Page loading... Please wait.
6|4|15 - अनुनासिकस्य क्विझलोः क्ङिति
॥ तस्मै पाणिनये नमः ॥
6|4|15
SK 2666
अनुनासिकस्य क्विझलोः क्ङिति  
सूत्रच्छेदः
अनुनासिकस्य (षष्ठ्येकवचनम्) , क्वि-झलोः (सप्तमीद्विवचनम्) , क्ङिति (सप्तम्येकवचनम्)
अनुवृत्तिः
दीर्घः  6|3|111 (प्रथमैकवचनम्) , उपधायाः  6|4|7 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
अनुनासिकस्य अङ्गस्य उपधायाः क्वि-झलोः क्ङिति दीर्घः
सूत्रार्थः
अनुनासिकान्तस्य अङ्गस्य उपधावर्णस्य - (1) क्विप्-प्रत्यये परे (2) झलादि-कित्-प्रत्यये परे (3) झलादि-ङित्-प्रत्यये परे - दीर्घादेशः भवति ।
अनुनासिकान्त-अङ्गस्य यः उपधावर्णः , तस्य - क्विप्-प्रत्यये परे, झलादि कित्-प्रत्यये परे, तथा झलादि ङित्-प्रत्यये परे दीर्घादेशः भवति ।

(1) क्विप् प्रत्ययः -

"क्विप्" इति कश्चन कृत्-प्रत्ययः अस्ति । अयं प्रत्ययः सर्वेभ्यः धातुभ्यः अपि विधीयते, सर्वेभ्यः प्रातिपदिकेभ्यः अपि विधीयते । अस्य प्रत्ययस्य विषये बिन्दुद्वयम् ज्ञातव्यम् -
अ) अयम् सर्वापहारी प्रत्ययः अस्ति - इत्युक्ते, अस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति ।
आ) अस्य प्रत्ययस्य योजनेन सर्वदा धातोः निर्माणं भवति । इत्युक्ते, धातुः / प्रातिपदिकम् + क्विप् प्रत्ययः = धातुः ।

धातुभ्यः विहितस्य तथा प्रातिपदिकेभ्यः विहितस्य क्विप्-प्रत्ययस्य विषये पृथक् उदाहरणानि एतादृशानि -

(1 अ) क्विप् च 3|2|76 इत्यनेन सर्वेभ्यः धातुभ्यः क्विप्-प्रत्ययः भवति । अस्यां प्रक्रियायाम् ये धातवः अनुनासिकवर्णान्ताः सन्ति, तेषां विषये क्विप्-प्रत्यये परे उपधावर्णस्य दीर्घः भवति । यथा -

शमुँ (उपशमे) + क्विप्
→ शम् [उकारस्य इत्संज्ञा, लोपः । क्विप्-इत्यस्य सम्पूर्णरूपेण लोपः]
→ शाम् [अनुनासिकस्य क्विझलोः क्ङिति 6|1|14 इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]

तथैव तम् + क्विम् → ताम्, दम् + क्विप् → दाम् - एतानि प्रातिपदिकानि सिद्ध्यन्ति ।

(1 आ) सर्वप्रातिपदिकेभ्यः क्बिब्वा वक्तव्यः इत्यनेन वार्त्तिकेन "तत् इव आचरति" इत्यस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः क्विप्-प्रत्ययः भवति । यथा - "राजा इव आचरति" इत्यस्मिन् अर्थे राजन् शब्दस्य क्विप्-प्रत्ययः विधीयते । अत्र प्रक्रिया एतादृशी अस्ति -
राजन् + क्विप्
→ राजन् [क्विप्-इत्यस्य सम्पूर्णरूपेण लोपः]
→ राजान् [अनुनासिकस्य क्विझलोः क्ङिति 6|1|14 इत्यनेन अनुनासिकस्य अङ्गस्य उपधावर्णस्य क्विप्-प्रत्यये परे दीर्घादेशः भवति ।]
अत्र "राजान्" इति धातुः अस्ति इति स्मर्तव्यम् । अतः अस्य रूपाणि - राजानति, राजानतः, राजानन्ति - एतानि भवन्ति ।

