॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
6|4|120
SK 2260
6|4|120
अत एकहल्मध्येऽनादेशादेर्लिटि  
SK 2260
सूत्रच्छेद:
अतः - षष्ठ्येकवचनम् , एकहल्मध्ये - सप्तम्येकवचनम् , अनादेशादेः - षष्ठ्येकवचनम् , लिटि - सप्तम्येकवचनम्
अनुवृत्ति:
एत्  [6|4|119] - प्रथमैकवचनम् , क्ङिति  [6|4|98] - सप्तम्येकवचनम् , अभ्यासलोपः  [6|4|119] - प्रथमैकवचनम् , च  [6|4|116] - अव्ययम्
अधिकार:
अङ्गस्य  [6|4|1] , असिद्धवदत्राभात्  [6|4|22]
सम्पूर्णसूत्रम्
एकहल्मध्ये अनादेशादे: अङ्गस्य अत: एत् किति लिटि, अभ्यासलोप: च |
सूत्रार्थ:
अनादेशादेः अङ्गस्य एकहल्मध्ये स्थितस्य अकारस्य लिट्-लकारस्य कित्-प्रत्यये परे एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।
एतत् सूत्रम् किञ्चित् क्लिष्टम् अस्ति, अतः क्रमेण पश्यामः ।

1. अस्य सूत्रस्य प्रसक्तिः केवलं लिट्-लकारस्य विषये अस्ति, अतः "लिटि" इति निर्दिष्टम् अस्ति ।
2. लिट्-लकारस्यापि केवलं कित्-प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः "किति लिटि" इत्युक्तम् अस्ति ।
3. लिट्-लकारस्य के के प्रत्ययाः कित्-संज्ञकाः सन्ति? वस्तुतः लिट्-लकारस्य एकस्मिन् अपि प्रत्यये ककारः इत्संज्ञकः नास्ति । परन्तु असंयोगाल्लिट् कित् 1|2|5 इत्यनेन यः लिट्-लकारस्य अपित्- प्रत्ययः संयोगात् परः नास्ति, तस्य कित्-अतिदेशः भवति । एतादृशानां प्रत्ययानां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।
4. अनेन सूत्रेण कार्यद्वयम् उक्तम् अस्ति - अङ्गस्य अकारस्य एकारादेशः, तथा अभ्यासस्य लोपः ।
5. एतत् कार्यम् कदा भवति? यदा स्थानिभूतः अयम् अकारः "एकहल्-मध्ये" स्थितः अस्ति । किम् नाम "एकहल्-मध्ये" ? यदि अकारात् परम् केवलं एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति), तथा अकारात् पूर्वम् अपि एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति) तर्हि सः अकारः "एकहल्मध्ये" स्थितः अस्ति इत्युच्यते । एतादृशस्य अकारस्यैव अनेन सूत्रेण एकारादेशः भवति । यदि अकारात् परः पूर्वः वा संयोगः अस्ति, तर्हि तादृशस्य अकारस्य अनेन सूत्रेण एकारादेशः न भवति ।
6. अस्मिन् सूत्रे "अङ्गस्य" इत्यस्यापि एकम् विशेषणम् प्रयुक्तम् अस्ति - अनादेशादिः । इत्युक्ते, अङ्गस्य आदिवर्णस्य कोऽपि आदेशः न क्रियते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, अन्यथा न ।

अतः सारांशरूपेण अस्य सूत्रस्य अर्थः अयम् भवति - लिट्-लकारस्य कित्-प्रत्यये परे अङ्गस्य अकारस्य एकारादेशः तथा अभ्यासस्य लोपः भवति, यदि सः अकारः संयोगात् पूर्वम्, संयोगात् परम् च नास्ति, तथा यदि तस्य अङ्गस्य प्रथमवर्णस्य कोऽपि आदेशः न भवति ।

कानिचन उदाहरणानि पश्यामः -

1. पच्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषएकवचनस्य रूपसिद्धिः इयम् -
पच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7|4|60 इति चकारस्य लोपः]
→ प पच् + त [तिप्तस्झि.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् "त" प्रत्ययः]
→ प पच् + एश् [लिटस्तझयोरेशिरेच् 3|4|81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।"एश्" प्रत्ययात् पूर्वम् संयोगः नास्ति, अतः असंयोगाल्लिट् कित् 1|2|5 इत्यनेन "एश्" अयम् अपित्-प्रत्ययः कित्-वत् भवति ]
अत्र अङ्गे विद्यमानः पच्-इत्यस्य अकारः संयोगात् पूर्वम् अपि नास्ति, अनन्तरम् अपि नास्ति । तथा च, अभ्यासस्य प्रथमवर्णस्य अत्र कोऽपि आदेशः अपि अग्रे न विधीयते । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120 इति अभ्यासस्य लोपः भवति, तथा च धातोः अकारस्य च एकारः जायते -
→ पेचे [अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120]

2. ये प्रत्ययाः कित्-प्रत्ययाः न सन्ति, तेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा,

अ) पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
