Page loading... Please wait.
6|4|127 - अर्वणस्त्रसावनञः
॥ तस्मै पाणिनये नमः ॥
6|4|127
SK 364
अर्वणस्त्रसावनञः   🔊
सूत्रच्छेदः
अर्वणः (षष्ठ्येकवचनम्) , तृ (लुप्तप्रथमान्तनिर्देशः) असौ (सप्तम्येकवचनम्) , अवनञः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अर्वनित्येतस्य अङ्गस्य तृ इत्ययम् आदेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति। अर्वन्तौ। अर्वन्तः। अर्वन्तम्, अर्वतौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम्। असौ इति किम्? अर्वा। अनञः इति किम्? अनर्वाणौ। अनर्वाणः। अनर्वाणं वृषभं मन्द्रजिह्वम्।
`त्` इत्ययमादेशो भवति` इति। `नानुबन्धकृतमनेकाल्त्वम्` (व्या।प।14) इत्यन्तस्य भवति; एकाल्त्वात्, कारस्यानुबन्धत्वात्। उकारस्यानुबन्धत्वात्? प्रथमैकवचनं सुशब्दो गृह्रते, तेन सप्तमीबहुवचने भवत्येव--अर्वत्स्वित। स च नञ उत्तरो न भवतीति चेदिति यत्? प्रकृतं तदिहापि सम्बध्यते। `अर्वन्तौ` इति। ऋकारस्योगित्कार्यार्थत्वात्? `उगिदचाम्` 7|1|70 इति नुम्। `अर्वति` इति। `उगितश्च` 4|1|6 इति ङीप्। `आर्वतम्` इति। अपत्यार्थविवक्षायामण्। ननु च नञिवयुक्तन्यायेन (व्या।प।65) सादृश्यात्? सोरन्यत्र विभक्तादेव भवितव्यम्? नैतत्; असाविति प्रसज्यप्रतिषेधोऽयम्। अत एव वृत्तिकृतोक्तम्--`सुश्चेत्? ततः परो न भवति` इति। अन्यथा सोरन्यो यः सुप्? स चेत्? ततः परो भवतीति ब्राऊयात्। अथापि पर्युदासः? एवमप्यदोषः; अनित्यत्वान्नञिवयुक्तपरिभाषायाः। अनित्यत्वन्तु तस्याः `ओषधेश्च विभक्तावप्रथमायाम्` 6|3|131 इत्यत्र विभक्तिग्रहणाद्विज्ञायते। यदि हि सा नित्या स्यात्, प्रथमापर्युदासेन विभरक्तावेव भविष्यतीति विक्तक्तिग्रहणं न कुर्यात्। कुर्वन्नपि तज्ज्ञापयति--अनित्येयं परिभाषेति॥
ऋकार उगित्कार्यार्थः तेन सर्वनामस्थाने नुम् भवति । स च नञ उतरो न भवतीति । चेदित्यनुषङ्गः । अर्वतीति उगित्वान्नान्तत्वाद्वा ङीप् । आर्वतमिति । तद्धितेऽपि भवति, असाविति प्रसज्यप्रतिषेधो न पर्युदासः, तेन नञिवयुक्तन्यायाभावाद्विभक्तेरेव ग्रहणं न भवति, तथा च सुश्चेत्परो न भवतीति प्रथमैकवचनस्य चात्र ग्रहणम्, न सप्तमीबहुवचनस्य, व्याख्यानात् ॥
सिद्धान्तकौमुदी
नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्थान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा । यज्ववत् ॥
