Page loading... Please wait.
6|4|146 - ओर्गुणः
॥ तस्मै पाणिनये नमः ॥
6|4|146
SK 847
ओर्गुणः  
सूत्रच्छेदः
ओः (षष्ठ्येकवचनम्) , गुणः (प्रथमैकवचनम्)
अनुवृत्तिः
तद्धिते  6|4|144 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
ओः भस्य तद्धिते गुणः
सूत्रार्थः
उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति ।
अस्मिन् सूत्रे प्रयुक्तः "ओः" इति शब्दः "उ" इत्यस्य षष्ठ्यैकवचनम् अस्ति । अनेन सूत्रेण उवर्णान्त-भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति । यथा -

1. बभ्रु + यञ् [मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 4|1|106 इति यञ्-प्रत्ययः । यकारादौ प्रत्यये परे अङ्गस्य यचि भम् 1|4|18 इति भसंज्ञा]
→ बाभ्रु + यञ् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः ]
→ बाभ्रो + यञ् [ओर्गुणः 6|4|146 इत्यनेन उकारस्य गुणः ओकारः]
→ बाभ्रव् + य [वान्तो यि प्रत्यये 6|1|79 इति ओकारस्य अव्-आदेशः]
→ बाभ्रव्य

2. उपगु + अण् [तस्यापत्यम् 4|1|92 इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य यचि भम् 1|4|18 इति भसंज्ञा]
→ औपगु अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ औपगो अ [ओर्गुणः 6|4|146 इत्यनेन उकारस्य गुणः ओकारः]
→ औपगव [एचोऽयवायावः 6|1|78 इति अव्-आदेशः]

ज्ञातव्यम् -
1. संज्ञापूर्वकः विधिः अनित्यः इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषाम् अवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते "अनित्याः" सन्ति इत्युच्यते । वर्तमानसूत्रे "गुण" संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति । "स्वायम्भुव" शब्दस्य प्रक्रियायाम् एतत् स्पष्टम् भवति -
→ स्वयम्भू + अण् [तस्यापत्यम् 4|1|92 इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य यचि भम् 1|4|18 इति भसंज्ञा]
→ स्वायम्भू + अण् [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ स्वायम्भुवङ् + अ [अत्र ओर्गुणः 6|4|146 इत्यस्य प्रसक्तिः अस्ति । तथापि संज्ञापूर्वकः विधिः अनित्यः अनया परिभाषया अत्र अयं गुणादेशः न प्रवर्तते । तस्य अभावे अचिश्नुधातुभ्रुवाम्... 6|4|77 इत्यनेन उवङ्-आदेशः विधीयते]
→ स्वायम्भुव