पच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7|4|60 इति चकारलोपः]
→ प पच् + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
अत्र यद्यपि अङ्गस्य अकारः "एकहल्मध्ये" अस्ति, तथा च अङ्गम् अपि "अनादेशादिः" अस्ति, तथापि प्रत्ययः (मिप्) पित्-अस्ति, अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् 1|2|5 इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120] इत्यस्य प्रसक्तिः नास्ति ।
→ प पाच्/पच् + अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7|2|116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच / पपच

आ) वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् -
वन्द् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ वन्द् वन्द् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ व वन्द् + लिट् [हलादि शेषः 7|4|60 इति चकारस्य लोपः]
→ व वन्द् + झ [तिप्तस्झि.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् "झ" प्रत्ययः]
→ व वन्द् + इरेच् [लिटस्तझयोरेशिरेच् 3|4|81 इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।]
अत्र प्रत्ययात् पूर्वम् संयोगः अस्ति (न् + द्), अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् 1|2|5 इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120] इत्यस्य प्रसक्तिः नास्ति ।
→ ववन्दिरे

3. यदि अकारात् पूर्वम् / परम् संयोगः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, श्रमुँ (तपसि खेदे च) अस्य धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -
श्रम् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ श्रम् + श्रम् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ श + श्रम् + लिट् [हलादि शेषः 7|4|60 इति रेफमकारयोः लोपः]
→ श श्रम् + तस् [तिप्तस्झि.. 3|4|78 इत्यनेन प्रथमपुरुषद्विवचनस्य विवक्षायाम् "तस्" प्रत्ययः]
→ श श्रम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तस्-इत्यस्य अतुस्-आदेशः]
अत्र अङ्गस्य अकारः "एकहल्मध्ये" नास्ति (यतः अकारात् पूर्वम् "श् + र्" अयं संयोगः अस्ति) अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।
→ शश्रमतुः [विसर्गनिर्माणम्]

4. यदि अभ्यासस्य प्रथमवर्णस्य आदेशः विधीयते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, गम्-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -
गम् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ गम् गम् + ल् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ ग गम् + ल् [हलादि शेषः 7|4|60 इति मकारलोपः]
→ ज गम् + ल् [कुहोश्चुः 7|4|62 इति गकारस्य जकारः]
→ ज गम् + तस् [तिप्तस्... 3|4|78 इति तस् । असंयोगात् लिट् कित् 1|2|5 इत्यनेन असंयोगात् परस्य लिट्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]
→ ज गम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति अतुस्-आदेशः]
अत्र यद्यपि अकारात् पूर्वम् परम् च संयोगः नास्ति, अग्रे लिट्-लकारस्य कित्-प्रत्ययः च अस्ति, तथापि अत्र अभ्यासस्य प्रथमवर्णस्य आदेशः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
→ ज ग् म् + अतुस् [गमहनजनखनघसां लोपः क्ङित्यनङि 6|4|98 इत्यनेन अजादि-कित्-प्रत्यये परे उपधा-अकारस्य लोपः]
→ जग्मतुः [ससजुषोः रुँः 8|2|66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् - अनेन सूत्रेण उक्तः एकारादेशः मूलधातोः अकारस्यैव भवति, अभ्यासस्य अकारस्य न, यतः प्रत्ययविधानम् धातोः कृतम् अस्ति, अतः मूलधातुः एव अङ्गसंज्ञां प्राप्नोति, अभ्यासः न ।
One-line meaning in English
When followed by a कित्-प्रत्यय of लिट्-लकार, The अकार: of an अङ्गम् is converted to एकार, and the अभ्यास is removed; provided that there is no संयोग before as well as after this अकार, and that the first letter of the अङ्गम् is not changed due to any आदेश.
