Page loading... Please wait.
6|4|148 - यस्येति च
॥ तस्मै पाणिनये नमः ॥
6|4|148
SK 311
यस्येति च  
सूत्रच्छेदः
यस्य (षष्ठ्येकवचनम्) , ईति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
तद्धिते  6|4|144 (सप्तम्येकवचनम्) , लोपः  6|4|147 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
भस्य अङ्गस्य यस्य तद्धिते ईति च लोपः
सूत्रार्थः
भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति ।
अस्मिन् सूत्रे प्रयुक्तः "यस्य" अयम् शब्दः "इ + अ" इत्यनेन निर्मितः अस्ति । इश्च अश्च = यः । "यस्य" इत्युक्ते इवर्णान्तस्य + अवर्णान्तस्य । अतः अस्य सूत्रस्य अर्थः - भसंज्ञकस्य अङ्गस्य अन्तिमस्य अ-वर्णस्य / इ-वर्णस्य तद्धितप्रत्यये परे ईकारे च परे लोपः भवति ।

अस्मिन् सूत्रे तपरकरणम् कृतम् नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईकारस्यापि ग्रहणं भवति ।

आदौ तद्धितप्रत्यये परे उदाहरणानि पश्यामः -

1. अकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -
दक्ष + इञ् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे अत इञ् 4|1|95 इति इञ्-प्रत्ययः]
→ दाक्ष इञ् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ दाक्ष् + इञ् [इञ्-प्रत्यये परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ दाक्षि

2. आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -
विनता + ढक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4|1|120 इति ढक्-प्रत्ययः]
→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ वैनता + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ वैनत् + एय [एकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य आकारस्य लोपः]
→ वैनतेय

3. इकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -
अत्रि + ढक् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे इतश्चानिञः 4|1|122 इत्यनेन ढक्-प्रत्ययः]
→ अत्रि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः]
→ आत्रि + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ आत् र् + एय [एकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य इकारस्य लोपः]
→ आत्रेय

4. ईकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -
"इदम्" अस्य शब्दस्य वतुप्-प्रत्यये कृते इयम् प्रक्रिया जायते -
इदम् + घत् [किमिदम्भ्याम् वो घः 5|2|40 इत्यनेन इदम्-शब्दस्य वतुप्-प्रत्ययः , तस्य वकारस्य अननैव सूत्रेण घकारादेशः]
→ इदम् + इयत् [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|2|2 इत्यनेन घकारस्य इय्-आदेशः]
→ ई + इयत् [इदम्किमोः ईश्की 6|3|90 इत्यनेन इदम्-शब्दस्य ई-आदेशः । अनेकाल् शित् सर्वस्य 1|1|55 इति शित्वात् सर्वादेशः]
→ इयत् [ईकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति ईकारस्य लोपः]

इदानीम् ईकारे परे किम् भवति तत् पश्यामः । अस्मिन् सूत्रे प्रयुक्तम् "ईकार" इति निमित्तम् तद्धितभिन्नप्रत्ययस्य ईकारस्य निदर्शनम् करोति, यतः ईकारादौ तद्धितप्रत्यये परे तु तद्धितग्रहणनैव लोपः भवितुम् अर्हति - तदर्थम् ईकारग्रहणस्य आवश्यकता न । अतः अत्र केवलं तद्धितभिन्नानाम् प्रत्ययानाम् एव उदाहरणानि देयानि ।
तद्धितभिन्नः ईकारः भसंज्ञकात् अनन्तरम् केवलं द्वयोः स्थलयोः एव आगच्छति -
1. ङीप्/ङीष्/ङीन् - एतेषाम् स्त्रीप्रत्ययानाम् ईकारः तद्धितभिन्नः ईकारः अस्ति ।
2. नपुँसकस्य औ/औट्-प्रत्यययोः नपुँसकाच्च 7|1|19 इत्यनेन यः "शी" आदेशः भवति, अस्मिन् आदेशे तद्धितभिन्नः ईकारः अस्ति ।
अन्येषु प्रत्ययेषु परेषु (यथा - लकाराः / कृत् / सन् -आदयः) अङ्गस्य भसंज्ञा एव न भवति, अतः तेषाम् अत्र चिन्तनम् न करणीयम् ।

