Page loading... Please wait.
6|4|13 - सौ च
॥ तस्मै पाणिनये नमः ॥
6|4|13
SK 357
सौ च   🔊
सूत्रच्छेदः
सौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
इन्-हन्-पूष-अर्यम्णाम्  6|2|12 (षष्ठीबहुवचनम्) , दीर्घः  6|3|111 (प्रथमैकवचनम्) , उपधायाः  6|4|7 (षष्ठ्येकवचनम्) , सर्वनामस्थाने  6|4|8 (सप्तम्येकवचनम्) , असम्बुद्धौ  6|4|8 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
इन्-हन्-पूष-अर्यम्णाम् अङ्गस्य असम्बुद्धौ सौ सर्वनामस्थाने च उपधायाः दीर्घः
सूत्रार्थः
इन्नतशब्दाः, हन्-शब्दः, पूषन्-शब्दः, तथा अर्यमन्-शब्दः एतेषां अङ्गस्य प्रथमा-एकवचनस्य सर्वनामस्थानसंज्ञके सुँ-प्रत्यये परे अपि उपधादीर्घः भवति ।
हन् (= हन्ति सः), पूषन् (= सूर्यः), अर्यमन् (= सहचरः) एतेषां शब्दानाम्, तथा "इन्" येषाम् अन्ते अस्ति तादृशानाम् शब्दानाम् सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन सम्बुद्धिं विहाय अन्येषु सर्वेषु सर्वनामस्थानपरेषु अङ्गस्य दीर्घे प्राप्ते इन्हन्पूषार्यम्णां शौ 6|4|9 इत्यनेन केवलं शि-प्रत्यये परे एव उपधादीर्घः नियम्यते । वर्तमानसूत्रेण अयम् उपधादीर्घः पुँल्लिङ्ग-स्त्रीलिङ्ग-शब्दानां विषये प्रथमा-एकवचनस्य सुँ-प्रत्यये परे अपि भवति ।

यथा - शशिन् + सुँ इत्यत्र प्रक्रिया इयम् अस्ति -

शशिन् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ शशिन् [हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ शशीन् [प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन सुँ-प्रत्ययस्य लोपे अपि तस्य लक्षणम् विधीयते । अतः सौ च __6।413__ इत्यनेन अङ्गस्य उपधायाः दीर्घः प्रवर्तते ]
→ शशी [नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन नकारलोपः]

तथैव हन्-शब्दस्य प्रथमैकवचनम् "हा" इति भवति , पूषन्-शब्दस्य "पूषा" इति भवति, तथा अर्यमन्-शब्दस्य "अर्यमा" इति भवति । सर्वत्र उपधादीर्घः सौ च 6|4|13 इत्यनेन क्रियते ।

ज्ञातव्यम् -

1. पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया अस्य सूत्रस्य प्रसक्तिः तेषां शब्दानां विषये अपि विद्यते येषाम् अन्ते "हन्", "पूषन्" उत "अर्यमन्" एते शब्दाः वर्तन्ते । यथा, "वृत्रहन्", "बहुपूषन्", "बह्वर्यमन्" आदयः । अतः "वृत्रहन् + सुँ → वृत्रहा" इति रूपं सिद्ध्यति ।

2. नपुँसकलिङ्गस्य प्रथमैकवचने अस्य सूत्रस्य प्रसक्तिः नास्ति यतः नपुँसकात् परस्य सुँ-प्रत्ययस्य सर्वनामस्थानसंज्ञा एव न भवति । यथा - दण्डिन् इति नकारान्त-नपुँसकलिङशब्दस्य प्रथमैकवचनम् "दण्डि" इत्येव जायते ।

3. सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अस्य सूत्रस्य प्रसक्तिर्नास्ति, केवलं प्रथमैकवचनस्य सुँ-प्रत्यये परे एव अस्य प्रसक्तिः अस्ति । यथा - शशिन् + सुँ = शशिन् - इत्यत्र उपधादीर्घः न भवति ।
One-line meaning in English
For the words हन्, पूषन् and अर्यमन्, and for also the words that end in "इन्", the उपधादीर्घ happens in case of the सुँ-प्रत्यय of प्रथमा-एकवचन.
काशिकावृत्तिः
सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णाम् उपधाया दीर्घो भवति। दण्डी। वृत्रहा। पूषा। अर्यमा। असम्बुद्धौ इति किम्? हे दण्डिन्। हे पूषन्। हे अर्यमन्।
पूर्वेण नियमेन सौ दीर्घत्वं न प्राप्नोतीति विध्यर्थोऽयमारम्भः। चकार इन्प्रभृतीनामनुकर्षणार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे (कौमुदी-307) इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥
सौ च - सौ च । पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्तं तच्च । तदाह — इन्नादीनामिति । असम्बुद्धाविति ।सर्वनामस्थाने चे॑त्यतस्तदनुवृत्तेरिति भावः ।इन्हन्पूषे॑त्यस्यायमपवादः । हे वृत्रहन्निति ।असम्बुदधा॑वित्यनुवृत्तेर्न दीर्घः । भिन्नपदत्वादाह — एकाजिति । वृत्रहणावित्यादि । शावेवेति नियमान्न दीर्घः । शसादावचि अल्लोपे कृते- ।
सौ च - सौ चेति ।शिस्वो॑रिति वक्तव्ये योगविभाग उत्तरार्थः । वृत्रहेति । वृत्रं हतवान् ।ब्राहृभ्रूणे॑ति क्विप् ।
लघुसिद्धान्तकौमुदी
इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥
महाभाष्यम्
सौ च (3011) (6512 दोषाक्षेपवार्तिकम् ।। 1 ।।) - हनः क्वावुपधादीर्घत्वप्रसङ्गः - हनः क्वावुपधालक्षणं दीर्घत्वं प्राप्नोति ‐ -अनुनासिकस्य क्विझलोः क्ङिति (15) इति, तस्य प्रतिषेधो वक्तव्यः ।। (आक्षेपनिरासभाष्यम्) वृत्रहणौ, वृत्रहण इति ‐ -नियमवचनात्सिद्धम् । इन्हन्पूषार्यम्णां शौ सौ च इत्येतस्मान्नियमवचनाद्दीर्घत्वं न भविष्यति ।। (6513 नियमाक्षेपवार्तिकम् ।। 2 ।।) - नियमवचनात्सिद्धमिति चेत्सर्वनामस्थानप्रकरणे नियमवचनादन्यत्रानियमः - नियमवचनात्सिद्धमिति चेत्सर्वनामस्थानप्रकरणे नियमवचनादन्यत्र नियमो न प्राप्नोति । क्वान्यत्र ? ब्रह्महणि, भ्रूणहनि । नियमवचनात्सिद्धमिति चेदिति ।। एवं तर्हि ‐ - (नियमस्वरूपदर्शकं श्लोकवार्तिकम्) दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् । दीर्घविधिर्य इहेन्प्रभृतीनां तं सर्वनामस्थाने विनियम्य । इन्हन्पूषार्यम्णां सर्वनामस्थाने दीर्घो भवति । किमर्थमिदम् ? नियमार्थम् । इन्हन्पूषार्यम्णां सर्वनामस्थान एव, नान्यत्र ।। (नियमस्वरूपदर्शकं श्लोकवार्तिकम्) शौ नियमं पुनरेव विदध्यात् ततः ‐ शौ । शावेव सर्वनामस्थाने नान्यत्र । ततः ‐ -सौ । सावेव सर्वनामस्थाने नान्यत्र ।। (नियमसाधकं श्लोकवार्तिकम्) भ्रूणहनीति तथाऽस्य न दुष्येत् ।। 1 ।। तथाऽस्य भ्रूणहनीति न दोषो भवति ।। (नियमे प्रकारान्तरदर्शकं श्लोकवार्तिकम्) शास्मि निर्वत्य सुटीत्यविशेषे शौ नियमं कुरु वाऽप्यसमीक्ष्य । अथवा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमं वक्ष्यामि ‐ -इन्हन्पूषार्यम्णां शावेव । ततः ‐ -सौ, सावेव ।। (नियमाक्षेपभाष्यम्) इहापि तर्हि नियमान्न प्राप्नोति ‐ -इन्द्रो वृत्रहायते ।। (आक्षेपनिरासे श्लोकवार्तिकम्) दीर्घविधेरुपधानियमान्मे हन्तियि दीर्घविधौ च न दोषः ।। 2 ।। उपधालक्षणदीर्घत्वस्य नियमः, नचैतदुपधालक्षणं दीर्घत्वम् ।। (प्रकारान्तरेणाक्षेपनिरासे श्लोकवार्तिकम्) सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे । अथवाऽनुवर्तमाने सर्वनामस्थानप्रकरणेऽनवकाशः शौ नियमोऽप्रकृतस्यापि दीर्घत्वस्य नियामको भविष्यति । कथम् ? (नियमसंपादकं श्लोकवार्तिकम्) यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ।। 3 ।। यस्य हि शिसर्वनामस्थानं, न तस्य सुट् । यस्य च सुट्सर्वनामस्थानं, न च तस्य शिः । तत्र सर्वनामस्थानप्रकरणे नियम्यं नास्तीति कृत्वाऽविशेषेण शौ नियमो विज्ञास्यते ।। (संग्रहः) दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् । शौ नियमं पुनरेव विदध्यात् भ्रूणहनीति तथाऽस्य न दुष्येत् ।। 1 ।। शास्मि निर्वत्य सुटीत्यविशेषे शौ नियमं कुरु वाऽप्यसमीक्ष्य । दीर्घविधेरुपधानियमान्मे हन्तियि दीर्घविधौ च न दोषः ।। 2 ।। सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे । यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ।। 3 ।।