काशिकावृत्तिः
लिटि परत आदेशः आदिर् यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर् हलोर् मध्ये यो ऽकारस् तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः। रेणतुः। रेणुः। येमतुः। येमुः। पेचतुः। पेचुः। देमतुः। देमुः। अतः इति किम्? दिदिवतुः। दिदिवुः। तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्ये इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः। तत्सरुः। अनादेशादेः इति किम्? चकणतुः। चकणुः। जगणतुः। जगणुः। बभणतुः। बभणुः। लिटः आदेशविशेषणं किम्? इह अपि यथा स्यात्, नेमतुः। नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर् लिटि आदेशादिर्न भवति। इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर् भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर् न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवम् आदीनाम् अपि प्रकृतिजश्चरादीनाम् एत्वं न स्यात्। क्ङिति इत्येव, अहं पपच। अहं पपठ। दम्भेरेत्वं वक्तव्यम्। देभतुः। देभुः। नलोपस्य असिद्धत्वान् न प्राप्नोति। नशिमन्योरलिट्येत्वं वक्तव्यम्। अनेशम्। मेनका। अनेशम् इति नशेः लुङि पुषादित्वादङ्। मेनका इति मनेः आशिषि च 3|1|150 इति वुन्। क्षिपकादिषु प्रक्षेपादित्वं न क्रियते। छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम्। व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङिपेचिरन्। पचेरनित्येतस्य छान्दसं ह्रस्वत्वम्। यजिवप्योश्च। आयेजे। आवेपे। लङि इटि छन्दस्यपि दृश्यते 6|4|73 इति अनजादेरपि इडागमः।
`एकहल्मध्ये` इति। एकशब्दोऽयमसहायवाची। एकश्च एकश्च एकौ, एकौ च तौ हलौ चेत्येकहलौ, एकहलोर्मध्य इति द्विवचनान्तस्य षष्ठीसमासः। द्व्योरेव हि हलोर्मध्यं सम्भवति, नैकस्य। अत्र यदि लिटआदशो न विशिष्यते ततो नेमतुः, नेमु; सेहे सेहाते, सेहिर इत्यत्र न स्यात्। अस्तिह्रत्राप्यङ्गस्यादेश आदिरित्येतच्चेतसि कृत्वा लिटआदेशं विशेषयितुमाह--`लिटि परतः` इत्यादि। लिटि परभूते य आदेशो विधीयते स आदियंस्याङ्गस्य नास्तीत्यर्थः। `तस्य` इति। तस्यैवंविधस्याङ्गस्येत्यर्थः। तस्येति चाङ्गस्य योऽकार इत्यनेन सम्बन्धः। अवयवषष्ठी चेयम्, तस्यैवंविधस्याङ्गस्य योऽकारोऽवयवस्तस्येत्यर्थः। `एक हल्मध्ये` इत्यस्येदं विवरणम्--`असहाययो र्हलोर्मध्ये` इति। तत्येत्यनन्तरोक्तोऽकारः सम्बध्यते। तस्याङ्गस्यावयवस्याकारस्येत्यर्थः। स्थानषष्ठी चेम्--तस्य स्थान एकार आदेशो भवति। `रेणतुः, रेणुः` इति। `अण रण` (धातुपाठः-444,445) इति `रणिः शब्दार्थः` पठते। `येमतुः, येमुः` इति। `यम उपरमे` (धातुपाठः-984)। `देमतुः, देमुः` इति। `दमु उपशमे` (धातुपाठः-1203)। `रराशे`[ररासे--काशिका।] इति। `राशृ शब्दे` [राशृ शब्दे--धातुपाठः-] (धातुपाठः-626) आत्मनेपदी। `शश्रमतुः शश्रमुः` इति। `श्रमु तपसि खेदे च` (धातुपाठः-1204)।