् + हि → शास् + धि
आ) शा हौ 6|4|35
आभीयकारस्यम् - शास्-धातोः "हि"प्रत्यये परे "शा" आदेशः ।
आश्रयौ - शास्-धातुः तथा हि-प्रत्ययः ।
प्रक्रिया - शास् + धि → शा धि
अत्र वस्तुतः "शास् धि" इति स्थिते शा हौ 6|4|35 अस्य सूत्रस्य प्रसक्तिः न स्यात् । परन्तु हि-इत्यस्य "धि" आदेशः आभीयकार्यम् अस्ति, तथा तस्य अनेन आभीयकार्येण सह समानाश्रयः अपि अस्ति । अतः शा हौ 6|4|35 इत्यस्य कृते हुझल्भ्यो हेर्धिः 6|4|101 एतत् सूत्रम् असिद्धम् अस्ति । अतः शा हौ 6|4|35 इत्यनेन "शास् हि" एतदेव दृश्यते । अस्याम् स्थितौ शास्-इत्यस्मात् परः "हि" प्रत्ययः अस्ति । अतः शा हौ 6|4|35 इत्यनेन हि-इत्यस्य उपस्थितौ शास्-इत्यस्य शा-आदेशः भवितुम् अर्हति, अतः अन्ते "शाधि" इति रूपम् सिद्ध्यति ।

एतैः उदाहरणैः असिद्धाधिकारः प्रायः स्पष्टं स्यात् । जिज्ञासवः अस्य सूत्रस्य विषये अधिकम् ज्ञातुम् महाभाष्यं पश्येयुः । तत्र अनेकानि उदाहरणानि दत्त्वा प्रत्येकस्य विषये असिद्धत्वम् कथं भवति कथं वा न भवति एतत् स्पष्टीकृतम् अस्ति ।

अत्र एकम् वार्तिकम् ज्ञातव्यम् - वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ । अस्य वार्तिकस्य अर्थः अयम् -
1. भुवो वुग् लुङ्लिटौ 6|4|88 इत्यनेन निर्दिष्टस्य वुक्-आगमः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन निर्दिष्टस्य उवङ्-आदेशस्य कृते सिद्धः स्यात् ।
2. दीङो युडचि क्ङिति 6|4|63 इत्यनेन निर्दिष्टस्य युट्-आगमः एरनेकाचोऽसंयोगपूर्वस्य 6|4|82 इत्यनेन निर्दिष्टस्य यणादेशस्य कृते सिद्धः स्यात् ।
एतस्य वार्तिकस्य उदाहरणे एते -
1. वुगागमार्थम् उवङादेशस्य सिद्धत्वम् -
भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् "भू + लिट्" इति स्थिते भुवो वुग्लुङ्लिटोः 6|4|88 इत्यनेन वुक्-आगमः जायते, अतः "भूव् + ल्" इति सिद्ध्यति । अत्र यदि अयम् वुक्-आगमः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यस्य कृते असिद्धः अभविष्यत्, तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन भू इत्यस्य ऊकारस्य उवङ् आदेशं कृत्वा "भुव् ल्" इति अभविष्यत् । परन्तु तथा न भवति, यतः अनेन वार्तिकेन भुवो वुग्लुङ्लिटोः 6|4|88 इत्यनेन कृतः वुक्-आगमः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यस्य कृते सिद्धः अस्ति । अतः अत्र उवङ्-आदेशः न भवति ।
2. युटागमार्थम् यणादेशस्य सिद्धत्वम् -
दी-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् "दी + लिट्" इति स्थिते द्वित्वकार्यात् अनन्तरम् दीङो युडचि क्ङिति 6|4|63 इत्यनेन युक्-आगमे कृते "दिदीय् + ए" इति जायते । अत्र यदि अयम् युगागमः <एरनेकाचोऽसंयोगपूर्वस्य>> 6|4|82 इत्यस्य कृते असिद्धः अभविष्यत्, तर्हि एरनेकाचोऽसंयोगपूर्वस्य 6|4|82 इत्यनेन "दी" इत्यस्य ईकारस्य यणादेशं कृत्वा "दिद्य्य् ए" इति अभविष्यत् । परन्तु तथा न भवति, यतः अनेन वार्तिकेन दीङो युडचि क्ङिति 6|4|63 इत्यनेन निर्दिष्टस्य युट्-आगमः एरनेकाचोऽसंयोगपूर्वस्य 6|4|82 इत्यनेन निर्दिष्टस्य यणादेशस्य कृते सिद्धः अस्ति । अतः अत्र यणादेशः न भवति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "आभात्" इति उक्तम् अस्ति । अत्र "भ" शब्देन सह "आङ्" इत्यस्य योजनं कृत्वा "आभात्" इति रूपम् जायते । अत्र "आङ्" इत्यस्य अर्थः "अभिविधिः" - इत्युक्ते, "सा सीमा यस्याः समावेशः भवति" । अतः आभात् अस्य शब्दस्य अर्थः - भपर्यन्तम्, परन्तु "भ" इत्यनेन सह । अत्र प्रयुक्तः "भ" शब्दः स्वयम् भस्य 6|4|129 इति अधिकारं दर्शयति । अतः "आभात्" इत्युक्ते "भाधिकारस्य समाप्तिपर्यन्तम्" । भाधिकारः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रं यावत् प्रचलति, अतः तत्पर्यन्तम् असिद्धाधिकारस्यापि प्रसक्तिः अस्ति । अतः अयम् अधिकारः वर्तमानसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् (6।4।175 इति यावत्) प्रचलति ।

2. अयम् असिद्धाधिकारः "अङ्गकार्यस्य" असिद्धाधिकारः अस्ति । एकम् आभीयम् अङ्गकार्यम् अपर-आभीयकार्यार्थम् समानाश्रये स्थिते अनेन सूत्रेण असिद्धम् भवति ।

3. अस्मिन् अधिकारे निर्दिष्टम् आभीयकार्यम् केवलं अन्य-आभीय-कार्यार्थम् एव असिद्धम् अस्ति, अनाभीय-कार्यार्थम् न । तत्रापि ययोः आभीयकार्ययोः आश्रयः समानः अस्ति, तयोर्मध्ये एव असिद्धत्वं वर्तते । सर्वेषु आभीयकार्येषु परस्परयोः असिद्धत्वम् न जायते ।
One-line meaning in English
This is an अधिकारसूत्र. Any two sutras of this अधिकार that have a common आश्रय are असिद्ध towards each other.
