Page loading... Please wait.
6|4|137 - न संयोगाद्वमन्तात्‌
॥ तस्मै पाणिनये नमः ॥
6|4|137
SK 355
न संयोगाद्वमन्तात्‌   🔊
सूत्रच्छेदः
(अव्ययम्) , संयोगात् (पञ्चम्येकवचनम्) , वमन्तात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
अनः  6|4|134 (षष्ठ्येकवचनम्) , अत्-लोपः  6|4|134 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
वमन्तात् संयोगात् अनः भस्य अङ्गस्य अत्-लोपः न
सूत्रार्थः
यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य "अन्" इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति।
अल्लोपोऽनः 6|4|134 इत्यनेन अन्-अन्तस्य भसंज्ञकस्य अकारस्य लोपः विधीयते । परन्तु यदि "अन्" इत्यस्मात् पूर्वम् मकारान्तसंयोगः वकारान्तसंयोगः वा विद्यते तर्हि अस्य लोपस्य प्रतिषेधः भवति ।

यथा - "आत्मन्" अस्मिन् शब्दे "अन्" इत्यस्मात् पूर्वम् "त्म्" अयं मकारान्तसंयोगः अस्ति । अतः "आत्मन् + टा" इत्यत्र आत्मन्-शब्दस्य भसंज्ञायां सत्याम् अपि मकारात् उत्तरस्य अकारस्य लोपः न भवति । अतः "आत्मना" इति रूपं सिद्ध्यति । तथैव यज्वन् + शस् → यज्वनः, ब्रह्मन् + टा → ब्रह्मणा, कर्मन् + ङि = कर्मणि - एतानि रूपाणि अपि सिद्ध्यन्ति ।

यत्र संयोगः नास्ति, वा संयोगः अस्ति परन्तु मकारान्त/वकारान्तसंयोगः नास्ति, तत्र अयं प्रतिषेधः न भवति, अतः अकारस्य लोपे कृते एव रूपं सिद्ध्यति । यथा -
(संयोगस्य अभावः) - राजन् + टा → राज् न् + टा → राज्ञा ।
(मकारान्त/वकारान्तसंयोगस्य अभावः) - मूर्धन् + टा → मूर् ध् न् + टा → मूर्ध्ना ।
One-line meaning in English
For a भसंज्ञक अङ्ग which ends in an "अन्", and also contains a मकारान्त / वकारान्त संयोगवर्ण before this अन्, the "अ" of अन् does not get omitted.
काशिकावृत्तिः
वकारमकारान्तात् संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। संयोगातिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तातिति किम्? तक्ष्णा। तक्ष्णे।
`प्रति दीव्ना` इति। `हलि च` 8|2|77 इति दीर्घः। अथान्तग्रहणं किमर्थम्, न `दमः` इत्येवोच्येत, वकारमकाराभ्यां संयोगेन विशिष्यमाणेन च तदन्तविधिर्भवतीत्यन्तरेणाप्यन्तग्रहणं तदन्तविधिर्लभ्यत एव? सत्ययेतत्, विस्पष्टार्थमन्तग्रहणम्॥
स्याद्वकारमकाराभ्यां संयोगस्य विशेषणात् तदन्तविधिरत्रेति विस्पष्टार्थमन्तग्रहकण् ॥
सिद्धान्तकौमुदी
वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥
न संयोगाद्वमान्तात् - शसि अल्लोपे प्राप्ते — न संयोगाद्वमन्तात् । वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः । "अल्लोपोऽन" इत्यनुवर्तते । तदाह — वकारेत्यादिना । अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति । यज्वने । यज्वनः २ । यज्वनोः २ । भ्यामादौ हलि राजवदित्यर्थः । मान्तसंयोगस्योदाहरणमाह — ब्राहृण इति । शसादावचि नाऽल्लोपः । शेषं राजवदिति भावः ।वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप् । कपावितौ । अपृक्तलोपः । उपपदसमासः । "सुपो धातु" इत्यमो लुक्, वृत्रहन्शब्दः । तस्मात्सुबुत्पत्तिः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
वमन्तसंयोगादनोऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.