अर्वणस्त्रसावनञः - तस्य सौ राजवद्रूपं मत्वाह — अर्वा । हे अर्वन्निति । अर्वणस्त्रासावनञः । तृ-असौ इति छेदः । न विद्यते नञ् यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतम् अर्वणा विशेष्यते । तदाह — नञा रहितस्येत्यादिना । ऋकार इत् ।अलोऽन्त्यस्ये॑ति नस्य तः । उगित्त्वान्नुमिति ।उगिदचा॑मित्यनेनेति भावः । अर्वन्ताविति । नुमो नस्यनश्चापदान्तस्ये॑ति अनुस्वारः, परसवर्ण इति भावः । शसादावचि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-अर्वत इति । अर्वद्भ्यामिति । "स्वादिषु" इति पदत्वाज्जश्त्वमिति भावः । इत्यादीति । अर्वद्भिः । अर्वते । अर्वद्भ्यः । अर्वतः अर्वतोः अर्वताम् । अर्वति । अर्वत्सु । अनञः किमिति । "अनञः" इत्यस्य किं प्रयोजनमित्यर्थः । अनर्वा यज्ववदिति । अनर्वन्शब्दो यज्ववदित्यर्थः । शसादावचिन संयोगाद्वमन्ता॑दित्यल्लोपो नेति बावः । पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः ।
अर्वणस्त्रसावनञः - अर्वणस्तृ ।॒अङ्गस्ये॑ति वर्तते, तच्चाऽर्वणा विशेष्यते,अनञ॑इत्यनेनापि, तदाह — नञा रहितस्येत्यादि ।असा॑विति परयुदासे विभक्तौ परत एव स्यात्, ततश्चाऽर्वतीत्यादौ न स्यादित्याशयेनाह — न तु साविति । नचैवमर्वप्रिय इत्यादावतिप्रसङ्गः, अङ्गेन स्वनिमित्तस्य प्रत्ययस्याऽ‌ऽक्षेपाल्लुका लुप्तत्वेनाऽत्र प्रत्ययलक्षणाऽभावात् । एतेनवाहैरलुप्यत सहस्त्रगर्वगर्वः॑इति श्रीहर्षप्रयोगो व्याख्यातः । नन्वेवं,स्थानिवदादेशः॑इति सूत्रेधात्वङ्गकृत्तद्धिताब्ययसुप्तिङ्पदादेशाः स्थानिवत्स्यु॑रिति प्राचो ग्रन्थमनूद्य — -॒तत्क परिगणनुदाहरणमात्रं वे ति विकल्प्य,॒नान्त्यः, अब्ययस्याङ्गपदाभ्यां पृथग्ग्रहणवैयथ्र्या॑दिति मनोरमायां यदुक्तं तत्कथं सङ्गच्छेत, अव्ययस्योक्तिरीत्याऽनङ्गत्वात् । न चन लुमते॑त्यनेनाऽङ्गकार्यनिषेधेऽप्यङ्गसंज्ञाया अनिषेधान्नोक्तदोष इति वाच्यम्, प्रत्यये परतः पूर्वस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वंन लुमते॑त्यनेन निषिध्यते इथियङोऽचु चे॑ति सूत्रस्थमनोरमाग्रन्थपर्यालोचनया लुमताशब्देन लुप्तेऽङ्गसंज्ञाया अप्यस्वीकार्यत्वात् । तस्या अपि प्रत्यये परतः पूर्वस्य कार्यत्वात् । यदि तु लुका लुप्तेऽप्यङ्गत्वं स्वीक्रियते, तदाऽयं ग्रन्थोयचि भं॒॑वृषण्वस्वआयो॑रित्यत्रवृष वर्षुकं॑वसु धनं यस्य वृषण्वसु, वृषा अआओ यस्य वृषणआ॑इत्युदाह्मत्म भत्वादिह नलोपो न भवति, अल्लोपस्तु अनङ्गत्वान्नेट॑ति मूले वैदिकप्रक्रियायां वक्ष्यमाण ग्रन्थेन सह विरुध्यते । नचअल्लोपोऽनः॑इत्यत्रा॒ऽङ्गावयवोऽसर्वमानस्थानयजादिस्वादिपरो योऽ॑निति