काशिकावृत्तिः
असिद्धवतित्ययम् अधिकारः। यदित ऊर्ध्वम् अनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत् भवति इत्येवं वेदितव्यम्। आ भातिति विषयनिर्देशः। आभसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्र इत् समानाश्रयत्वप्रतिपत्त्यर्थं। तच् चेदत्र यत्र भवति तदा भात् शास्त्रीयं विधीयते तदाश्रयम् एव भवति। व्याश्रयं तु नासिद्धवद् भवति इत्यर्थः। असिद्धवचनम् उत्सर्गलक्षणभावार्थम्, आदेशलकषणप्रतिषेधार्थं च। एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः 6|4|105 इति लुक् प्राप्नोति, असिद्धत्वान् न भवति। आ भातिति किम्? अभाजि। रागः। अत उपधायाः 7|2|116 इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम्? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणम् आल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणम् इति समानाश्रयत्वं न अस्ति। असिद्धं बहिरङ्गमन्तरङ्गे इति? एतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणाम् एव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत् समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते। वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्। वुगुवङादेशे बभूव, बहूवतुः, बव्हूवुः। युट् यणादेशे उपदिदीये, उपदिदीयाते, उपदेदीयिरे। आभातित्ययम् अभिविधावाङ्। तेन भाधिकारे ऽप्यसिद्धवद् भवति।
`असिद्धवद्भवतीत्येवं वेदितव्यम्` इति। सिद्धशब्दोऽयं परिनिष्पन्नवचनः। यथा--`सिद्ध ओदनः` इति। न सिद्धमसिद्धम्, सिद्धकार्याकरणसाधम्र्येणासिद्धेन तुल्यं वत्र्तत इत्यसिद्धवत्। किं पुनस्तत्? प्राधान्यात्? कार्यमित्येके; शास्त्रं हि कार्यार्थम्, अतः शास्त्रापेक्षया कार्यस्य प्राधान्यम्; व्याप्तेन्र्यायात्। शास्त्रस्यावधित्वेनोपादानाच्च शास्त्रस्यासिद्धवदभावो युक्तः, अन्यथा हि कार्यमेव किञ्चिदवधित्वेनोपादीयेत। अथाभाट्ग्रहणं किमर्थम्, यावता स्वरितलिङ्गासङ्गादन्तरेणाप्याभाद्ग्रहणमा पादपरिसमाप्तेरसिद्धवदित्यनुवर्त्तिष्यते? इत्याह--`आ भादिति विषयनिर्देशः` इति। असति ह्रा भाद्ग्रहणे न ज्ञायते--कस्मिन्? कत्र्तव्य इदं प्रकरणमसिद्धवद्भवति; तस्मादा भादिति विषयनिर्देशः क्रियते--आ भसंशब्दनाद्यद्वक्ष्यते तस्मिन्? कत्र्तव्यतया विषयभूतेऽसिद्धवद्भवतीत्यस्यार्थस्य परिज्ञानाय। यद्येवम्, अत्रेत्येतपदार्थकलमेतद्विषयनिर्देशार्थं क्रियते, स च विषय आ भादित्यनेनैव निर्दिष्टः? इत्यत आह--`अत्र` इत्यादि। समान एव आश्रयो निमित्तं यस्य तत्? समानाश्रयम्, तस्य भावः समानाश्रयत्वम्। तस्य प्रसिद्धये परिज्ञानायात्रग्रहणम्, तच्चेदत्रेति भवतीति वाक्शेषः। तदित्यनेन यस्यासिद्धवद्भावो विधीयते तन्निर्दिश्यते। अत्रेत्यनेनापि यत्र ततोऽन्यदाभाच्छास्त्रीयं तत्? तदाश्रयमेव भवतीति। असिद्धवदिति वक्ष्यमाणेनाभिसम्बध्यते। तदित्यनेन यत्रा भाच्छास्त्रीयं विधीयते तस्य परामर्शः। स आश्रयो निमित्तं यस्य तत्? तदाश्रयम्। एवकारोऽवधारणार्थः। तदेवासिद्धवद्भवतीति यावत्। `व्याश्रयस्तु नासिद्धवद्भवति` इति। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। यत्र तदाभाच्छास्त्रोयं कार्यं विधीयते ततो भिन्नोऽर्थान्तरभूत आश्रयो यस्य तत्? तथोच्यत इत्यर्थ इति। इतिकरणेनानन्तरं व्याख्यातोऽर्थः प्रत्यवमृश्यते। अत्रग्रहणे समानाश्रयत्वप्रसिद्ध्यर्थे सतद्येषोऽस्य सूत्रस्यार्थः सम्पद्यत इति यावत्। किमर्थं पुनरसिद्धवद्भवतीत्यत आह--`असिद्धवचनम्` इत्यादि। उत्सर्गशब्देन स्थान्यत्रोपदिश्यते, उत्सृजयत आदेशेन निवर्त्त्यत इति कृत्वा। उत्सर्गसाधम्र्याद्वोत्सर्गः। यथा ह्रुत्सर्गस्य सामान्येन प्रवृत्तस्य सतः कुतश्चिद्विसेषान्निवृत्तिर्भवति, एवं स्थानिनोऽप्यादेशात्। उत्सर्गौ लक्षणम्=निमित्तं यस्य तदुत्सर्गलक्षणम्? आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तयोर्यथाक्रमं भावप्रतिषेधौ यथा स्यातम्--इत्येवमर्थमसिद्धवचनम्। `एधि, शाधि` इति। उत्सर्गलक्षणभावस्योदाहरणम्। `अस भूवि` (धातुपाठः-1065), `शास अनुशिष्टौ` (धातुपाठः-1075), [`शासु` धातुपाठः-] लोट्, सिप्, `सेह्र्रपिच्च` 3|4|87 इति हरादेशः, अदादित्वाच्छपो लुक्, श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः। परत्वान्नित्यत्वाच्च घिभावात्? पूर्वं `ध्वसोरेद्धावभ्यासलोपश्च` 6|4|119 इत्येत्त्वम्। शासेरपि नित्यत्वात्? `शा हौ` 6|4|35 इति शादेशः पूर्वं घिभावात्? तयोरेत्त्वशाभावयोः `हुझल्भ्यो हेर्धिः` 6|4|101 इति झलन्तलक्षणं धित्वं न प्राप्नोति, निमित्ताभावात्। असिद्धत्वाद्भवति। `आगहि, जहि` इति। आदेशलक्षणप्रतिषेधस्योदाहरणम्। अगाहीति--गमेराङपूर्वाल्लोट्, सिप्, तस्य हिरादेशः, `बहुलं छन्दसि` 2|4|76 इति शपो लुक्, `अनुदात्तोपदेश` 6|4|36 इत्यादिनानुनासिकलोपः। जहीति--हन्तेरलोडादि पूर्ववत्, अदादित्वाच्छपो लुक्, `हन्तेर्जः` 6|4|36 इति जभावः। अत्रेदानीमनुनासिकलोपजादेशयोरुत्तरकालं `अतो हेः` 6|4|105 इति हेर्लोपः प्राप्नोति; असिद्धत्वान्न भवति। `अभाजि` इति। `भन्जो आमर्दने` (धातुपाठः-1453) लुङः, कर्मण्यात्मनेपदम्, `चिण्बावकर्मणोः` 3|1|66 इति च्लेश्चिण्, `चिणो लुक्` 6|4|104 इति तकारलोपः, `भञ्जेश्च चिणि` 6|4|33 इत्युनुनासिकलोपः। तस्य समानाश्रयस्यापि वृद्धावनाबाच्छास्त्रीयायां कत्र्तव्यायामा भादिति वचनादसिद्धत्वं न भवति। `रागः` इति। रञ्जेर्घञ्, `घञि च भावकरणयोः` 6|4|27 इत्यनुनासिकलोपः। तस्यापि समानाश्रयायमपि साप्तमिक्यां वृद्धौ कत्र्तव्यायामा भादति वचनादसिद्धत्वं न भवति। `पपुषः चिच्युषः लुलुवुषः` इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, `वसोः सम्प्रसारणम्` 6|4|131 तस्य व्याश्रयत्वात्? इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्, `वसोः सम्प्रसारणम्` 6|4|131 तस्य व्याश्रयत्वात्? `आतो लोप इटि च` 6|4|64 इत्यकारलोपः, `एरनेकाचोऽसंयोगपूर्वसय` 6|4|82 इति यणादेशे `अचि इन्? धातु` 6|4|77 इत्यादिनोवङादेशे च कत्र्तव्येऽसिद्धवत्त्वं न भवति। ननु च `उस्यपदान्तात्` 6|1|96 इत्यनेनैव पररुपेण सरवं सिद्धम्? नैतदस्ति; प्रतिपदोक्तस्य ह्रुस्शब्दस्य तत्र ग्रहणम्, लाक्षणिकोश्चात्रोस्। कथं पुनरत्र व्याश्रयत्वमित्याह--`आल्लोपादीनि हि` [`हि`--नास्ति काशिकायाम्] इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्थे। नन्वेवमपि `असिद्धं बहरङ्गमन्तरङ्ग` (व्या।