Page loading... Please wait.
6|4|147 - ढे लोपोऽकद्र्वाः
॥ तस्मै पाणिनये नमः ॥
6|4|147
SK 1142
ढे लोपोऽकद्र्वाः   🔊
सूत्रच्छेदः
ढे (सप्तम्येकवचनम्) , लोपः (प्रथमैकवचनम्) , अकद्र्‍वाः (षष्ठ्येकवचनम्)
अनुवृत्तिः
तद्धिते  6|4|144 (सप्तम्येकवचनम्) , ओः  6|4|147 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
ओः भस्य अङ्गस्य ढे तद्धिते लोपः अकद्र्वाः
सूत्रार्थः
"कद्रू" शब्दं विहाय अन्येषाम् उवर्णान्त-भसंज्ञकानाम् ढकारादौ तद्धितप्रत्यये परे लोपः भवति ।
उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे ओर्गुणः 6|4|146 इत्यनेन गुणः विधीयते । तस्य अपवादरूपेण ढकारादि-प्रत्यये परे भस्य अङ्गस्य अन्तिमवर्णस्य लोपः भवति । परन्तु "कद्रू" शब्दस्य विषये अयं लोपः न भवति ।

अत्र एकः विशेषः स्मर्तव्यः - ढकारे परे अङ्गस्य भसंज्ञा नैव भवति, परन्तु ढकारस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इत्यनेन "एय्" आदेशः यः विधीयते, तस्मिन् परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञा भवति ।

उदाहरणानि एतानि -

1. शीतबाहु + ढञ् [चतुष्पाद्भ्यो ढञ् 4|1|135 इति अपत्यार्थे ढञ्-प्रत्ययः । ञकारस्य इत्संज्ञा, लोपः]
→ शीतबाहु + एय [ढ= ढ् + अ । ढ् इत्यस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति एय्-आदेशः । एय् + अ = एय । एकारादौ प्रत्यये परे यचि भम् 1|4|18 इति अङ्गस्य भसंज्ञा]
→ शैतबाहु एय [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ शैतबाह् + एय [ओर्गुणः 6|4|146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6|4|147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]
→ शैतबाहेय

2. मद्रबाहु + ऊङ् [स्त्रीत्वं द्योतयितुम् मद्रबाहु-शब्दात् बाह्वन्तात्‌ संज्ञायाम् 4|1|67 इत्यनेन ऊङ्-प्रत्ययः]
→ मद्रबाहू + ढक् [स्त्रीभ्यो ढक् 4|1|120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]
→ मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः । यचि भम् 1|4|18 इति अङ्गस्य भसंज्ञा]
→ माद्रबाहू + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ माद्रबाहू + एय [ओर्गुणः 6|4|146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6|4|147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]
→ माद्रबाहेय

3. मृकण्डु + ढक् [शुभ्रादिभ्यश्च 4|1|123 इति सूत्रेण शुभ्रादिगणे उपस्थितानां शब्दानां ढक् प्रत्ययः भवति । आकृतिगणोऽयम् । अतः “मृकण्डु” शब्दस्य अस्मिन् गणे न स्थितेऽपि ढक् प्रत्ययः अनेन सूत्रेण विधीयते ।]
→ मृकण्डु + एय [आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् 7|1|2 इति ढ् वर्णस्य एय् आदेशः । यचि भम् 1|4|18 इति अङ्गस्य भसंज्ञा]
→ मार्कण्डु + एय [किति च 7|2|118 इति आदिवृद्धिः , उरण् रपरः 1|1|51 इति रपरः आकारः]
→ मार्कण्ड् + एय [ओर्गुणः 6|4|146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6|4|147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]
→ मार्कण्डेय

"कद्रू" इति दीर्घ-ऊकारान्त-स्त्रीलिङ्ग-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -

कद्रू + ढक् [स्त्रीभ्यो ढक् 4|1|120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः]
→ कद्रू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति ढकारस्य एय्-आदेशः । यचि भम् 1|4|18 इति अङ्गस्य भसंज्ञा]
→ काद्रू + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ काद्रो+ एय [ओर्गुणः 6|4|146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणः]
→ काद्रवेय [एचोऽयवायवावः 6|1|78 इति अवादेशः]
One-line meaning in English
The last letter of an उवर्णान्त-भसंज्ञक word is removed when followed by a ढकारादि-तद्धितप्रत्यय. But this does not happen for the word "कद्रू".
काशिकावृत्तिः
ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति। कामण्डलेयः। शैतवाहेयः। जांवेयः। माद्रबाहेयः। अकद्र्वाः इति किम्? काद्रवेयो मन्त्रम् अपश्यत्।
`कामण्डलेयः, शैतबाहेयः` इति। `चतुष्पाद्भ्यो ढञ्` 4|1|135 इति ढञ्। एवं `जाम्बेयः` इत्यत्रापि। `माद्रबाहेयः` इति। मद्रबाहुशब्दात्? `बाह्वन्तात्? संज्ञायाम्` 4|1|67 इत्यूङ, तदन्तात्? `स्त्रीभ्यो ढक्` 4|1|120 । `काद्रवेयः` इति। `कद्रूकमण्डल्वोश्छन्दसि संज्ञायाम्` (4.1.71,72) इत्यूङ तदन्तात्? पूर्ववङ्ढक्॥
मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्च्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । श्रृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ॥
सिद्धान्तकौमुदी
कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥
ढे लोपोऽकद्र्वाः - ढे लोपोऽकद्र्वाः । भस्येत्यधिकृतम् "ओर्गुणः" इत्यत ओरिति षष्ठन्तेनानुवृत्तेनविशेष्यते । तदन्तविधिः । तदाह — कद्रूभिन्नस्येति ।अलोऽन्त्यस्ये॑त्यन्त्यलोपः । ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि #एयादेशे आदिवृद्धावुकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह — कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एवकमण्डलुपदे आदधीते॑ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.