व्याख्यानादल्लोपस्य तत्र प्राप्त्यभावादनाङ्गत्वादिति समाधानं व्यर्थमिति भ्रमितव्यम्, भसंज्ञयैवयजादिस्वादिपरोयोऽ॑निति व्याख्यानावद्वस्वआयोः परतो योऽनिति व्याख्यानस्यापि लभात् । तस्मात्पदात्पृथगित्येव वक्तव्ये अङ्गपदाभ्यामित्यङ्गग्रहणं रभसकृतमेवेति चेदत्राहुः — ॒न लुमते॑ति सूत्रे लुमतालुप्ते तन्निमित्ताङ्गसंज्ञकस्य कार्यं नस्यादिति यदा व्याख्यायते, तदाअर्वणस्तृ॑इत्यद्यङ्गकार्याऽवृत्तावप्यङ्गसंज्ञाया निर्बाधत्वादङ्गग्रहणं तत्रत्यं सम्यगेव । यदात्वाङ्गमनाङ्गं वेत्यादिमनोरमाग्रन्थस्यानङ्गत्वादिति मूलग्रन्थस्य च स्वारस्यपर्यालोचनया लाघवादव्ययस्याङ्गत्वे फलाभावाच्च प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते, तदा त्वविशेषेणाऽङ्गसंज्ञाया अपि निषेधादङ्गग्रहं तत्र रभसकृतमेव । न चन लुमते॑त्यनेनाङ्गसंज्ञानिषेधेयुवोरनाका॑विति सूत्रस्थभाष्यकैयटाभ्यां विरोधः स्यादिति वाच्यं, तयोस्तत्र प्रौढवादेन प्रवृत्तत्वात् । तथाचन लुमत तस्मि॑न्निति सिद्धान्तः, प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते॒इति मनोरमाग्रन्थश्च स्वरसतः सङ्गच्छत इति । ननु ऋधातोर्विचि गुणे चअ॑रिति रूपं, तस्मान्मतुपि अर्वन्तावित्यादि सेत्स्यति,छन्दसीवनिपा॑विति वनपि वेदेअर्वे॑ति सेत्स्यति । ऋधोरोरेवस्त्रामदिपद्यत्र्ती॑त्यादिना वनिपि तु लोकेऽप्यर्वेति सेत्स्यति । रूढिशब्दश्चायं,वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः॑इत्यमरकोशात् । ततश्चार्थोऽपि न भिद्यत इति किमनेन सूत्रेणेति चेदत्राहुः — नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते सौ परे नञ्पूर्वपदे च नान्तस्य प्रयोगो भवत्यन्त्र तचु नान्तस्य प्रयोगो न भवतीति व्यवस्थार्थमिदं,तृज्वत्क्रोष्टु॑रिति त्रिसूत्रीवदिति । यत्तु केश्चिदुक्तम् — -॒अर्वन्मघवन्शब्दयोरपि भाषायामसाधुत्वमेव । ॑अर्वणस्तृ मघोनश्च न शिप्यं धान्दसं हि तत् । मतुब्वन्योर्विधानाच्च धन्दस्युभयदर्शमात्इति वार्तिकादिति । तदापाततः, वार्तिकस्य वनिबन्तमध्योदात्तपरत्वात् । छन्दस्येव वनिब्व#इधानात् । तथाच श्रीहर्षः — -॒वाहैरलुप्यत सहस्त्रद्दगर्वगर्वः॑इति प्रायुङ्लः । अर्वन्तौ अर्वन्त इति । व्यपदेशिवद्भावेनाऽर्वन्नन्तत्वाव्रादेशः । न च व्यवदेशिवद्भावोऽप्रातिपदिकेनेति वाच्यं, तस्य प्रत्ययविधिविषयत्वात् ।
लघुसिद्धान्तकौमुदी
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥
महाभाष्यम्
अर्वणस्त्रसावनञ्ञः (3125)