Page loading... Please wait.
6|4|17 - तनोतेर्विभाषा
॥ तस्मै पाणिनये नमः ॥
6|4|17
SK 2622
तनोतेर्विभाषा   🔊
सूत्रच्छेदः
तनोतेः (षष्ठ्येकवचनम्) , विभाषा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलि इत्येव, तितनिषति। सनीवन्तर्ध इत्यत्र तनोतेरुपसङ्ख्यानादिडागमो भवति विकल्पेन।
`तनोतेरुपसंख्यानात्` इति। `तनिपतिदरिद्राणाम्` (कात्या।वा।5059-7.2.49) इत्यस्मात्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। प्रकृतिगरहणपरिभाषाया (व्या।प।77) तदन्तादपि विकल्पः सम्भवेत्--तन्तंसति॥ बाल-मनोरमाआ च हौ 329, 6.4.17 `आ` इति लुप्तप्रथमाकम्। जहातेरिति। `जहातेश्चे`त्यतस्तदनुवृत्तेरिति भावः। चादिदीताविति। `इद्दरिद्रस्ये`त्यतः, `ई हल्यघो`रित्यतश्च तयोरिह चकारेणानुकर्षादिति भावः। जहितात्-- जहीतात् जहितम्--जहीतम् जहित--जहीत। जहानि जहाव जहाम। लङ्याह-- अजहादिति। अजहिताम्--अजहीताम् अजहुः। अजहा इति। अजहितम्--अजहीतम् अजहित-अजहीत। अजहाम् अजहिव-अजहीव अजहिम - अजहीम। बाल-मनोरमातनोतेर्विभाषा 450, 6.4.17 तनोतेर्विभाषा। उपधाया दीर्घ इति। `नोपधायायाः` इत्यतो `ढ्रलोपे` इत्यतश्च तदनुवृत्तेरिति भावः। झलादौ सनीति। `अज्झने`त्यतस्तदनुवर्तते। तत्र झलादाविति भाष्ये स्थितमिति भावः। आशङ्कायामिति। आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः। आआ मुमूर्षतीति। शङ्कितमरणो भवतीत्यर्थः। कूलं पिपतिषतीति। शङ्कितपतनं भवतीत्यर्थः। `तनिपती`ति इट्पक्षे रूपम्। पतेःसनि इडभावपक्षे त्वाह--
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ॥ ।आशङ्कायां सन्वक्तव्यः (वार्तिकम्) ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥
तनोतेर्विभाषा - तनोतेर्विभाषा । उपधाया दीर्घ इति । "नोपधायायाः" इत्यतो "ढ्रलोपे" इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति ।अज्झने॑त्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । आआ मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः ।तनिपती॑ति इट्पक्षे रूपम् । पतेःसनि इडभावपक्षे त्वाह —
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.