यदि नकारान्त-भसंज्ञक-अङ्गात् परः तद्धितप्रत्ययः आगच्छति, तर्हि तस्य नकारान्तस्य भस्य यः टिसंज्ञकः, तस्य लोपः जायते । उदाहरणानि एतानि -
1. "उडुलोमन्" शब्दात् अपत्यार्थे
बाह्वादिभ्यश्च 4|1|96 इत्यनेन इञ्-प्रत्ययः भवति । तस्य प्रक्रिया इयम् -
उडुलोमन् + इञ् [अजादिप्रत्यये परे अङ्गस्य
यचि भम् 1|4|18 इति भसंज्ञा]
→ औडुलोमन् + इ [
तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ औडुलोम् + इ [
नस्तद्धिते 6|4|144 इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति]
→ औडुलोमि
2. "मद्रराजन्" इत्यस्य
राजाहस्सखिभ्यष्टच् 5|4|91 इत्यनेन समासान्ते टच्-प्रत्यये कृते -
मद्रराजन् + टच्
→ मद्रराजन् + अ [
नस्तद्धिते 6|4|144 इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति]
→ मद्रराज
3. "श्वनाम् समूहः" इत्यत्र "श्वन्" शब्दात्
खण्डिकादिभ्यश्च 4|2|45 इत्यनेन अञ्-प्रत्ययं कृत्वा इयम् प्रक्रिया जायते -
श्वन् + अञ्
→ शौवन् + अ [
द्वारादीनां च 7|3|4 इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ]
→ शौव् + अ [
नस्तद्धिते 6|4|144 इत्यनेन टिलोपः]
→ शौव
अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -
1.
नान्तस्य टिलोपे सब्रह्मचारि-पीठसर्पि-कलापि-कुथुमि-तैतिलि-जाजलि-लाङ्गलि-शिलालि-शिखण्डि-सूकरसद्म-सुपर्वणाम् उपसङ्ख्यानं कर्तव्यम् । इत्युक्ते, निम्निलिखियानाम् शब्दानाम् विषये अपि टिलोपः कर्तव्यः इति -
सब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन् जाजलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सुकरसद्मन्, सुपर्वन् ।
(अ) एतेषु ये शब्दाः इन्नन्ताः सन्ति, तेषाम् विषये
नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते
इन्यणपत्ये 6|4|164 इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । तस्य निषेधस्यापि निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानाम् अत्र निर्देशः कृतः अस्ति । उदाहरणानि एतानि -
- सब्रह्मचारिन् + अण् → साब्रह्मचार ।
- पीठसर्पिन् + अण् → पैठसर्प ।
- कलापिन् + अण् → कालाप ।
- कुथुमिन् + अण् → कौथुम ।
- तैतिलिन् + अण् → तैतिल ।
→ जाजलिन् + अण् → जाजल ।
- लाङ्गलिन् + अण् → लाङ्गल ।
- शिलालिन् + अण् → शैलाल ।
- शिखण्डिन् + अण् → शैखण्ड ।
(आ) "सुकरसद्मन्" तथा "सुपर्वन्" एतयोः विषये
नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । अस्य निषेधस्य निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानाम् अत्र निर्देशः कृतः अस्ति । यथा - सुकरसद्मन् + अण् → सौकरसद्म । सुपर्वन् + अण् → सौपर्वण ।
2.
अश्मनो विकारे उपसङ्ख्यानम् । इत्युक्ते,
तस्य विकारः 4|3|134 अस्मिन् अर्थे अश्मन्-शब्दात् अण्-प्रत्ययविधानं क्रियते चेत् अत्रापि टिलोपः कर्तव्यः । यथा -
अश्मन् + अण्
→ आश्मन् + अ [
तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ आश्म् + अ [
नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते ;
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]
→ आश्म
अन्येषु अर्थेषु तु
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः "आश्मन" इति प्रातिपदिकं सिद्ध्यति ।
3.
चर्मणः कोषे उपसङख्यानम् । इत्युक्ते,
तस्य इदम् 4|3|120 अस्मिन् अर्थे चर्मन् शब्दात् कोशं दर्शयितुम् अण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा -
चर्मन् + अण्
→ चार्मन् + अण् [
तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ चार्म् + अण् [
नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते ;
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]
→ चार्मः कोषः ।
अन्येषु अर्थेषु तु
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः "चार्मण" इति प्रातिपदिकं सिद्ध्यति ।
4.
शूनः सङ्कोचे उपसङ्ख्यानम् । इत्युक्ते,
तस्य विकारः 4|3|134 अस्मिन् अर्थे "श्वन्" शब्दात् अवयवानाम् सङ्कोचनम् दर्शयितुम् अण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा -
श्वन् + अण्
→ शौवन् + अ [
द्वारादीनां च 7|3|4 इति ऐच्-आगमः]
→ शौव् + अ [
नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते ;
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ]
→ शौव ।
अन्येषु अर्थेषु तु
अन् 6|4|167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः "शौवन" इति प्रातिपदिकं सिद्ध्यति ।
5.
अव्ययानां च सायंप्रातिकाद्यर्थम् उपसङ्ख्यानम् । इत्युक्ते, केषाञ्चन अव्ययानां विषये यद्यपि टिलोपस्य प्रसक्तिः नास्ति, तथापि प्रयोगे टिलोपं कृत्वैव रूपं प्रयुक्तं दृश्यते । एतादृशेषु शब्देषु प्रयोगम् अनुसृत्य यथायोग्यं टिलोपः कर्तव्यः । (एतेषाम् सर्वेषाम् आवली "सायंप्रातिकादयः" नाम्ना ज्ञायते, अतः अस्मिन् सूत्रे "सायंप्रातिकाद्यर्थम्" इति उच्यते । यथा -
- सायंप्रातर् + ठञ् → सायंप्रातिक । अत्र टिलोपः केनापि सूत्रेण न विधीयते, परन्तु कृतः दृश्यते ।
- पुनःपुनर् + ठञ् → पौनपुनिक ।
- बहिस् + य → बाह्य ।
- कुतस्कुतस् + अण् → कौतस्कुत ।
ज्ञातव्यम् -
1. यदि नकारान्तम् अङ्गम् पदसंज्ञकम् अस्ति तर्हि वर्तमानसूत्रस्य प्रसक्तिः न वर्तते । यथा, "पञ्चन् + कृत्वसुँच्" इत्यत्र अङ्गस्य पदसंज्ञा भवति, अतः
नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपं कृत्वा "पञ्चकृत्वः" इति शब्दः सिद्ध्यति ।
2. अस्य सूत्रस्य प्रसक्तिः तद्धितप्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, "राजन् + टा" इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः "टा" अयम् तद्धितप्रत्ययः नास्ति ।