प।42) इति अन्तरङ्गेष्वाल्लोपादिषु बहिरङ्गस्य समप्रसारणस्यासिद्धत्वादाल्लोपादयो न प्राप्नुवन्त्येव। तत्र हि विभक्तेः, पूर्वो वसवन्तो भागः, तदाश्रया लोपादय इति, सम्प्रसारणं तु विभक्त्याश्रयम्, प्रकृत्याश्रयञ्चान्तरङ्गम्, प्रत्ययाश्रयं च बहिरङ्गमित्याह--`असिद्धं बहिरङ्गम्` इत्यादि। `एतदपि` इति। एतदपीति वचनापेक्षया नपुंसकेन निर्वेशः। `एषा हि` इत्यादिना परिभाषाया अप्रवृत्तौ कारणमाह। यत्रान्तरङ्गबहिरङ्गयोर्युगपदुपस्थानं तत्रैषा परिभाषा प्रवत्र्तते, अन्तरङ्गे कत्र्तव्ये बहिरङ्गस्यासिद्धतामापादयितुम्। इयञ्च परिभाषा `वाह ऊठ्` 6|1|128 इत्यत्राभाच्छास्त्रे ज्ञापितत्वादाभाच्छास्त्रीया। अतोऽस्यां कत्र्तव्यायां `असिद्धवदत्रा भात्` 6|4|22 इति `वसोः सम्प्रसारण` 6|4|131 स्याल्लोपादीनाञ्चासिद्धत्वादन्तरङ्गबहिरङ्गयोयुर्गपदुपस्थानं नास्तीति न प्रवत्र्तते। तदप्रवृत्तौ नास्ति बहिरङ्गसम्प्रसारणस्यासिद्धत्वम्। तेन भवन्त्येवाल्लोपदयः।`वुग्युटौ` इत्यादि। वुग्युडित्येतौ यथा क्रममुवङि यणि च कत्र्तव्ये सिद्धौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--इह वतिग्रहणं न कत्र्तव्यम्, विनापि तेनातिदेशः सिद्ध एव, यथा--`षत्वतुकोरसिद्धः` 6|1|83 , `पूर्वतरासिद्धम्` 8|2|1 इति च। तत्? क्रियते क्वचित्? स्वाश्रयमपि सिद्धं यथा स्यादित्येवमर्थम्। तेन वुग्यृटावुवङ्यणोः सिद्धौ भविष्यतः। `बभूव` इति। `भवतेरः` 7|4|73 इत्यभ्यासस्यात्वम्, `भुवो वुग्लुङलिटोः` 6|4|88 इति वुक्। तत्र यद्यसिद्धं स्यात्? `अचिश्नुधातु` 6|4|77 इत्यादिना उवङ स्यात्, तस्य सिद्धत्वान्न भवति। `उपदिदीये` इति। `दीङः क्षये` (धातुपाठः-1134) लिट्? तस्य `लिटस्तझयोः` 3|4|81 इत्यादिनेशु, `दीङो युडचि क्ङिचि` 6|4|63 इति युट्। तस्यापि यद्यसिद्धत्वं स्यात्? `एरनेकोचोऽसंयोगपूर्वस्य` 6|4|82 इति यणादेशः स्यात्। सिद्धत्वान्न भवति। आ भादित्याङ मर्यादायां वा स्यात्? अभिविधौ वा? तत्र यद्याद्य पक्ष आश्रीयत भाधिकारीयस्यासिद्धत्वं न स्यात्। ततश्च `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यस्याः परिभाषाया अनाभाच्छास्त्रीयत्वादस्थां प्रवत्र्तमानायां वसोः सम्प्रसारणस्याल्लोपादीनां चासिद्धत्वं न स्यात्। एवमपि वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवत्र्तमानया वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवत्र्तमानया वसोः सम्प्रसारणस्यासिद्धत्वे उत्पादितेऽन्तरङ्गत्वादल्लोपादयः पपुषः, चिच्युषः, लुलुवष इत्यत्र न स्युः? इतोमं मर्यादापक्षे दोषं वृष्ट्वा द्वितीयं पक्षमाश्रित्याह--`आ भादित्ययमभिविधावाङ्` इति। गतार्थश्च॥
आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृतमपि प्रवृतकार्यं न क्रोतीति, अतः प्रवृतकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्तितयोः स्थानिनोरभावातन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृतत्वादनिवर्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च । यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थत्र कर्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत त्येतो लोपो नि स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यतत्र कर्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्अत् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङ्न्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुतरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङ् इद्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते । अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थाधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुतरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवम् अनुदातोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यतावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुतरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्ट्ंअ सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदातोपदेश इत्यादौ तत्रैव कर्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः । अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्यर्थम्, यद्यौभे अप्याभीये एकमेव निमितमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपतिः नेत्याह अक्षरार्थ एएवायम् तथा हि - अनुदातोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदातोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्तव्ये अत्र यदा भातत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमिते सति यदाभीयं प्राप्नोति तत्र कर्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति । यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भातत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आणुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपतिः यथा - आ पाटलिपुत्राद्वृष्टो देव तैति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भातत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आर्ङ्थ प्रतिपदायन् अत एवारभ्य यदा भातदसिद्धवद्भवत्यत्रैव कर्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आर्ङ्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुतरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्ट्ंअ सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेतुल्यनिमितानीति । तदेतत्सर्व वृतौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमितमित्यर्थः । असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमितं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं च्छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः । अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः । अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपतेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किम् असिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति । वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः इति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्तितं न प्रवर्तते, उवङ्निरवकाशे वुकि प्रवर्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुअपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवतिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङ् कृति ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां च इति पितोऽपि लिटः कित्वाद् गुणवृद्ध्योरभावे उवङ् ऊद्भिविष्यति । यद्येवम्, एइन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायातन्न कर्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यम् अन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङ्सोश्च इति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवैङ् कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योतरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सअमर्थ्यादवर्णग्रहणमुतरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् । ये त्वाहुः - भुवो वुग्लुङ्लिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां च इति कित्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्वङ्त्वियोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपतिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव । अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याइङ् भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यम् अयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तात्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः । कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तौदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यम् अत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि च इति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते । एध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृतेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदातः इत्यत्रोपदेश इत्यनुवृतेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङदिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङे लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्च इति वृद्धिर्न स्यात् अत्र परिहारम् आडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणाअपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदातोपदेश इत्यत उपदेशग्रहणानुवृतेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः । इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति । इह च मधमस्यास्तीति च्छन्दसीवनिपौ च इति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः । इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, च्छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधातु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति । इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये च इति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तौत्सार्वधातुके इत्युत्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृतेर्वा उत्वं भविष्यति । इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदातोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ।लं प्रकल्पितायां चिण उतरस्य किङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति । इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदातनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदातेनोदातः इत्याद्यौदातं पदं भवति । नात्राल्लोपे सत्युदातनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदातनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ एविभक्तावुदातलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदातनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदातनिवृतस्वरः शुन्यवतरतीति । एवमपि विद्यते विशेषः, अल्लोपेन वा निवृतौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदतनिवृत्तिस्वराभावेऽपि कथमाद्यौदातं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदातं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमितम्, पूर्वत्वस्य तु श्वन्शब्दाकारः । इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धम् उतरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति । तदेवं न सन्ति प्रयोजनानि, प्रतिपतिगौरवपरिहारार्थ सूत्रमारब्धम् ॥
