Page loading... Please wait.
6|4|131 - वसोः सम्प्रसारणम्
॥ तस्मै पाणिनये नमः ॥
6|4|131
SK 435
वसोः सम्प्रसारणम्   🔊
सूत्रच्छेदः
वसोः (षष्ठ्येकवचनम्) , सम्प्रसारणम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
वसोः भस्य अङ्गस्य सम्प्रसारणम्
सूत्रार्थः
वस्वन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति ।
"वस्वन्त" इत्युक्ते यस्य अन्ते "वस्" प्रत्ययः अस्ति सः । यद्यपि अस्मिन् सूत्रे "वसोः" इति उक्तम् अस्ति, तथापि तदन्तविधिना वस्वन्तस्यापि ग्रहणं भवति ।

सूत्रपाठे द्वयोः स्थलयोः वस्-प्रत्ययः विधीयते ।
1. विदेः शतुर्वसुः 7|1|36 इत्यनेन विद्-धातोः परस्य शतृ-प्रत्ययस्य वस्-आदेशः भवति ।
2. क्वसुश्च 3|2|107 अनेन लिट्-लकारस्य छन्दसि विषये "क्वसु" आदेशः विधीयते । अत्र ककार-उकारयोः इत्संज्ञा भवति, अतः दृश्यरूपेण वस्-प्रत्ययः एव जायते ।

एतादृशः वस्-प्रत्ययान्तम् यत् भसंज्ञकम् अङ्गम्, तस्य वकारस्य सम्प्रसारणम् भवति । इग्यणः सम्प्रसारणम् 1|1|45 इत्यनेन वकारस्य सम्प्रसारणरूपेण उकारः जायते । यथा -

1) "विद्वस्" अयं वस्-प्रत्ययान्तशब्दः । तस्य तृतीयैकवचनस्य रूपसिद्धिः इयम् -
विद्वस् + टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् 1|4|18 इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]
→ विद् उ अ स् + आ [वसोः सम्प्रसारणम् 6|4|131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणम् उकारः]
→ विद् उ स् + आ [सम्प्रसारणाच्च 6|1|108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः]
→ विदुषा [आदेशप्रत्यययोः 8|3|59 इति सकारस्य षकारः]