केचित्तु ततक्षतुः, ततक्षुरित्येतदेकहल्यध्यस्य प्रत्युदाहरणं पठन्ति; एतच्चायुक्तम्; क्ङितीत्यनुवत्र्तते, न च पक्षेः परस्य लिटः कित्त्वमस्ति। `असंयोगात्` इति प्रतिषेधात्?। `तत्सरतुः, तत्सरुः` इति। `त्सर छद्मगतौ` (धातुपाठः-554)। `चकणतुः, चकणुः` इति। `अण रण वण भण क्वण कण शब्दार्थाः` (धातुपाठः-444,445,446,447,450449)। तत्र कणतिर्भ्वादौ पठते। `जगणतुः, जगणुः` इति। `गण संख्याने` (धा।प।1853) चुरादौ पठते। ननु च चौरादिकत्वाण्णिचि कृते `कास्प्रत्ययादाममन्त्रे लिटि` 3|1|35 इत्यामा भवितव्यम्? `अनित्यण्यन्ताश्चुरादयः` (है।प।पा।97) इत्यदोषः। अनित्यण्यन्तत्वन्तु तेषां सप्तमे ज्ञापयिष्यते। `बभणतुः` इति। भणतिर्भ्वादौ पठते शब्दार्थ एव।`नेमतुः` इति। `णम प्रह्वत्वे शब्दे` (धातुपाठः-981)। `णो नः` 6|1|63 इति नत्वम्। `सेहे` इति। `षह मर्षणे` (धातुपाठः-852) `धात्वादेः षः सः` 6|1|62 इति सत्वम्। कथं पुनर्नत्वे सत्वे च लिटयादेशादी न भवतः? इत्यत आह--`अनैमित्तिके नत्वसत्वे` इत्यादि। नत्वसत्वविधाने हि न किञ्चिन्निमित्तमाश्रीयत इत्यनैमित्तिके एते भवतः, ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्। तेन तदादि यदङ्गं तल्लिटआदेशादि न भवति। यदि तर्हि लिटाऽदेशो विशिष्यत एवं सत्यङ्गमविशेषितं स्यात्, ततश्च पक्वः पक्ववानित्यत्रापि प्रसज्येत, पचेरपि ह्रङ्गस्य लिटि परभूते य आदेशः क्रियते स इहाप्यादिर्नास्ति? नैतदस्ति; अभ्यासलोपसन्नियोगेन ह्रेत्त्वमुच्यते। तेन यत्रैवाभ्यासलोपः तत्रैवैत्त्वेन भवितव्यम्। न चात्राभ्यासलोपः; असम्भवात्। इह तर्हि स्यात्--पापच्यत इति? अयमप्यदोषः; इह परत्वात्? `दीर्घोऽकितः` 7|4|83 इति दीर्घो भविष्यति। ह्यस्वहलादिशेषावुत्सर्गौ, तयोर्दीर्घत्वमेत्त्वञ्चापवादः। तत्र दीर्घस्यावकाशः--बाभास्यते, एत्वस्यावकाशः---पेचतुः, पेचुरिति; इहोभ्यं प्राप्नोति--पापच्यत इति, अपवादविप्रतिषेधे सति परत्वाद्दीर्घत्वं भविष्यति। अथ बभणतुः, बभणुरित्यत्रेत्त्वं कस्मान्न भवति, `अभ्यासे चर्च` 8|4|54 इति जश्त्वे कृत आदेशादित्वादिति चेत्? न; एत्त्वे कत्र्तव्ये जश्त्वस्यासिद्धत्वात्। तस्माद्भवितव्यमेवैत्त्वेन। विप्रतिषेधस्य तु यत्र `कुहोश्चुः 7|4|62 इति श्चुत्वं क्रियते--चकणतुः, चकणुः, जहसतुः, जहसुरित्यादाववकशः स्यादित्यत आह--`इह` इत्यादि। कथमेतज्ज्ञायते--नास्त्यसिद्धत्वम्? इत्याह--`तथा च` इत्यादि। तदैव `तृफलभजत्रपश्च` 6|4|122 इति फलिभज्योरेत्त्वमुपपद्यते यदि जश्त्वचत्वंयोरसिद्धत्वं न भवति, नान्यथा। अनादेशादित्वादनेनैवैत्त्वस्य सिद्धत्वात्? तन्नोपपद्यते। तस्मात्? फलिभज्योरेत्त्वविधानाददसीयते--जश्त्वचत्त्र्वयोरसिद्धत्वमिह नास्तीति। `रूपाभेदे च` इत्यादि। `शब्दरूपस्य स्थानिनोऽबेदे सति य आदेशः स इह नाश्रीयते` इत्यस्यार्थस्य `न शसददवादिगुणानाम्` 6|4|126 इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। `अभ्यासे चर्च` 8|4|53 इत्यनेन प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचरो भवन्तीति शसः शकारस्य शकारो भवति, ददेर्दकारस्यापि दकार; तेनोभावपि तावादेशादी भवतः। तत्र यदि स्थान्यभेदे सति य आदेशः सोऽपीहाश्रीयेत, तत आदेशाद#इत्वादेव न भविष्यतीति शसिद्योरेत्त्वप्रतिषेधो न विधीयेत; विहितश्च, तस्मादेतदेव प्रतिषेधवचनं ज्ञापयति--रूपाभेदे सति य आदेशः स इह नाश्रीयत इति। यदि तह्र्राश्रीयत किं स्यात्? इत्यत आह--`अन्यथा हि` इत्यादि। अन्यथा योऽपि रूपाभेदादादेशः स्थानिनाभिन्नरूपः सोऽपीहाश्रयेत, ततो यथा चकणतुरित्येवमादीनामेत्त्वं न भवति, तथा पेचतुः, पेचुरित्येवमादीनामपि प्रकृतिजश्चरादीनां न स्यात्। प्रकृतिजशः प्रकृतिचरश्चादयो येषान्ते तथोक्ताः। `अहं पपठ, अहं पपच` इति। अत्र स्थानिवद्भावेन पित्त्वात्? कित्त्वं नास्ति, तेनैत्त्वाभ्यासलोपौ न भवतः। वृद्धिरपि न भवति; `णलुत्तमो वा` 7|1|91 इति पक्षे णित्त्वाभावात्। णित्त्वपक्षे तु परत्वाद्वृद्ध्या बाधित्वादेत्त्वादेत्त्वाभायासलोपाभ्यां न भवितव्यम्, इत्यणित्त्वपक्ष एवोदाह्मतम्। `दम्भेः` इति। किं पुनः कारणं दम्भेरेत्त्वं न भवति, यावता `लिटनादेशाध्रेतदङ्गम्। `अनिदिताम्` 6|4|24 इत्यादिना न लोपे कृत एकहल्मध्य एवाकारः? इत्यत आह--`नलोपस्य` इत्यादि। `ग्रन्थिश्रन्थिदम्भिस्वञ्जीनाम्` (वा।17) इति सूत्रे [] दम्भेः परस्य लिटः कित्त्वमुक्तम्, तस्मिन्? सति य उपधाया लोपस्तस्य `असिद्धवदत्रा भात्` 6|4|22 इत्यसिद्धत्वान्न प्राप्नोति। तस्माद्दम्भेरेत्त्वं वक्तव्यम्। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`श्नसोरल्लोपः 6|4|111 इत्यत्रा भाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वं ज्ञापितम्, तेन दम्भेरेत्त्वे कत्र्तव्ये लोपस्यासिद्ध्त्त्वं न भवति, ततश्च दम्भेर्लिटत्त्वं भविष्यतीति। अथ वा `अत एकहल्मध्ये` 6|4|120 इत्यत्र `अतः` इति योगविभागः कत्र्तव्यः, तेन यत्र यत्रेत्त्वमिष्यते तत्र तत्र भविष्यतीति। एवञ्च कृत्वा `नशिमन्योरलिटएत्त्वम्` (वा।793) इत्याद्यपि नोपसंख्येयम्; योगविभागेनैव सिद्धत्वात्। वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थ इति सर्वत्र वेदितव्यम्। `अनेशम्` इति। `तस्थस्थ` 3|4|101 इत्यादिना मिपोऽम्भावः। अथ `मेनका` इत्यत्र `प्रत्ययस्थात्` 7|3|44 इत्यादिनेत्त्वं कस्मान्न भवति? इत्याह--`क्षिपकादिषु` इत्यादि। क्षिपकादिष्वित्त्वस्य प्रतिषेधो वक्ष्यते। अस्य च क्षिपकादिषु प्रक्षेपः, तेनेत्त्वं न क्रियते। `चानशि` इति। `तच्छील्यवयोवचनशक्तिषु चानश` 3|2|129 `मुक्? न क्रियते` इति। `आने मुक्` 7|2|82 इति मुक्? प्राप्नोति, स न भवति `अनित्यमागमशासनम्` (व्या।पा।95) इति कृत्वा। छान्दसत्वाद्वा--`सर्वे विधयश्छन्दसि विकल्प्यन्ते` (भो।प।99) इति। `छान्दसं ह्यस्वत्वम्` इति। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|63 इति ङ्यापोर्विधीयमानं ह्यस्वत्वं बहुलवचात्? `पेरिरन्नित्यत्रापि वति। पचेर्लिङ्, सीयुट्, झस्य रन्, शप्, `आद्गुणः` 6|1|84 । पचेरन्निति प्राप्त एत्त्वे ह्यस्वत्त्वे च कृते पेचिरन्निति भवति॥