तथैव, पथिन् इव आचरति = पथीनति, दण्डिन् इव आचरति = दण्डीनति - इत्यत्रापि उपधावर्णस्य दीर्घः अनेन सूत्रेण सिद्ध्यति ।

(2) झलादि कित्-प्रत्ययः

यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः "झलादि-कित्-प्रत्ययः" नाम्ना ज्ञायते । यथा - क्त्वा, क्त , आदयः । अस्मिन् प्रत्यये परे अङ्गस्य उपधावर्णस्य दीर्घः भवति । यथा - शम् + क्त इत्यत्र अनेन सूत्रेण मकारात् पूर्वः यः अकारः तस्य दीर्घादेशः भवति । अग्रे "शाम् + क्त" इत्यत्र अनुस्वार-परसवर्णे "शान्त" इति रूपं सिद्ध्यति ।

(3) ) झलादि ङित्-प्रत्ययः

यस्य प्रत्ययस्य आदिवर्णः झल्-अस्ति, तथा यस्मिन् प्रत्यये ङकारः इत्संज्ञकः अस्ति (नो चेत् यः प्रत्ययः अतिदेशेन ङित्वम् प्राप्नोति) सः प्रत्ययः "झलादि-ङित्-प्रत्ययः" नाम्ना ज्ञायते । यथा, सार्वधातुकमपित् 1|2|4 अनेन सूत्रेण प्रथमपुरुष-द्विवचनस्य तस्-प्रत्ययः ङित्वत् भवति । "शम्"-धातोः यङ्लुक्-प्रक्रियायाम् अस्मिन्-प्रत्यये परे "शंशान्तः" इति रूपं साधयितुम् वर्तमानसूत्रेण अङ्गस्य उपधायाः दीर्घः विधीयते । विस्तृतप्रक्रिया एतादृशी अस्ति -

शम् + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3|1|22 इति यङ्-प्रत्ययः]
→ श + शम् + यङ् [सन्यङोः 6|1|9 इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम्]
→ शन् + शम् + यङ् [नृगतोऽनुनासिकान्तस्य 7|4|85 इति अभ्यासस्य नुक्-आगमः ।]
→ शन् + शम् [यङोऽचि च 2|4|74 इति यङ्लुक् ]
→ शन्शम् [ सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा ]
→ शन्शम् + लट् [वर्तमाने लट् 3|2|123 इति लट् ]
→ शन्शम् + तस् [तिप्तस्झि... 3|4|78 इति प्रथमाद्विवचनस्य विवक्षायाम् तस्-प्रत्ययः]
→ शन्शम् + शप् + तस् [कर्तरि शप् 3|1|68 इति औत्सर्गिकं गणविकरणम् शप्]
→ शन्शम् + तस् [अदिप्रभृतिभ्यः शपः 2|4|72 इति यङ्गन्तस्य अदादित्वात् शपः लुक् ]
→ शन्शाम् + तस् [अनुनासिकस्य क्विझलोः क्ङिति 6|4|15 इति झलादि ङिति तस्-प्रत्यये परे उपधादीर्घः ]
-> शन्शाम्तः [ससजुषोः रुँः 8|2|66 इति रूँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः ]
→ शंशांतः [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ शंशान्तः [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति नकारादेशः]