सिद्धान्तकौमुदी
इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ॥ ।वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ (वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥
तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थिते `अचि श्नुधात्वि`त्युवङादेशमाशङ्कितुमाह-- असिद्धवदत्रा। षष्ठस्य चतुर्थपादे इदं सूत्रं `श्नान्नलोप` इति सूत्रात्पूर्वं पठितम्। आ भादित्यभिविधावाङ्। भस्येत्यधिकारमभिव्याप्येत्यर्थः। भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः। तथा च आ पादपरिसमाप्तेरिति लभ्यते। `विहितं कार्य`मिति शेषः। किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूर्ध्वमिति लभ्यते। ततश्चा `श्नान्नलोप` इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः। अधिकारसूत्रमिदमुत्तरत्र `श्नान्नलोप` इत्यादौ प्रतिसूत्रमुपतिष्ठते। तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते। एवं च `श्नान्नलोप` इत्यादि तत्तदाभीयं कार्यं `श्नान्नलोप` इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति। अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् `समानाश्रये कार्ये कर्तव्ये सती`ति लभ्यते। एतत्सर्वं भाष्ये स्थितम्। तदाह-- इत ऊर्ध्वमित्यादिना। तस्मिन्निति। आभीये कर्तव्ये सतीत्यर्थः। एधि शाधीत्युदाहरणम्। अत्र `ध्वसोरेद्धावभ्यासलोपश्चे`त्यस्तेरेत्वस्य `शाहा`विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात् `हुझल्भ्यो हेर्धि`रिति हेर्धित्वमाभीयं प्रवर्तते। तथा `जङ्घही`त्याद्यप्युदाहरणम्। हन धातोर्यङ्?लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावे `अनुदात्तोपदेशे`ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति। समानाश्रय इति किम् ?। `पपुष` इत्यत्र पाधातोर्लिटः क्वसौ `लिटि धातो`रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम्। `आतो लोप इटि चे`त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते, `भञ्जेश्च चिणि`, `घञि च भावकरणयो`रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात्। आभादित्यभिविधिः किम् ?। भाधिकारात् प्रागित्युक्ते भूयानित्यत्र `बहोर्लोपो भूच बहो`रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूर्ध्वभावित्यादित्यलम्। इति वुकोऽसिद्धत्वादिति। वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः। वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः। वुग्युटावुवड�णोरिति। यथासङ्ख्यमन्वयः। बभूवेति। णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम्। बभूवतुरिति। तसोऽतुसादेशे वुगादि पूर्ववत्। सकारस्य रुत्वविसर्गौ। बभूवुरिति। जेरुसादेशे वुगादि पूर्ववत्।
वत्करणं प्रतिपत्तिलाघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात्। यथा राजभिन्ने पुरोहिते `राजाऽय`मिति प्रयोगो `राजव` दिति कथंचित्कल्पयति, `राजवदयं पुरोहित` इत्युक्ते तु लघुप्रतिपत्तिर्भवति। तथा चाऽगत्या `षत्वतुकोरसिद्धः` इत्यत्राऽसिद्धवदिति कल्प्यते। `असंयोगल्लिक्टि`दित्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम्। आ भादिति। अभिविधावाङ्। भाधिकारमभिव्याप्येत्यर्थः। अधिकारश्चायम्। `अत्र` ग्रहणं समानाश्रयप्रतिपत्त्यर्थम्। आबाद्ग्रहणं विषयनिर्देशार्थम्। भाधिकारस्याऽवधिलाभस्तु `अङ्गस्य`, `प्रत्ययः`, `परश्चे`त्यादाविव व्याख्यानेनैव सिध्यति। एवं `अनुदात्तोपदेशे`त्यत्रास्योपस्थाने सत्ययमर्थो भवति, `एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो? भवति, अत्र झलादिक्ङिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति ` इति। जङ्गहि जङ्घहि। `अतो हेः` इति लुग्न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनाऽसिद्धत्वात्। नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि। ततश्च `ध्वसो`रित्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नाऽसिद्धं स्यादिति चेत्। भवेदयं दोषः शब्दाधिकारे, अर्थाधिकारस्त्वयम्। ततश्चेह `श्नान्न लोपः` इत्यवधिर्निर्णीतः, स एव प्रतिसूत्रमुपतिष्ठते। तदेतत्सकलमभिप्रेत्याह-- इति ऊर्ध्वमिति। अत्रापि शात्राऽसिद्धत्वमेवाऽकरे स्थितम्। तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनं `हुलझल्भ्यो हेर्धि`रिति धित्वं सिध्यति। प्राचोक्तकार्याऽसिद्धत्वपक्षे तु न सिध्यति, `देवदत्तस्य हन्तरि हते देवदत्तस्योज्जीवनं ने`ति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याऽप्रवृत्तेरित्याहुः। समानाश्रये इति किम्?। पपुषः। चिच्युषः। लुलुवुषः। इह पाधातोश्चिञो लूञश्च परस्य वसोर्यत्संप्रसारणं तत् `आतो लोप इटि च` इत्याल्लोपे `एरनेकाचः` इति यण्युवङि च कर्तव्ये नाऽसिद्धम्। आल्लोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात्। न च बहिरङ्गत्वेनाऽसिद्धताऽस्त्विति शङ्क्यं, `नाऽजानन्तर्ये` इति निषेधात्। `वाह ऊठ्` सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाऽऽल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च। न चोक्तपरिभाषाया आल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम्, वसोः संप्रसारणे कृते ह्यजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्याऽसिद्धत्वात्तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक्। विषयलाभार्थमाभाद्ग्रहणं किम् ?। आभीयं प्रत्येवाऽभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम्। तेन `अभाजि`, `राग` इत्यत्र `भञ्जेच चिणि`, `रञ्जेश्च`, `घञि च भावकरणयोः` इति नलोपे कृते तस्याऽसिद्धत्वाऽभावात् `अथ उपधायाः` इति वृद्धिर्भवतीत्याहुः। स्यादेतत्--- देभतुः देभुरित्यत्र `श्रन्थिग्रन्थिदम्भी`ति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेप्येत्वाभ्यासलोपौ न स्यातां, नलोपस्याऽसिद्धत्वात्। अत्राहुः--- `श्नसोरल्लोपः` इति तपरकरणाल्लिङ्गादाभीयाऽसिद्धत्वमनित्यमिति नास्त्यत्र दोषः। तपरकरणं हि आस्तामित्यत्राऽऽडागमस्य लोपो माभूदित्येतदर्थम्। यद्याडागमः श्नसोरलोपं प्रत्याभीयत्वेनाऽसिद्धः स्यात्तर्हि किं तेन तपरकरणेन ?। एवं च `दम्भेश्चे`ति वक्ष्यमाणं नाऽपूर्वं वार्तिकं, किं त्वनित्यत्वबललभ्यमेवेति॥