एकशब्दोऽसहायवचनः न सङ्ख्यावचनः मध्याभावात् । द्विवचनान्तस्य च समासः, द्वयोरेव मध्यसम्भाव्त, अत्र लिटीति यदि विधीयमानयोरेत्वाभ्यासलोपयोर्निमितनिर्द्देशः स्यात्, आदेशो न विशेषितः स्यात्, ततश्च नेमतुः, नेमुः, सेहे, सेहाते, सेहिरे - अत्रापि प्रतिषेधः स्यात्, न त्वसत्वयोः कृतयोरङ्गस्यादेशादित्वात् । तस्माद् गुणभूतस्याप्यादेशस्यायं निमितनिर्द्देश इति दर्शयति - लिटि परत इति । लिटि परत्रावस्थिते य आदेशो विधीयते स आदिर्यस्याङ्गस्य नास्तीत्यर्थः । ररक्षतुरिति । अयुक्तमिदमादेशादित्वात् । क्वचितु ततक्षुरिति पठ।ल्ते, तदप्ययुक्तम् संयोगान्तत्वेन लिटः कित्वाभावात् । तस्मातत्सरतुः, तत्सरुरिति प्रत्युदाहरणम् । त्सर च्छद्भगतौ । चकणतुरिति । कणतिः शब्दार्थधातुवर्गे भूवादौ पठ।ल्ते । जगणतुरिति । गण संख्याने, चुरादित्वातत्र णिच् प्राप्नोति । यदिनेष्यते, अनित्यण्यन्ताश्नुरादयः । एतच्च धुषिरविशब्दने इत्यत्र वक्ष्यते । यद्यपि कृहौश्चुः इति चुत्वं लिट।लहत्य न विहितम्, तखाभायसनिमिते तु प्रत्यये विधानाल्लिण्निमितमपि भवति, सर्वथा लिट।लुत्पन्ने पश्चाद्भवति । एअनैमितिके नत्वसत्वे इति । ततश्च प्रागेव लिडुत्पतेस्ताभ्यां भवितव्यम्, तेन तदाद्यङ्गं लिटि य आदेशस्तदादि न भवति, यदि लिटा आदेशो विशेष्यते, एत्वमलिट।ल्पि प्राप्नोति - पक्वः, पक्ववानिति नैष दोषः, चकारः सभूच्चये, नान्वाचये तेन यत्राभ्यासलोपस्तत्रैवैत्वम् । इह तर्हि स्यात् - पिपठिषति क्ङितीति एवर्तते । एवमपि पापठ।ल्ते - अत्रापि प्राप्नोति नैष दोषः, इह ह्यभ्यासकार्येषु ह्रस्वहलादिशेषावुत्सर्गौ, तयोरन्यऽपवादास्तत्रैह दीर्घोऽकितः इति दीर्घत्वं च प्राप्नोति अनेन लोपश्च, तत्र दीर्घस्यावकाशः - बाभाष्यते, अस्य विधेरवकाशः - पेचतुः, पेछु, पापच्यते - इत्यत्रोभयप्रसङ्गे अपवादविप्रतिषेधाद्दीर्षत्वेनायमभ्यासलोपो बाध्यते तत्सन्नियोगशिष्टत्वादेतवमपि न भविष्यति । अभ्यासविकारेषु उभयसमावेशो यत्र सर्वेषां प्रवृत्तिस्तत्र । इह तु यद्यपि दीर्घत्वे कृतेऽपि एत्वाभ्यासलोपयोः प्रसङ्गः, तयोश्च कृतयोन दीर्घस्य प्रसङ्ग इति न सर्वेषां प्रवृत्तिः । ननु च बभणतुः, बभणुरित्यादावभ्वासजश्त्वचर्त्वयोरसिद्धत्वादनादेशादित्वात् एत्वाभ्यासलोपाभ्यां भाव्यम्, विपिरतिषेधस्य तु जहसतुर्जहसुरित्यादौ यत्र कुहोश्चुः इति चुत्वं क्रियते सोऽवकाशः स्यात् अत आह - इहेति । अत्रैव थज्ञापकमाह - तथा चेति । रुपामेदे त्विति । यत्रादेशस्य स्थानिना सह रुपमैदो नास्ति तत्रेत्यर्थः । शसिदद्योरिति । अभ्यासे चर्च, इति सर्वत्र जश्चरोः प्राप्तयोरन्तरतमपिरभाषाव्यापारलब्धमिदं वक्ष्यते - प्रकृतिचरां प्रकृतिचरः, प्रकृतिजशां प्रकृतिजश इति । तेन शसेः शकारस्य शकारो ददेर्दकारस्य दकार इति, तावप्यादेशादी भवतः । यदि