एताभ्याम् द्वाभ्याम् स्थलाभ्याम् शी-आदेशस्य विषये अस्य सूत्रस्य औङः श्यां प्रतिषेधो वाच्यः अनेन वार्तिकेन निषेधः कृतः अस्ति । (एतत् वार्तिकम् अधः स्पष्टीकृतम् अस्ति ।) अतः ई-प्रत्ययस्य उदाहरणानि केवलं ङीप्/ङीष्/ङीन्-एतेषु स्त्री-प्रत्ययेषु परेषु एव उपलभ्यन्ते ।

1. अकारान्तस्य अङ्गस्य ईकारे परे लोपः -
कुमार + ङीप् [वयसि प्रथमे 4|1|20 इत्यनेन कुमार-शब्दस्य ङीप्-प्रत्ययः ]
→ कुमार + ई [इत्संज्ञालोपः ]
→ कुमार् + ई [ईकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ कुमारी

2. इकारान्तस्य अङ्गस्य ईकारे परे लोपः -
दाक्षि + ङीष् [इतो मनुष्यजातेः 4|1|65 इत्यनेन स्त्रीत्वस्य विवक्षायाम् "ङीष्" प्रत्ययः]
→ दाक्षि + ई [इत्संज्ञालोपः ]
→ दाक्ष् + ई [एकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 इति अङ्गस्य अकारस्य लोपः]
→ दाक्षी

अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -

1. औङः श्यां प्रतिषेधो वाच्यः । इत्यक्ते, औ/औट्-प्रत्यययोः नपुँसकाच्च 7|1|19 इत्यनेन शी-आदेशे कृते अस्य सूत्रस्य प्रयोगः न भवति - इति । यथा, फल-शब्दस्य प्रथमा-द्वितीया-द्विवचनस्य प्रक्रिया इयम् -
फल + औ / औट्
→ फल + शी [नपुँसकाच्च 7|1|19 इति शी-आदेशः]
→ फल + ई [इत्संज्ञालोपः । ईकारे परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6|4|148 अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते]
→ फले [आद्गुणः 6|1|87 इति गुण-एकादेशः]

2. इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । यदि कस्मिंश्चित् स्थले अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन इयङ्/उवङ्-आदेशः विधीयते, तथा च यस्येति च 6|4|148 इत्यनेन लोपः अपि विधीयते; तर्हि विप्रतिषेधेन (परत्वात्) लोपः एव करणीयः । यथा - वत्सान् प्रीणाति सः "वत्सप्रीः" । अयम् ईकारान्त-पुँल्लिङ्गशब्दः अस्ति । अस्य शब्दस्य ढञ्-प्रत्यये परे इयम् प्रक्रिया जायते -

वत्सप्री + ढञ् [तस्यापत्यम् 4|1|92 अस्मिन् अर्थे चतुष्पाद्भ्यो ढञ् 4|1|135 इति ढञ्-प्रत्ययः]।
→ वत्सप्री + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|2|2 इत्यनेन ढकारस्य एय्-आदेशः]
→ वात्सप्री + एय [तद्धितेष्वचामादेः 7|2|117 इति उपधा-अकारस्य वृद्धिः आकारः]
→ वात्सप् र् + एय [ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन इयङ्/उवङ्-आदेशे च प्राप्ते ; तं परत्वात् बाधित्वा यस्येति च 6|4|148 इत्यनेन लोपः एव भवति ।]
→ वात्सप्रेय