लघुसिद्धान्तकौमुदी
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥
महाभाष्यम्
असिद्धवदत्राभात् (3020) (अधिकारमर्यादाधिकरणम्) (असिद्धवचनाक्षेपभाष्यम्) असिद्धवचनं किमर्थम् ? (6520 असिद्धवचनप्रयोजनवार्तिकम् ।। 1 ।।) - असिद्धवचने उक्तम् - किमुक्तम् । तत्र तावदुक्तम् ‐ -।षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं इति । इहापि ‐ -असिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं च । तत्र ‐ -आदेशलक्षणप्रतिषेधार्थं तावत् ‐ -आगहि, जहि । गतं, गतवानिति । अनुनासिकलोपे जभावे च कृते अतो लोपः 6|4|48 अतो हेः (105) इति च प्राप्नोति । असिद्धत्वान्न भवति । उत्सर्गलक्षणभावार्थं च ‐ -एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद्भवति ।। (अत्रग्रहणाक्षेपभाष्यम्) अथ अत्र ग्रहणं किमर्थम् ? (6521 अत्रग्रहणप्रयोजनवार्तिकम् ।। 2 ।।) - अत्रग्रहणं विषयार्थम् - विषयः प्रतिनिर्दिश्यते । अत्र ‐ -एतस्मिन्नाभाच्छास्त्रे आभाच्छास्त्रमसिद्धं यथा स्यात् । इह मा भूत् ‐ -अभाजि, रागः, उपबर्हणमिति ।। (सूत्रप्रयोजनाक्षेपभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि ? (6522 सूत्रप्रयोजनवार्तिकम् ।। 3 ।।) - प्रयोजनं शैत्वं धित्वे - शाभाव एत्वं च धित्वे प्रयोजनम् । एधि, शाधीति । अस्तिशास्त्योरेत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद्भवति ।। (प्रयोजनाक्षेपभाष्यम्) शाभावस्तावन्न प्रयोजयति । एवं वक्ष्यामि ‐ शास् हौ ‐ शा हाविति । यत्वभूतः सकारः, तत्र सात् धित्वम्, धि च 8|2|25 इति सकारस्य लोपः । अथवा ‐ -आ हौ इति वक्ष्यामि । एवमपि सकारस्य प्राप्नोति । उपधाया इति वर्तते । तत्रोपधाया आत्वे कृते सात् धित्वम्, धि च इति सकारलोपः । अथवा न हौ इति वक्ष्यामि । तत्रेत्वे प्रतिषिद्धे सात् धित्वम्, धि च इति सकारलोपः ।। एत्वमपि लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोति ।। (सूत्रप्रयोजनभाष्यम्) करोतेर्हिलोप उत्त्वे प्रयोजनम् । कुर्वित्यत्र हिलोपे कृते सार्वधातुके परे उकार इति उत्वं न प्राप्नोति । असिद्धत्वाद्भवति ।। (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् ‐ -सार्वधातुके भूतपूर्वमात्रेऽपि यथा स्यादुत्वम् ।। (6523 सूत्रप्रयोजनवार्तिकम् ।। 4 ।।) - तास्तिलोपेण्यणादेशा अडाडि्वधौ - तलोप ‐ -अस्तिलोप ‐ -इणश्च यणादेशः ‐ -अडाडि्वधौ प्रयोजनम् । अकारि, ऐहि ‐ इति । तलोपे कृते लुङीति अडाटौ न प्राप्नुतः । अस्तिलोप ‐ -इणश्च यणादेशः प्रयोजनम् । आसन्, आयन् ‐ -इति । इणस्त्योर्यण्लोपयोरनजादित्वादाट् न प्राप्नोति । असिद्धत्वाद्भवति ।। (प्रयोजनाक्षेपभाष्यम्) अस्तिलोपस्तावन्न प्रयोजयति । आचार्यप्रवृत्तिर्ज्ञापयति ‐ -लोपादाट् बलीयानिति, यदयं श्नसोरल्लोपः 6|4|111 इति तपरकरणं करोति ।। इण्यणादेशश्चापि न प्रयोजयति । यणादेशे योगविभागः करिष्यते ‐ -इणो यण् भवति । ततः ‐ -एरनेकाचः, एरनेकाच इणो यण् भवति । ततः ‐ -असंयोगपूर्वस्य असंयोगपूर्वस्य यण्भवति, एरनेकाच इत्येव ।। (प्रकारान्तरेण प्रयोजनाक्षेपभाष्यम्) सर्वेषामेव परिहारः ‐ -उपदेश इति वर्तते । तत्रोपदेशावस्थायामेवाडाटौ भवतः । अथवा ‐ - आर्धधातुक इति वर्तते । अथवा ‐ - लुङ्लङ्लृङ्क्ष्वडिति द्विलकारको निर्देशः । लुङादिषु लकारादिष्विति ।। सर्वथा ऐज्यत ‐ -औप्यत इति न सिध्यति । वक्ष्यत्येतत् ‐ -।अजादीनामटा सिद्धम् इति ।। (6524 सूत्रप्रयोजनवार्तिकम् ।। 5 ।।) - अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च - अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च प्रयोजनम् । आगहि, जहि । गतः, गतवानिति । अनुनासिकलोपे कृते जभावे च अतो हेः अतो लोपः इति च लोपः प्राप्नोति । असिद्धत्वान्न भवति ।। (प्रयोजनाक्षेपभाष्यम्) अनुनासिकलोपस्तावन्न प्रयोजयति । अल्लोपे उपदेशे इति वर्तते । यद्युपदेश इति वर्तते, धिनुतः ‐ -कृणुतः ‐ -अत्र न प्राप्नोति । नैष दोषः । नोपदेशग्रहणेन प्रकृतिरभिसंबध्यते । किं तर्हि ? आर्धधातुकमभिसंबध्यते । आर्धधातुकोपदेशे यदकारान्तमिति ।। (प्रयोजनाक्षेपभाष्यम्) जभावश्चापि न प्रयोजयति । हिलोपे योगविभागः करिष्यते ‐ -अतो हेः । ततः ‐ -उतश्च, हेर्लुग्भवतीति । ततः ‐ -प्रत्ययात् । प्रत्ययादित्युभयोः शेषः ।। (वार्तिकरचनाक्षेपसमाधानभाष्यम्) अथ किमर्थम् अनुनासिकलोपो हिलोपाल्लोपयोर्ज्जभावश्च इत्युच्यते, न अनुनासिकलोपजभावावल्लोपहिलोपयोः इत्येवोच्येत ? संख्यातानुदेशो मा भूदिति । अनुनासिकलोपो हिलोपे प्रयोजयति ‐ -मण्डूकि ताभिरागहि, रोहिदश्व इहागहि, मरुदि्भरग्न आगहि ।। (6525 सूत्रप्रयोजनवार्तिकम् ।। 6 ।।) - संप्रसारणमवर्णलोपे प्रयोजनम् - मघोनः पश्य, मघोना, मघोने । संप्रसारणे कृते यस्य ‐ - इति लोपः प्राप्नोति । असिद्धत्वान्न भवति ।। (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । वक्ष्यत्येतत् ‐ -मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ।। (6526 सूत्रप्रयोजनवार्तिकम् ।। 