Page loading... Please wait.
6|4|154 - तुरिष्ठेमेयस्सु
॥ तस्मै पाणिनये नमः ॥
6|4|154
SK 2008
तुरिष्ठेमेयस्सु   🔊
सूत्रच्छेदः
तुः (षष्ठ्येकवचनम्) , इष्ठ-इमन्-इयस्सु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इष्ठनिमनिचीयसुनित्येतेषु परतः तृशब्दस्य लोपो भवति। आसुतिं करिष्ठः। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि टेः 6|4|155 इत्येव सिद्धः। लुगित्येतदत्र न अनुवर्तते, तथा हि सति न लुमताङ्गस्य 1|1|63 इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणम् उत्तरार्थम्। इतरौ तु तुश्छन्दसि 5|3|59 इति भवतः।
`तुः` इति। विसेषकराननुबन्धानुत्सृज्य तृंस्तृचोः सामान्येन ग्रहणम्। `करिष्ठः` इति। करोतेस्तृन्। तदन्तादतिशायन इष्ठन्, तृशब्दस्य लोपः। `विजयिष्ठः` इति। विपूर्वाज्जयतेस्तृन्। `वहिष्ठः` इति। अत्रापि वहेस्तृन्। तदन्तादिष्ठन्, `हो ढः` 8|2|31 इति ढत्वम्। तृशब्दस्य लोपे कत्र्तव्ये `पूर्वत्रासिद्धम्` 8|2|1 इत्यसिद्धम्, तेन पूर्वलोप एव क्रियते, तस्मिन्? कृते झलि यदान्ते च विधीयमानं ढत्वं निमित्ताभावान्न प्रवत्र्तेते। `दोहीयसी` इति। दुहेस्तृजन्तादीयसुन्, `उगितश्च` 4|1|6 इति ङीप्। अत्रापि लोपे कत्र्तव्ये `दादेर्धातोर्धः` 8|2|32 इत्येतदप्यसिद्धमिति पूर्वं लोपः, तस्मिन्? सति पूर्ववद्धत्वं न प्रवत्र्तते। अथ `अलोऽन्त्यस्य` 1|1|52 इत्यन्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--`सर्वस्य` इत्यादि। तत्रैव कारणमाह--`अन्त्यस्य` इत्यादि। यद्यन्त्यस्य स्याद्वचनवैयथ्र्यमापद्येत; `अन्त्यस्य टेः` इत्येवं सिद्धत्वात्। तस्मादन्त्यलोपवचने प्रयोजनं नास्तीति सर्वस्य तृशब्दस्य लोपो यता स्यादित्येवमर्थमिदं वचनं विज्ञायते। यदि तर्हि तृशब्दस्य लोपार्थं वचनमनन्तरो लुगेव कस्मान्न विधीयते, एवं तर्हि सर्वस्य सुखमेव लोपोऽवसीयते, प्रत्ययादर्शनस्य लुग्विधानात्? इत्यत आह--`लुगित्येतत्तु` इत्यादि। कः पुनस्तत्र सति दोषः स्यात्? इत्यत आब--`तथा हि` इत्यादि। यदि लुगित्येतदिहानुवत्र्तत, ततः `अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते` (व्या।प।128) इति कृत्वा पूर्वं लुका भवितव्यम्, ततश्च `न लुमताङ्गस्य` 1|1|62 इति प्रत्ययलक्षणनिषेधः स्यात्; करिष्ठः, विजयिष्ठ इत्यत्रार्धदातुकलक्षणो गुणो न स्यात्। तस्मान्मा भूदेष दोष इति लुगित्येतदिहानुवत्र्तते। अथेमनिज्ग्रहणं किमर्थम्, यावता तृशब्दात्? पर इमानिज्न सम्भवति। तथापि `पृध्वादिभ्य इमानिज्वा` 5|1|121 `वर्मदृढादिभ्यः व्यञ्च` 5|1|122 इत्यनेन योगद्वयेन स विहितः, न तृशब्दान्तं किञ्चित्? पृथ्वादिषु दृढादिषु वा मध्ये पठते, नापि वर्णवाच्यस्तीत्यत आह--`इतरौ तु` इत्यादी॥
दोहीयसीत्यत्र घत्वादीनामसिद्धत्वात्पूर्वं तृशब्दस्य लोपे कृते पश्चान्निमिताभावातेपामभावः । लोपो भवति इत्युक्त, तत्रन्त्यस्य प्राप्नात्यत आह - सर्वस्येति । कारणमाह - अन्त्यस्य हीति । नन्वेवमनन्तरो लुगेव विधेयः, एवं सुखमेव सर्वस्य निवृत्तिर्लभ्यते अत आह - लुगित्येतत्विति । कः पुनस्तदनुवृतौ दोषः स्याद् अत आह - तथा हीति । न च पूर्वमेव गुणो भवति अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनात् । इमनिज्ग्रहणमुतरार्थमिति । नेहार्थम्, तृशब्दातस्यासम्भावात् । न चेदमेव कल्पकं भवितुमर्हति, उतरार्थतयाप्युपपतेः । नन्वेवम् अजादी गुणवचनादेव इति नियमादिष्ठेयसुनोरपि न सम्भवः अत आह - इतरौ त्विति ॥
सिद्धान्तकौमुदी
तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
तुरिष्ठेमेयस्सु - तुरिष् ।टे॑रित्यनेनान्त्यलोपे सिद्धेऽप्यारम्भसामथ्र्यात्सर्वस्य तृशब्दस्य लोपस्तदाह — -करिष्ठ इति । दोहीयसीति इयमनयोरतिशयेन दोग्ध्री ।भस्याऽढे तद्धिते सिद्धश्च प्रत्ययविधौ॑इति वचनात्तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताऽभावाद्धत्वजश्त्वयोरपि निवृत्तिः । अलौलिके विग्रहवाक्ये प्रागेव तयोरप्रवृत्तिःअकृतव्यूह॑परिभाषयेति तु तत्त्वम् । गुणस्तु प्रवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात्, छान्दसमपितु॑रिति सूत्रम्,तुरिष्ठेमेयः,सु॑इति चणाविष्ठव॑दित्यति देशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तुरिष्ठेमेयः सु (3151) (वार्तिकावतरणभाष्यम्) तुः सर्वस्य लोपो वक्तव्यः, अन्त्यस्य मा भूदिति । स तर्हि वक्तव्यः ? न वक्तव्यः ।। (6626 उपसंख्यानसाधकवार्तिकम् ।। 1 ।।) - सर्वलोपविज्ञानमन्त्यस्य वचनानर्थक्यात् - तुः सर्वलोपो विज्ञायते । कुतः ? अन्त्यस्य वचनानर्थक्यात् । अन्त्यस्य लोपवचने प्रयोजनं नास्तीति कृत्वा सर्वस्य भविष्यति ।। अथवा ‐ - लुक् प्रकृतः सोऽनुवर्तिष्यते ।। अशक्यो लुगनुवर्तयितुम् । किं कारणम् ? विजयिष्ठकरिष्ठयोर्गुणदर्शनात् । विजयिष्ठकरिष्ठयोर्गुणो दृश्यते । विजयिष्ठः । आसुतिङ्करिष्ठः ।।