चाभिन्नरुपोऽप्यादेश कैहाश्रीयेत, तत आदेशादित्वादेव प्रतिषेधे सिद्धे न शसददवादिगुथणानाम् इति शसिदद्योः प्रतिषेधोऽनर्थकः स्यात्, कृतस्तु ज्ञापयति - रुपाभेदे य थाअदेशः स इह नाश्रीयते इति । यदि पुनराश्रीयेत किं स्यात् इत्यत आह - अन्यथेति । प्रकृतिर्जश् प्रकृतिर्श्चर्च्चादिर्येषां तेषां न स्यात्, वचनं तु रेणुरित्यादौ चरितार्थम् । अहं पपचेति । उतमे णलि णित्वाभावपक्षे रुपम् । णत्वपक्षे तु परत्वाद्वृद्धौ कृतायां तपरकरणादकाराभावादेवा प्रसङ्गः । देभतुरिति । श्रन्थिग्रन्थि इत्यादिना लिटः कित्वे सति नलोपः । नशिमन्योरलिट।लेत्वमिति । अलिटीति पादपूणार्थोऽनुवादः, श्लोकोह्यएवं भाष्ये पठितः ॥ नशिमन्योरलिट।लेत्वं च्छन्दस्यमिपचोरपि । अनेशन्मेनकेत्येतव्द्येमानं लिङ् पेइचिरन् ॥ इति । अनेशन्निति । झोऽन्तादेशः । थानेशन्नस्योषवः । अनेशमिति तु प्रायेण पाठः, तत्र मिपोऽम्भावः । क्षिपकादिष्विति । क्षिपकादिषु हि इत्वप्रतिषेधो वक्ष्यते, एतच्च न यासयोः इत्यत्र आशिषि चोपसङ्ख्यानम् इत्यनाश्रित्योक्तम्, च्छन्दसीतिवचनात् मेनकेति भाषायां न प्राप्नोति । यदीष्यते, पृषोदरादिषु द्रष्टव्यः । लुग्न क्रियत इति । छान्दसत्वात्, बहुलं च्छन्दसि इति वा शपो लुप्तत्वात् । पेचिरन्निति । पचेरन्निति प्राप्ते । क्वचित्पठ।ल्ते - यजिवप्येश्च, आयोजे आवेवे, यजेर्वपेश्च लैङ् इति च्छन्दस्यपि दृश्यते इत्यनजादेरप्याडिति । अपर आह - लिटि तस्य एशादेशः, सम्प्रसारणपूर्वत्वे वा च्छन्दसि इत्यनुवृतेर्यणादेशः, एत्वाभ्यासलोपौ, उदातवता तिणेóत्याङ्ः समास इति । तथा चावगृह्णन्ति - यच्छञ्चयोश्च मनुरायजे पिता, आयेज इत्यायेजे इति ॥
सिद्धान्तकौमुदी
लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥
तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते। अत एकहलमध्ये। आदेश आदिर्यस्येति बहुव्रीहिः। अङ्गस्येत्यधिकृतमन्यपदार्थः। लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति। लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते। अङ्गस्येत्यवयवषष्ठी। तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते। एकशब्दोऽसहायवाची। `एके मुख्यान्यकेवलाः` इत्यमरः। एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः। `अत` इत्स्यैव विशेषणमिदम्। `द्वसोरेद्धा`वित्यत एदिति, अभ्यासलोप इति चानुवर्तते। `गमहने`त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात्। लिटीत्येत्वविधौ परनिमित्तं च। आवृत्त्या उभयार्थलाभः। तदाह--- लिण्निमित्तेत्यादिना।
लिण्निमित्तेति। किति लिटीति च। यद्यपि `गहमने`ति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः। किति कित् ?। ननाद। लिटि किम?। पापच्यात्।
लघुसिद्धान्तकौमुदी
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥
महाभाष्यम्