7 ।।) - रेभाव आल्लोपे प्रयोजनम् - किंस्विद् गर्भं प्रथमं दध्र आपः । रेभावे कृते आतो लोप इटि च 6|4|64 इत्याकारलोपो न प्राप्नोति । असिद्धत्वाद्भवति ।। (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । छान्दसो रेभावः, लिट् च छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपित् 1|2|4 ङिद्भवति इति ङित्त्वम्, श्नाभ्यस्तयोरातः 6|4|112 इत्याकारलोपो भवति ।। (अधिकारप्रयोजनाधिकरणम्) (सूत्राभावे दोषोपक्रमभाष्यम्) यदि तर्हि अयं योगो नास्ति ‐ - (सूत्रासत्त्वे दोषप्रतिपादकं श्लोकवार्तिकम्) उत्तु कृञ्ञः कथमोर्विनिवृत्तौ इह ‐ -कुर्वः, कुर्मः, कुर्यात् ‐ -इति, उकारलोपे कृते सार्वधातुकपर उकार इति उत्वं न प्राप्नोति ।। (सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्) णेरपि चेटि कथं विनिवृत्तिः । इह च ‐ -कारयतेः कारिष्यते णेरनिटी 6|4|51 इति णिलोपो न प्राप्नोति ।। (सूत्रासत्वे दोषप्रतिपादकं श्लोकवार्तिकम्) अब्रुवतस्तव योगमिमं स्यात् लुक् च चिणो नु कथं न तरस्य ।। 1 ।। इह च ‐ -अकारितराम् ‐ -अहारितराम् ‐ इति चिण उत्तरस्य तरस्य लुक् कथं न स्यात् ।। (दोषवारकं श्लोकवार्तिकम्) चं भगवान्तकृतवांस्तु तदर्थं तेन भवेदिटि णेर्विनिवृत्तिः । इह ‐ -स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽञ्ञ्झनग्रहदृशां वा चिण्वदिट् च 6|4|62 । किञ्च ? णिलोपश्च ।। (दोषवारकं श्लोकवार्तिकम्) म्वोरपि ये च तथाऽप्यनुवृत्तौ इहापि ‐ -कुर्वः, कुर्मः, कुर्यात् ‐ -इति म्वोर्ये चेति, तदप्यनुवर्तिष्यते ।। (दोषवारकं श्लोकवार्तिकम्) चिण्लुकि च क्ङित एव हि लुक् स्यात् ।। 2 ।। चिण्लुक्यपि प्रकृतं क्ङिद्ग्रहणमनुवर्तते । क्व प्रकृतम् ? गमहनजनखनघसां लोपः क्ङित्यनङि 6|4|98 इति । तद्वै सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य 1|1|67 इति ।। (संग्रहः) उत्तु कृञ्ञः कथमोर्विनिवृत्तौ णेरपि चेटि कथं विनिवृत्तिः । अब्रुवतस्तव योगमिमं स्यात् लुक् च चिणो नु कथं न तरस्य ।। 1 ।। चं भगवान् कृतवांस्तु तदर्थं तेन भवेदिटि णेर्विनिवृत्तिः । म्वोरपि ये च तथाऽप्यनुवृत्तौ चिण्लुकि च क्ङित एव हि लुक् स्यात् ।। 2 ।। (6527 सूत्रारम्भे उपसंख्यानवार्तिकम् ।। 8 ।।) - आरभ्यमाणेऽप्येतस्मिन्योगे सिद्धं वसुसंप्रसारणमज्विधौ - आरभ्यमाणेऽप्येतस्मिन् योगे वसु संप्रसारणमज्विधौ सिद्धं वक्तव्यम् । किं प्रयोजनम् ? पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, लुलुवुषः पश्य, पुपुवुषः पश्य ‐ -इति । वसोः संप्रसारणे कृते अचि इत्याकारलोपादीनि यथा स्युरिति ।। किं पुनः कारणं न सिध्यन्ति ? (6528 उपसंख्यानकारणवार्तिकम् ।। 9 ।।) - बहिरङ्गलक्षणत्वादसिद्धत्वाच्च - बहिरङ्गलक्षणं चैव हि वसुसंप्रसारणमसिद्धं च ।। (6529 उपसंख्यानवार्तिकम् ।। 10 ।।) - आत्वं यलोपाल्लोपयोः पशुषो न वाजान् चाखायिता चाखायितुम् - आत्वं यलोपाल्लोपयोः सिद्धं वक्तव्यम् । किं प्रयोजनम् ? पशुषो न वाजान् । पशुष इत्यात्वस्यासिद्धत्वात् आतो धातोः 6|4|140 इत्याकारलोपो न प्राप्नोति । चाखायिता ‐ -चाखायितुमिति आत्वस्यासिद्धत्वात् यस्य हलः 6|4|49 इति यलोपः प्राप्नोति ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) समानाश्रयवचनात्सिद्धम् । समानाश्रयमसिद्धं भवति, व्याश्रयं चैतत् । इह तावत् ‐ -पपुषः पश्य, तस्थुषः पश्य, निन्युषः पश्य, चिच्युषः पश्य, युयुवुषः पश्य, लुलुवुषः पश्य ‐ -इति ‐ -वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ संप्रसारणम् । पशुष इति ‐ -विटि आत्वं, विडन्तस्य विभक्तावाकारलोपः । चाखायिता ‐ -चाखायितुमिति ‐ -यङ्यात्वम्, यङन्तस्य चार्धधातुके लोप इति ।। किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? अत्र ग्रहणसार्मथ्यात् । ननु चान्यदत्रग्रहणस्य प्रयोजनमुक्तम् । किमुक्तम् ? अत्र ग्रहणं विषयार्थमिति । अधिकारादप्येतत्सिद्धम् ‐ -इति ।। (उपसंख्यानानर्थक्यसाधकभाष्यम्) इह ‐ -पपुषः, चिच्युषः, लुलुवुषः, द्वौ हेतू उपदिष्टौ ‐ -बहिरङ्गलक्षणञ्ञ्चासिद्धत्वं चेति । तत्र भवेदसिद्धत्वं प्रयुक्तम्, बहिरङ्गलक्षणं तु नैव प्रत्युक्तम् । नैष दोषः । बहिरङ्गमन्तरङ्गमिति च प्रतिद्वन्द्विभाविनावेतावर्थौ । कथम् ? सत्यन्तरङ्गे बहिरङ्गम्, सति च बहिरङ्गेऽन्तरङ्गम् । न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति । नानभिनिर्वृत्ते बहिरङ्गेऽन्तरङ्गं प्राप्नोति । तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य ।। (6530 उपसंख्यानवार्तिकम् ।। 10 ।।) - ह्रस्वयलोपाल्लोपाश्चायादेशे ल्यपि सिद्धा वक्तव्याः - प्रशमय्य गतः, प्रतमय्य गतः, प्रबेभिदय्य गतः, प्रचेच्छिदय्य गतः, प्रस्तनय्य गतः, प्रगदय्य गतः । ह्रस्वयलोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् 6|4|56 इत्ययादेशो न प्राप्नोति ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) अत्राप्येष परिहारः ‐ -समानाश्रयवचनात्सिद्धमिति । कथम् ? णावेति विधयः, णेर्ल्यप्ययादेशः ।। (6531 उपसंख्यानवार्तिकम् ।। 