ज्ञातव्यम् -
1. येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "यस्य भस्य" इत्युक्ते इकारान्तस्य / अकारान्तस्य भसंज्ञकस्य अङ्गस्य - इति अर्थः जायते ।
2. अनेन सूत्रेण विहितः लोपः अलोऽन्त्यस्य 1|1|52 इत्यनेन अन्तिम-वर्णस्य स्थाने भवति । अतः भसंज्ञकस्य अङ्गस्य अन्ते विद्यमानस्य इकारस्य / अकारस्य अयं लोपः भवति इति ज्ञायते ।
3. अस्य सूत्रस्य अर्थज्ञाने यथासङ्ख्यमुदेशः समानाम् 1|1|10 अस्य प्रयोगः न करणीयः, यतः अत्र विधिः तु एकः एव अस्ति । अतः द्वाभ्याम् कस्यापि स्थानिनः कस्मिन्नपि निमित्ते परे अयं लोपः विधीयते ।
4. यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया "ईति" इत्युक्ते "ईकारादि-प्रत्यये परे" इति अर्थः सिद्ध्यति ।
5. अस्मिन् सूत्रे "ईति" इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति । दीर्घवर्णेन सवर्णग्रहणम् न भवति, अतः अत्र तपरकरणस्य किमपि प्रयोजनम् न । अस्मिन् विषये अणुदित्सवर्णस्य चाप्रत्ययः 1|1|69 इत्यत्र अधिकम् द्रष्टव्यम् ।
One-line meaning in English
The अकार and इकार of a भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय or an ईकार.
काशिकावृत्तिः
इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्य ईकारे दाक्षी। प्लाक्षी। सखी। सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते दुलि दौलेयः। वलि वालेयः। अत्रि आत्रेयः। अवर्णान्तस्य ईकारे कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः। यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः। काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे कृते यस्य इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः 6|4|149 इति च लोपः प्राप्नोति। इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन। वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः। चतुष्पाद्भ्यो डञ् 4|1|135 इति ढञ्प्रत्ययः। लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः।
अत्र यस्येति यकारस्येदं ग्रहणं वा स्यात्, इवर्णावर्णयोर्वा? अत्र यदि यकारस्येदं ग्रहणं स्यात्, उत्तरसूत्रे पुनर्यग्रहणं न कुर्यात्, एतदेव हि तत्रानुवर्त्तिष्यते। तस्मादिवर्णावर्णयोरिदं ग्रहणम्। तत्र वर्णग्रहणं सर्वत्र तदन्तविधिं प्रयोजयतीति तदन्तविधिर्विज्ञायते--इत्यतच्चेतसि कृत्वाऽ‌ऽह--`इवर्णावर्णान्तस्य` इत्यादि। `दाक्षी, प्लाक्षी` इति। दाक्षिप्लाक्षिशब्दाभ्यां `इतो मनुष्यजातेः` 4|1|65 इति ङीष्। `सखी` इत्यत्रापि `सख्यशिआईति भाषायाम्` 4|1|62 इति निपातनात्। ननु चात्र सवर्णदीर्घत्वेनाप्येतत्? सिद्धम्, तत्? किमर्थमत्र लोप विधीयते? इत्यत आह--`सवर्णदीर्घत्वे हि` इत्यादि। `अतिक्रान्ता सखी एनम्` इति `प्रादिभ्यो धातुजस्य` (वा।101) इति बहुव्रीहिरुत्तरपदलोपश्च, उपसर्जनह्यस्वत्वम्। तत्र यदि सवर्णदीर्घत्त्वं क्रियेत, न तु लोपस्तदा सखीकारेकारयोरेकादेशः सखिशब्दस्यान्तवद्भवतीति `शेषो ध्यसखि` 1|4|7 इतचि धिसंज्ञायाः प्रतिषेधः स्यात्। ततश्चातिसखेरागनच्छतीति `घेङिति` 7|3|111 इति गुणो न स्यात्। लोपे सत्युपसर्जनह्यस्वत्वे सति यद्यपि प्रविशिष्टं रूपम्, तथापि लाक्षणिकम्। अतो लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) तन्न गृह्रत इति न भवति प्रतिषेधः। तस्माल्लोप एव कत्र्तव्यः। `दौलेयः` इत्युदाहरणत्रये `इतश्टचानिञः` 4|1|122 इत्यपत्यार्थे ढक्। `कुमारी इति। `वयसि प्रथमे` 4|1|20 इति ङीप्। `गौरी` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्। `शाङ्र्गरवी` इति। `शाङ्र्गरवाद्यञो ङीन्` 4|1|73 । `बालाकिः सौमित्रिः` इति। बालकसुमित्राभ्यां बह्वादित्वादिञ्। `यस्येत्यादौ` इति। आदिशब्देनोत्तरो विधिः परिगृह्रते। वक्तव्य इति व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा ङिश्योः` 6|4|136 इत्येतत्सूत्राद्विभाषाग्रहणं मण्डूकप्लुतिन्यायेनानुवत्र्तते, सा च व्यवस्थितविभाषा। तेन चानेन सूत्रेण लोपो