Page loading... Please wait.
6|4|164 - इनण्यनपत्ये
॥ तस्मै पाणिनये नमः ॥
6|4|164
SK 1245
इनण्यनपत्ये  
सूत्रच्छेदः
इन् (प्रथमैकवचनम्) , अणि (सप्तम्येकवचनम्) , अनपत्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति। साङ्कूटिनम्। सांराविणम्। सांमार्जिनम्। अभिविधौ भाव इनुण् 3|3|44, अणिनुणः 5|4|15 इत्यण्। स्रग्विण इदम् स्राग्विणम्। अणि इति किम्? दण्डिनां समूहो दाण्डम्। अनुदात्तादेरञ् 4|2|44 इति अञ्प्रत्ययः। अनपत्ये इति किम्? मेधाविनो ऽपत्यं मैधावः।
`साङकूटिनम्, सांराविणम्, साम्मार्जिनम्` इति। `कूट दाहे` (धातुपाठः-1890), [परितापे (परिदाहे)--धातुपाठः-] `रु शब्दे` (धातुपाठः-1034), `मृजू शुद्धौ` (धातुपाठः-1066) `अभिविधौ भावे इनुण्` 3|3|44 , `मृजेर्वृद्धिः` 7|2|114 सांकूटिन्, सांराविन्, सांमार्जिन्--इति स्थिते `अणिनुणः` 5|4|15 इति स्वर्थेऽण्। `मैधावः` इति। `अस्माया` 5|2|120 इत्यादिना विनिः, तदन्तात्? प्राग्दीव्यतोऽणपत्यार्थे॥
सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ॥
सिद्धान्तकौमुदी
अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते (कौमुदी-679) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥
इनण्यनपत्ये - इनण्यनपत्ये । इन्-अमीति छेदः प्रकृत्येति ।प्रकृत्यैका॑जित्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ।कनिन्युवृषितक्षी॑त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियांयूनस्ति॑रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति "भस्याऽढे" इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ "अन्" इति प्रकृतिभावाट्टिलोपाऽभावेयौवन॑मिति रूपम् । अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु "भस्याऽढे तद्धिते" इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्यस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे "तस्य समूहः" इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः ।
इनण्यनपत्ये - यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः । पुंवद्भावात्तिप्रत्ययनिवृत्तिः ।अन्इति प्रकृतिभावः । ननुभस्याऽढे॑इत्यत्रअढे तद्धिते विवक्षिते पुंवद्भावः॑इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यांकिन्युवृषी॑ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत् । सत्यम् । अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः ।इह युवतिशब्दपाठसामथ्र्यात्पुंवद्भावो ने॑ति वृत्तिकारोक्तिरप्यत एव निरस्ता । नन्वेवंगार्भिणं यौवतं गणे॑इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह — -शत्रन्तादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.