2. ढकारादि-प्रत्यये परे वर्तमानसूत्रेण गुणे प्राप्ते अपवादत्वेन ढे लोपोऽकद्र्वाः 6|4|147 इत्यनेन अङ्गस्य अन्तिमवर्णस्य लोपः भवति ।
One-line meaning in English
An उवर्णान्त भसंज्ञक undergoes a गुणादेश when followed by a तद्धितप्रत्यय.
काशिकावृत्तिः
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। परशव्यमयः। औपगवः। कापटवः। ओरोतिति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्, तेन स्वायम्भुवः इति सिद्धं भवति।
`बाभ्रष्यः` इति। `मधुबभ्व्रोब्र्राआह्रणकौशिकयोः` 4|1|106 इति बभ्रुशब्दादपत्यार्थे यञ्। `माण्डव्यः` इति। अत्रापि गर्गादित्वात्। `वान्तो यि प्रत्यये` 6|1|76 इत्यवादेशः। `शङ्कव्यम्` इत्यदौ `तस्मै हितम्` 5|1|5 इत्यस्मिन्नर्थे `उगवादिभ्यो यत्` 5|1|2 । `औपगवः, कापटवः` इति। अत्राप्यपत्यार्थेऽण्। तद्धित इत्येव--`वोतो गुणवचनात्` 4|1|44 इति ङीष्, पट्वी। `ओरोत्` इति वक्तव्ये` इत्यादि। एवमुच्यमाने लघु सूत्रं भवतीति भावः। `स्वायम्भुवः` इति। स्वयं भवतीति क्विप्--स्वयम्भूः, स्वयम्भुव इतमित्यण्। संज्ञापूर्वकस्य विधेरनित्यत्वादत्र गुमो न भवति, तस्मिश्चा सत्युवङेव क्रियते॥
बाभ्रव्यादौ गोत्रे यञ् । शङ्कव्यादौ प्राक्क्रीतीयः उगवादिभ्यो यत् । औपगवादावपत्येऽण् । संज्ञापूर्वको विधिरित्यादि । भाष्येऽनुक्तमपि प्रयोगो बाहुल्यादुक्तम् । तद्धितैत्येव - वोतो गुणवचनात्, पट्वी ॥
सिद्धान्तकौमुदी
उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
ओर्गुणः - ओर्गुणः । तद्धिते किम् । पठ्वी । वाय्वोः । गुणोक्तिरिति । यद्यपिओरो॑दिति सूत्रितेऽपिभस्य॒॑तद्धिते॑इत्येवंरूपसंज्ञापूर्वकत्वामस्त्येव, तथापि विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वको विधिरिति । भावः । यद्यपिओ॑दिति तपरस्तत्कालस्य संज्ञैव, तथापि इह तकार उच्चारणार्थः, तपरत्वे फलाऽभावात् । स॒ओरो॑इत्येव वाऽस्तु ।स्वं रूपं शब्दस्ये ति तु प्रत्याख्यातमिति भावः । स्यादेतत् — तपरस्तत्कालस्य संज्ञा भवतीतिगुरोरनृतः॑इति प्लुतनिषेधस्यापि संज्ञापूर्वकत्वेनाऽनित्यत्वात्क्लृ३प्तशिखेत्यत्र प्लुतसिद्धयेऋलृक् सूत्रे ऋकारात्पृथक् लृकारोपदेशो व्यर्थः । सावण्र्ये सत्यप्युक्तरीत्या लृकारस्य प्लुतसिद्धेरनित्यत्वज्ञापनस्य निष्फलत्वात् । न चैवमपि ऋदिताम्लृदित्कार्यम्लृदितामृदित्कार्यं च वारयितुमनित्य्त्वज्ञापनमावश्यकमिति वाच्यं, राजृभ्राजृग्म्लृशक्लृ इति पृथगनुबन्धकरणसाम्थ्र्यात्,नाग्लोपिशास्वृदिताम्लृदितः परस्मापदेषु॑ इति पृथगनुवादसामथ्र्याच्च तत्कार्याणामसार्ङ्क्यसिद्धेरिति चेदत्राहुः — -॒गुरोरनृतः॑इत्यनेन ऋद्भिन्नस्य गुरोः प्लुतविधानात्अनृतः॑इत्यतदनूद्यमानगुरुविशेषणत्वेनानुवादरूपमेव, न तु विधेयसमर्पकसंज्ञारूपं पदमिति ऋस्थानिकप्लुतनिषेधस्याऽनित्यत्वाऽसिद्द्यक्लृ३प्तशिखेत्यत्र प्लुतो न सिध्यति, ततश्च तत्सि तत्सिद्द्यथमुक्तज्ञापनायोभयोपदेश आवश्यक इति । अन्ये तु — -ऋकारात्पृथग्लृकार उपदेष्टव्य एव, ऋकारोपदेशेन लृकारस्याऽलाभात् । न चऋलृवर्णयोर्भिथः सावप्र्य॑मिति वचनात्तल्लाभः शङ्क्यः । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेरित्याहुः ।
लघुसिद्धान्तकौमुदी
भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह (भस्याढे तद्धिते)। इति पुंवद्भावे कृते -।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.