अत एकहल्मध्येऽनादेशादेर्लिटि (3118) (एत्वाधिकरणम्) (6588 उपसंख्यानवार्तिकम् ।। 1 ।।) - णकारषकारादेरेत्ववचनं लिटि - णकारषकारादेरेत्वं लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सेहिरे । किं पुनः कारणं न सिध्यति ? अनादेशादेरिति प्रतिषेधः प्राप्नोति ।। (विशेष्यविशेषणभावेनेष्टसाधकं भाष्यम्) तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । लिटाऽत्रादेशादिं विशेषयिष्यामः, लिटि य आदेशस्तदादेर्नेति ।। (विशेषणविशेष्यभावाक्षेपसमाधानभाष्यम्) अस्त्यन्यल्लिड्ग्रहणस्य प्रयोजनम् । किम् ? इह मा भूत् ‐ -पक्ता, पक्तुम् । नैतदस्ति प्रयोजनम् । क्ङितीति वर्तते । एवमपि पक्वः पक्ववानित्यत्र प्राप्नोति । अभ्यासलोपसन्नियोगेनैत्वमुच्यते । न चात्राभ्यासलोपं पश्यामः । एवमपि पापच्यते ‐ -अत्र प्राप्नोति । दीर्घत्वमत्र बाधकं भविष्यति । नाप्राप्तेऽभ्यासविकार एत्वमारभ्यते, तद्यथाऽसावन्यानभ्यासविकारान् बाधत एवं दीर्घत्वमपि बाधेत । सत्यमेवमेतत् । अभ्यासविकारेष्वपि तु ज्येष्ठमध्यमकनीयांसः प्रकारा भवन्ति । तत्र ह्रस्वहलादिशेषावुत्सर्गौ तयोर्दीर्घत्वमपवाद एत्वं च । अपवादविप्रतिषेधाद्दीर्घत्वं भविष्यति ।। (वार्तिकावतरणभाष्यम्) इह तर्हि ‐ -बभणतुः ‐ -बभणुरित्यभ्यासादेशस्यासिद्धत्वादेत्वं प्राप्नोति ।। (6589 सिद्धत्वज्ञापकवार्तिकम् ।। 2 ।।) - फलिभजिग्रहणं तु ज्ञापकमभ्यासादेशसिद्धत्वस्य - यदयं फलिभज्योर्ग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ -अभ्यासादेशः सिद्ध एत्त्व इति । यद्येवं ‐ - (6590 आक्षेपवार्तिकम् ।। 3 ।।) - प्रथमतृतीयादीनामादेशादित्वादेत्वाभावः - प्रथमतृतीयादीनामपि तर्ह्यादेशादित्वादेत्वं न प्राप्नोति । पेचतुः । पेचुः । देभतुः । देभुः ।। (6591 समाधानवार्तिकम् ।। 4 ।।) - न वा शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य - न वा एष दोषः । किं कारणम् ? शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्त्वविज्ञानस्य । यदयं शसिदद्योः प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः ‐ -रूपाभेदेन ये आदेशादयो न तेभ्यः प्रतिषेधो भवतीति ।। (6592 उपसंख्यानवार्तिकम् ।। 5 ।।) - दम्भ एत्वम् - दम्भ एत्वं वक्तव्यम् । देभतुः । देभुः । किं पुनः कारणं न सिध्यति ? (6593 उपसंख्यानसमर्थकवार्तिकम् ।। 6 ।।) - नलोपस्यासिद्धत्वात् - असिद्धो नलोपस्तस्यासिद्धत्वादेत्वं न प्राप्नोति ।। (उपसंख्याने श्लोकवार्तिकम्) नशिमन्योरलिट्येत्वम् । नशिमन्योरलिटि एत्त्वं वक्तव्यम् ।। (उपसंख्याने श्लोकवार्तिकम्) छन्दस्यमिपचोरपि ।। छन्दसि अमिपचोरपीति वक्तव्यम् । किं प्रयोजनम् ? (प्रयोजने श्लोकवार्तिकम्) अनेशं मेनकेत्येतद् व्येमानं लिङि पेचिरन् ।। यजायेजे वपावेपे यजः ‐ -आयेजे, वपः ‐ -आवेपे ।। (श्लोकवार्तिकम्) दम्भ एत्वमलक्षणम् ।। असिद्धत्वान्नलोपस्य दम्भ एत्त्वं न सिध्यति ।। (ज्ञापकेनोपसंख्यानसाधकं श्लोकवार्तिकम्) श्नोसोरत्त्वे तकारेण ज्ञायते त्वेत्त्वशासनम् ।। अनित्योऽयंविधिरिति ।।