Page loading... Please wait.
6|4|175 - ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि
॥ तस्मै पाणिनये नमः ॥
6|4|175
SK 3556
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि   🔊
सूत्रच्छेदः
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि (प्रथमाबहुवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये। ऋतु वास्तु इत्येतयोः यति यणदेशो निपात्यते। ऋतौ भवं ऋत्व्यम्। वास्तौ भवं वास्त्व्यम्। वस्तुशब्दस्य अणि यणादेशो निपात्यते। वस्तुनि भवः वास्त्वः। मधुशब्दस्य अणि स्त्रियां यणादेशो निपात्यते। माध्वीर्नः सन्त्वोषधीः। हिरण्यशब्दाद् विहितस्य मयटो मशब्दस्य लोपो निपात्यते। हिरण्ययम्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः। सप्तमाध्यायः प्रथमः पादः।
`ऋत्व्यम्, वास्त्व्यम्` इति। `भवे छन्दसि` 4|4|109 इति यत्। `वास्त्वम्` इति। `तस्येदम्` 4|3|120 इत्यण्। एवं `माध्वी` इत्यत्रापि। `हिरण्ययः` इति। पूर्ववन्मयट्॥इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरहणपञ्जिकायां षष्ठाध्यायस्य चतुर्थः पादः॥श्रीबोधिसत्त्वदेशीयाचार्थजिनेन्द्रबुद्धिपादविरचितान्यासापरपर्यायाकाशिकाविवरणपञ्जिकाख्याकाशिकाव्याख्या- - -सप्तमोऽध्यायःप्रथमः पादः
मलोपो निपात्यत इति । तस्यासिद्धत्वाद्यस्येतिलोपाभावः । एवमपि अकृत्सार्वधातुकयोर्दीर्घः इति दीर्धः प्राप्नोति, अङ्गवृतेः पुनर्वृतौ इति वचनान्न भविष्यति । क्वचितु मकारलोप इति पठन्ति । तत्र यस्येति लोपे कृते प्रत्ययाकारस्य श्रवणम् ॥
सिद्धान्तकौमुदी
ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.