विधीयते, यश्चोत्तरसूत्रेण, तावुभावपि न भवत इति। `काण्डे, कुडये` इति। `औङ आपः` 7|1|18 इति, `नपुंसकाच्च` 7|1|19 इति शोभाव इति, तत्र यस्येत्यकारलोपः प्राप्नोति। `सौर्ये` इति। `तेनैकदिक्` 4|3|112 इति सूर्यशब्दादण्, तदन्तादौङः शीभावः, तत्रानेनाकारलोपः प्राप्नोति, उत्तरसूत्रेम यकारलोपश्च। `इयङ्वङभ्याम्` इत्यादि। इयङुवङोरवकाशः--श्रियौ, श्रियः, भ्रुवौ भ्रुवः, लोपस्यावकाशः--कामण्डलेयः, माद्रबाहेय इति; वात्सप्रेयः, लैखाभ्रेय इत्यत्रोभयं प्राप्नोति, लोपो भवति विप्रतिषेधेन। `वत्सप्रीः` इति। क्विबन्तमेतत्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥औङः श्यां प्रतिषेधो वाच्यः (वार्तिकम्) ॥ ज्ञाने ॥
यस्येति च - यस्येति च । यस्य-ईतीति छेदः । इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः ।भस्ये॑त्यधिकृतम् । "नस्तद्धिते" इत्यतस्तद्धिते इत्यनुवर्तते । तदाह — भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति ।सुडनपुंसकस्ये॑ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः ।औङ श्यामिति । औङो यः श्यादेशस्तस्मिन् परतोयस्येति चे॑ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । "औङ्" इति तु व्यर्थमेव । "सर्वे" इत्यादौजसः शी॑त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः । ज्ञाने इति । ज्ञान ई इति स्थिते आद्गुण इति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः)। ज्ञाने॥
महाभाष्यम्
यस्येति च (3146) (सूत्रप्रयोजनभाष्यम्) इवर्णस्य-इर्ति किमुदाहरणम् ? हे दाक्षि, दाक्ष्या, दाक्षेयः । हे दाक्षि ‐ इर्ति ‐ -यदि लोपो न स्यात्परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वं प्रसज्येत । दाक्ष्या इति ‐ -यदि लोपो न स्यात्परस्य यणादेशे कृते पूर्वस्य श्रवणं प्रसज्येत । दाक्षेय इति ‐ -यदि लोपो न स्यात्परस्य लोपे कृते पूर्वस्य श्रवणं प्रसज्येत ।। (प्रयोजननिराकरणभाष्यम्) नैतानि सन्ति प्रयोजनानि । सवर्णदीर्घत्वेनाप्येतानि सिद्धानि ।। (प्रयोजनभाष्यम्) इदं तर्हि ‐ -अतिसखेरागच्छति, अतिसखेः स्वम् । यदि लोपो न स्यादुपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।। (6613 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।) - यस्येत्यादौ श्यां प्रतिषेधः - यस्येत्यादौ श्यां प्रतिषेधो वक्तव्यः । काण्डे, कुड्ये, सौर्ये नाम हिमवतः शृङ्गे । स तर्हि प्रतिषेधो वक्तव्यः । (उपसंख्यानानर्थक्यबोधकभाष्यम्) न वक्तव्यः । इह श्यामित्यपि प्रकृतं नेत्यपि । तत्राभिसम्बन्धमात्रं कर्तव्यम् ‐ -यस्येत्यादौ लोपो भवति, श्यां न ।। (6614 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 2 ।।) - इयङुवङ्भ्यां लोपो विप्रतिषेधेन - इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । इयङुवङोरवकाशः ‐ -श्रियौ, श्रियः । भ्रुवौ, भ्रुवः । लोपस्यावकाशः ‐ -कामण्डलेयः, भाद्रवाहेयः । इहोभयं प्राप्नोति ‐ -वात्सप्रेयः, लैखाभ्रेयः । लोपो भवति विप्रतिषेधेन ।। (6615 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।) - गुणवृद्धी च - गुणवृद्धी चेयङुवङ्भ्यां भवतो विप्रतिषेधेन । गुणवृद्ध्योरवकाशः ‐ -चेता, गौः । इयङुवङोः स एव । इहोभयं प्राप्नोति ‐ -चयनम्, चायकः । लवनम्, लावकः । गुणवृद्धी भवतो विप्रतिषेधेन ।। (6616 विप्रतिषेधप्रत्याख्यानवार्तिकम् ।। 4 ।।) - न वेयङुवङादेशस्यान्यविषयवचनात् - न वाऽर्थो विप्रतिषेधेन ।। किं कारणम् ? इयङुवङादेशस्यान्यविषये वचनात् । इयङुवङादेशोऽन्यविषये आरभ्यते । किं विषये ? यणादेशविषये । स यथैव यणादेशं बाधते, एवं गुणवृद्धी अपि बाधेत ।। (6617 प्रतिषेधोपसंख्यानवार्तिकम् ।। 5 ।।) - तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः - तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधो वक्तव्यः । (प्रतिषेधानर्थक्यबोधकभाष्यम्) न वक्तव्यः । मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमियङुवङादेशो यणादेशं बाधिष्यते, गुणवृद्धी न बाधिष्यते ।।