अत्र शन्शम् + तस् इत्यत्र उपधावर्णस्य दीर्घः वर्तमानसूत्रेण विधीयते । "तस्" अयं झलादि ङित्-प्रत्ययः अस्ति अतः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।
One-line meaning in English
If an अङ्ग ends in an अनुनासिक, the उपधा letter of that अङ्ग becomes दीर्घ in presence of a क्विप्-प्रत्यय, झलादि-कित्-प्रत्यय or a झलादि-ङित्-प्रत्यय.
काशिकावृत्तिः
अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति। प्रशान्। प्रतान्। झलादौ किति शान्तः। शान्तवान्। शान्त्वा। शान्तिः। ङिति खल्वपि शंशान्तः। तन्तान्तः। यङ्लुगन्तादयं तस्। अनुनासिकस्य इति किम्? ओदनपक्। पक्वः। पक्ववान्। क्विझलोः इति किम्? गम्यते। रम्यते। क्ङिति इति किम्? गन्ता। रन्ता।
`क्विप्प्रत्यये परतो झलादौ च क्ङिति` इति। अत्र `क्ङिति` इत्येतज्झलादावित्यनेनैव सम्बध्यते, न तु क्विप्प्रत्ययेन; यतः सम्भवव्यभिचारे हि विशेष्यविशेषणभावो भवति। कित्त्वङित्त्वयोस्तु सम्भव्यभिचारा वुभावपि झलादौ स्तः, न तु क्वौ। तथा हि कित्त्वस्य क्वावव्यभिचारः, ङित्त्वस्य तवसम्भवः। `प्रशान्? प्रतान्? प्रदान्` इति। `शमु उपशमे` (धातुपाठः-1201), `तमु कांक्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203)--एतेभ्यः प्रपूर्वेभ्यः क्विपि `मो नो धातोः` 8|2|64 इति नत्वम्। `शंशान्तः` इति। शमेर्यङः, द्विवचनम्, `नृगतोऽनुनासिकान्तस्य` 7|4|85 इति नुक्, `यङोऽचि च` 2|4|74 इति यङो लुक्, लट्, तस्, तस्य `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वम्, `चर्करीतञ्च` (धातुपाठः-1081) इत्यदादौ पाठाददादित्वाच्छपो लुक्॥
अङ्गाक्षिप्तस्य झला विशेषणातदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काडक्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङ्लुगन्तातसिति । स्य सार्वधातुकमपित् इति ङ्त्विम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्वाद् यस्य विभाषा इति प्रतिषेधः, एकाच इति तत्रानुवृतेः ॥
सिद्धान्तकौमुदी
अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥
अनुनासिकस्य क्विझलोः क्ङिति - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, "ढ्रलोपे" इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति "ह्यस्वनद्यापः" इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । "नः क्ये" इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे "आत औ णलः" इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।
अनुनासिकस्य क्विझलोः क्ङिति - अनुनासिकस्य ।अङ्गस्ये॑ति विशेष्यसन्निधानात्तदन्तलाभः ।ढ्रलोपे॑ इत्यतो दीर्घग्रहणं,नोपधायाः॑ इत्यत उपधाग्रहणं चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादि । झलादाविति । एतच्चयस्मिन्विधिस्तदादावल्ग्रहणे॑ इति परिभाषया लभ्यते । झलादौ किति शान्तो दान्त इत्युदाहरणं, ङिति तु यङ् लुकि — तसि शंशान्तः दंदान्तः । पथीनतीति । अन्तरङ्गत्वाद्दीर्घस्ततो न गुण इत्याहुः ।इन्ह॑ न्नित्यनेन शावेवेति नियमाद्दीर्घाभावे गुणे सतिपथेनती॑न्निति नियमो, न तु पथ्यादीनाम् । एतेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्तावपिइतोऽत्सर्वनामस्थाने॑ इत्यत्वे कृतेइन्ह॑ न्निति नियमाऽप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत् । तथा च पथीनतीत्यात्याद्येव साध्वित्यपरे । देवतीति माधव इति । अपदान्तत्वाद्दिव उन्न । अत्रेति । लघूपधगुणं बाधित्वान्तरङ्गत्वादूठि यण् । तस्मिन्कर्तव्ये बहिरङ्गस्याप्यूठो नाऽसिद्धत्वं,नाजानन्तर्ये॑ इति निषेधात् । न च वर्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यं, व्याश्रयत्वात् । अत एव सिवेरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः । क इवेति । को — ब्राहृआ । चक इतीति । नन्वेवमौ अतुरित्यत्रापिअत आदेः॑ इति दीर्घं बाधित्वाअतो लोप॑ एव स्यादिति चेत् । अत्राहुः — ण्यल्लोपौ॑ इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, अनन्तरस्येति न्यायात्, न तु व्यवहितमपिअत आदे॑रिति दीर्घमिति माधवाशान्नानेन तद्ग्रन्थस्य विरोध इति । अनाकरमेवेति । अनेकाच्त्वाऽभावादित्यर्थः । अन्ये तु भाष्येप्रत्ययग्रहणमनीये॑ इत्यनुक्तत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः ।
लघुसिद्धान्तकौमुदी
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.