2) "सेदिवस्" अयं क्वसु-प्रत्ययान्तशब्दः । "सद्" धातोः क्वसु-प्रत्यये कृते अयं प्रातिपदिकं सिद्ध्यति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् -
सेदिवस् टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् 1|4|18 इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।]
→ सेद् उ अ स् आ [वसोः सम्प्रसारणम् 6|4|131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणम् उकारः । सम्प्रसारणकारणं दृष्ट्वा इडागमः अकृतव्यूहाः पाणिनीयाः अनया परिभाषया विनश्यति । ]
→ सेद् उ स् आ [सम्प्रसारणाच्च 6|1|108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः]
→ सेदुषा [आदेशप्रत्यययोः 8|3|59 इति सकारस्य षकारः]
One-line meaning in English
A भसंज्ञक अङ्ग ending in a वसुँ प्रत्यय undergoes सम्प्रसारणम्.
काशिकावृत्तिः
वस्वन्तस्य भस्य सम्प्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषः। पश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वम् न भवति। वसुग्रहणे क्वसोरपि ग्रहणम् इष्यते।
प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तस्य कार्यं विज्ञायत इत्याह--`वस्वन्तस्य, इत्यादि। `विदुषः` इति। `विदेः शतुर्वसुः` 7|1|36 । `पेचषः` इति। `क्वसुश्च` 3|2|107 इति लिटः क्वमुः, `अत एकहल्मध्ये` 6|4|120 इत्यादिनैत्तवाभ्यासलोपौ। `पपुषः` इति। `आतो लोप इटि च` 6|4|64 इत्याकारलोपः। ननु चाकारलोपे कत्र्तव्ये सम्प्रसारणमसिद्धम्, तत्? कुतोऽत्राकारलोपः? इत्याह--`आकारलोपे कत्र्तव्ये` इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्, अतो नास्त्यसिद्धत्वम्। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति, `तदनुबन्धकग्रहणे नातदनुबन्धकस्य` (व्या।प।54) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्, तत्? कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह--`वसुग्रहणे` इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्। उकारानुबन्धस्य ह्रेतदेव फलम्--इह सामान्येन ग्रहणं यथा स्यात्। ननु चोगत्त्वार्थं तत्? स्यात्? नैतत्; उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्॥
पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ । कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्यएतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ॥
सिद्धान्तकौमुदी
वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं (कौमुदी-334)इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । [(परिभाषा - ) अकृतव्यूहा] इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः (कौमुदी-317) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥
वसोः सम्प्रसारणम् - शसादावचि विशेषमाह — वसोः संप्रसारणं । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं । तदाह — वस्वन्तस्येति । पूर्वेति । शसि वकारस्य उत्वे विदु अस् इति स्थिते,संप्रसारणाच्चे॑ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः । "षत्वतुकोरसिद्ध" इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः । सुपि दत्वे चत्र्वम् । विद्वत्सु । सेदिवानिति ।षद्वलृ विशरणगत्यवसादनेषु॑धात्वादेः षः सः॑,भाषायां सदवसश्रुवः॑ इति लिटः क्वसुः, उकावितौ, "लिटि धातोः" इति द्वित्वं, हलादिशेषः, "अत एकहल्मध्ये" #इत्येत्त्वाभ्यासलोपौ,वस्वेकाञाद्धसा॑मिति इट् । सेदिवस्शब्दः । ततः सुः, उगित्त्वान्नुम्, "सान्तमहतः" इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः । सेदिवांसाविति । नुमि "सान्तमहतः" इति दीर्घः । ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसिवसोः संप्रसारण॑मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि "सेद्युषः" इति स्यात् । ततश्च "सेदुषः" इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह — अन्तरङ्गोऽपीति । अकृतेति । भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् "लोपो व्योः" इति लोपे "सेदुष" इति रूपं सिद्धम् । नचनाजानन्तर्ये बहिष्ट्वप्रक्लृप्ति॑रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ "सेदुष" इति निर्बाधं ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायात् । किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति "सेदुषः" इति निर्बाधमित्याहुः । इत्यादीति । सुपि — सेदिबत्सु । "हिसिं हिंसायाम्" इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न,नश्चे॑त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । नापिसर्वनामस्थाने चे॑ति दीर्घः । निमित्तापायादनुस्वारनिवृत्तिः । सुहिन् इति सौ रूपं वक्ष्यति । तत्र "सान्तमहतः" इति दीर्घमाशङ्क्य आह — सान्तेति । सुहिन्भ्यामिति । "स्वादिषु" इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः । सुबिन्स्विति । संयोगान्लोपेऽनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः । क्विप्, अनुस्वारस्याऽसिद्धत्वात् " अनिदिताम्" इति नलोपः । सोर्लोपः । "वसुरुआंसु" इति दत्वम् । "वाऽसाने" इति चत्र्वविकल्प इति भावः । एवमिति । "रुआंसु अवरुआंसने" क्विबादि पूर्ववदिति भावः । "पूञ्पवने" अस्मात् "पूञो डुम्सुन्" इति उणादिसूत्रेण डुम्सुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामथ्र्यादभस्यापि टेर्लोपः । पुंस्शब्दात्सुबुत्पत्तिः ।
वसोः सम्प्रसारणम् - वसोः । प्रत्ययग्रहणे तदन्तग्रहणमित्याह — वस्वन्तस्येति । सेदिवानिति ।भाषायां सदवसश्रुवः॑इति लिटः क्वसुः ।लिटि धातो॑रितिद्वित्वम्,हलादिः शेषः॒॑अत एकहल्मध्ये॑इत्येत्वाभ्यासलोपौ ।वस्वेकाजाद्धसा॑मितीट् । नुम् ।सान्ते॑ति दीर्घः । सेदुष इति । ननुतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयाविदेः शतुर्वसु॑रित्यस्यैव वसोः संप्रसारणं युक्तं, न तु क्वसोः । सत्यम् । वसोरुकारानुबन्धकरणं क्वसोः सामान्यग्रहणार्थम् । उगित्त्वस्य स्थामिवद्भावेनाऽपि सिद्धेः । इह गमिप्रभृतिभ्यः क्वसुर्नोदाह्मतः, छान्दसत्वात् । अतएव वैदिकप्रक्रियायां॒तस्थिवान्जग्निवान्इत्याद्युदाहर्तव्यं नाऽत्रेत्याहुः । कवयस्तु प्रयुञ्जते — ॒श्रेयांसि सर्वाण्यधिजग्मुषस्ते॑ ।तं तस्थिवांसं नगरोपकण्ठे॑इत्यादि । अत्र वदन्ति — छान्दसा अप् ।येके पद्ददादय इव क्वचिद्भाषायां भवन्ति,मासश्छन्दसी॑त्यस्य सामान्यापेक्षज्ञापकत्वाश्रयणा[दिति]कथंचित्सामाधेयमिति । सुहिनिति । संयोगान्तलोपस्याऽसिद्धत्वान्नोपधादीर्घः । सुहिन्त्स्विति ।नश्चे॑ति सस्य वा धुट् । ध्वसत इति ध्वत् । रुआंसत इति रुआत् ।॒रुआसु ध्वंसु अवरुआंसने॑ध्वंसु गतौ याचने चे॑त्याभ्यां क्विप् ।अनिदिता॑मिति नलोपः ।वसुरुआसु॑इति दत्वम् ।
लघुसिद्धान्तकौमुदी
वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.