11 ।।) - वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ - बभूवतुः, बभूवुः । वुकोऽसिद्धत्वादुवङादेशः प्राप्नोति । उपदिदीये, उपदिदीयाते । युटोऽसिद्धत्वाद्यणादेशः प्राप्नोति ।। (वुकः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्) वुकस्तावन्न वक्तव्यम् । वुकं न वक्ष्यामि । एवं वक्ष्यामि ‐ -भुवो लुङि्लटोरूदुधायाः इति । अत्रोवङादेशे कृते या उपधा तस्याः स्यात् ।। (प्रत्याक्षेप ‐ -समाधानभाष्यम्) एवमपि कुतो नु खल्वेतत् ‐ -उवङादेशे कृते या उपधा तस्या ऊत्वं भविष्यति, न पुनः सांप्रतिकी योपधा तस्याः स्यात् ‐ -भकारस्येति । नैष दोषः । ओरिति वर्तते, तेनोवर्णस्य भविष्यति ।। (पुनः प्रत्याक्षेप ‐ -समाधानभाष्यम्) भवेत्सिद्धं ‐ -बभूवतुः, बभूवुः । इदं तु न सिद्ध्यति ‐ -बभूव, बभूविथेति । किं कारणम् ? गुणवृद्ध्योः कृतयोरुवर्णाभावात् । नात्र गुणवृद्धी प्राप्नुतः । किं कारणम् ? क्ङिति च 1|1|5 इति प्रतिषेधात् । कथं कित्त्वम् ? इन्धिभवतिभ्यां च 1|2|6 इति । तद्वै कित्त्वं वयं प्रत्याचक्ष्महे वुका । इह तु कित्त्वेन वुक् प्रत्याख्यायते । किं पुनरत्र न्याय्यम् ? वुग्वचनमेव न्याय्यम् । सति हि कित्त्वे स्यातामेवात्र गुणवृद्धी । किं कारणम् ? इग्लक्षणयोर्गुणवृद्ध्योः स प्रतिषेधः, न चैषा इग्लक्षणा वृद्धिः । एवं तर्हि नार्थो वुका नापि कित्त्वेन । स्तामत्र गुणवृद्धी । गुणवृद्ध्योः कृतयोरवावोश्च कृतयोर्या उपधा तस्या ऊत्वं भविष्यति । कथम् ? ओरित्यत्रावर्णमपि प्रतिनिर्दिश्यते । इहापि तर्हि प्राप्नोति ‐ -कीलालपः पश्य, शुभंयः पश्येति । लोपोऽत्र बाधको भविष्यति । इह तर्हि प्राप्नोति ‐ -कीलालपौ, कीलालपा इति । एवं तर्हि व्योरिति वर्तते, तेनोवर्णं विशेषयिष्यामः ‐ -व्योः-ओः-इरिति । इहेदानीमोरित्यनुवर्तते, व्योरिति निवृत्तम् ।। (युटः सिद्धत्वोपसंख्यानाक्षेपभाष्यम्) युटश्चापि न वक्तव्यम् । युड्वचनसार्मथ्यान्न भविष्यति । अस्त्यन्यत् युड्वचने प्रयोजनम् । किम् ? द्वयोर्यकारयोः श्रवणं यथा स्यात् । न व्यञ्जनपरस्यानेकस्यैकस्य वा यकारस्य श्रवणं प्रति विशेषोऽस्ति ।। (असिद्धत्वमर्यादाजिज्ञासाभाष्यम्) किं पुनः प्राग्भादसिद्धम्, आहोस्वित्सह तेन ? कुतः पुनरयं सन्देहः ? आङाऽयं निर्देशः क्रियते, आङ् च पुनः सन्देहं जनयति । तद्यथा ‐ -आ पाटलिपुत्रात् वृष्टो देव इति सन्देहः ‐ -किं प्राक् पाटलिपुत्रात् ‐ -सह तेनेति । एवमिहापि सन्देहः ‐ -प्राग्भात् ‐ -सह तेनेति । कश्चात्र विशेषः ? (6532 आङो मर्यादार्थकत्वे दोषवार्तिकम् ।। 12 ।।) - प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानम् - प्राग्भादिति चेच्छुनामघोनाभूगुणेषूपसंख्यानं कर्तव्यम् । शुनः पश्य, शुना, शुने । संप्रसारणे कृते अल्लोपोऽनः 6|4|134 इति प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वम्, असिद्धत्वात्तस्य न संयोगाद्वमन्तात् (137) इति प्रतिषेधो भविष्यति ।। (दोषभाष्यम्) यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? नास्त्यत्र विशेषः ‐ -अल्लोपेन निवृत्तौ सत्याम्, पूर्वत्वेन वा निवृत्तौ ।। (प्रत्याक्षेपभाष्यम्) अयमस्ति विशेषः ‐ -अल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत ।। (प्रत्याक्षेपनिरासभाष्यम्) नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण ‐ - 6|1|182 इति प्रतिषेधात् ।। (निरासनिरसनभाष्यम्) नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य ।। (प्रत्याक्षेपभाष्यम्) यत्र तर्हि तृतीयादिस्वरो नास्ति ‐ -शुनः पश्येति ।। (प्रत्याक्षेपनिरासभाष्यम्) एवं तर्हि न वयं लक्षणस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केनचिल्लक्षणेन प्राप्तस्य विभक्तिस्वरस्यायं प्रतिषेधः ।। (आक्षेपनिरासभाष्यम्) यत्र तर्हि विभक्तिस्वरो नास्ति ‐ -बहुशुनीति ।। (प्रत्याक्षेपभाष्यम्) यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । (प्रत्याक्षेपापोहभाष्यम्) नैवं शक्यम् । इहापि प्रसज्येत ‐ -कुमारीति ।। (आक्षेपभाष्यम्) एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति ‐ -नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति, यदयं श्वन्शब्दं गौरादिषु पठति । अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यात् ङीपैव ।। (दोषाक्षेपभाष्यम्) मघोनः पश्य, मघोना, मघोने, संप्रसारणे कृते यस्य ‐ - इति लोपः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वं, असिद्धत्वात्तस्य न भविष्यति ।। यस्यापि हि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? वक्ष्यत्येतत् ‐ -मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति ।। (दोषाक्षेपभाष्यम्) भूगुणः ‐ -भूयान् । भूभावे कृते ओर्गुणः प्राप्नोति । यस्य पुनः सह तेनासिद्धत्वमसिद्धत्वात्तस्य न भविष्यति ।। यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न दोषः । कथम् ? दीर्घोच्चारणसार्मथ्यान्न भविष्यति । अस्त्यन्यद्दीर्घोच्चारणस्य प्रयोजनम् । किम् ? भूमेति । निपातनादेतत्सिद्धम् । किं निपातनम् ? बहोर्नञ्ञ्वदुत्तरपदभूम्नि 6|2|175 इति ।। (वार्तिकावतरणभाष्यम्) अथ वा पुनरस्तु सह तेन ‐ -इति । (6533 आङोऽभिविध्यर्थत्वे दोषवार्तिकम् ।। 13 ।।) - आ भादिति चेद्वसुसंप्रसारणयलोपप्रस्थादीनां प्रतिषेधः - आ भादिति चेद्वसुसम्प्रसारणयलोपप्रस्थादीनां प्रतिषेधो वक्तव्यः । पपुषः पश्य, तस्थुषः, निन्युषः, चिच्युषः, लुलुवुषः, युयुवुष इति । चसुसम्प्रसारणे कृते तस्यासिद्धत्वादचीत्याकारलोपादीनि न सिद्ध्यन्ति । नैष दोषः । उक्तमेतत् ‐ -समानाश्रयवचनात्सिद्धमिति । कथम् ? वसावाकारलोपादीनि, वस्वन्तस्य विभक्तौ सम्प्रसारणम् ‐ -इति ।। (दोषाक्षेपभाष्यम्) यलोपः । सौरी बलाका । योऽसावण्यकारो लुप्यते तस्यासिद्धत्वात् ‐ -इर्तीति यलोपो न प्राप्नोति । अत्राप्येष परिहारः ‐ -समानाश्रयवचनात्सिद्धमिति । कथम् ? अणि अकारलोपः, अणन्तस्य ‐ -इर्ति यलोपः ।। प्रस्थादिषु । प्रेयान्, स्थेयान् । प्रस्थादीनामसिद्धत्वात् प्रकृत्यैकाच् 6|4|163 इति प्रकृतिभावो न प्राप्नोति ।। नैष दोषः । यथैव प्रस्थादीनामसिद्धत्वात्प्रकृतिभावो न भवति, एवं टिलोपोऽपि न भविष्यति ।।