Page loading... Please wait.
6|4|107 - लोपश्चास्यान्यतरस्यां म्वोः
॥ तस्मै पाणिनये नमः ॥
6|4|107
SK 2333
लोपश्चास्यान्यतरस्यां म्वोः  
सूत्रच्छेदः
लोपः (प्रथमैकवचनम्) , च (अव्ययम्) , अस्य (षष्ठ्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्) , म्-वोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
असंयोगपूर्वात्  6|4|107 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , प्रत्ययात्  6|4|107 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , उतः  6|4|107 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
अस्य असंयोगपूर्वस्य उतः प्रत्ययस्य म्वोः अन्यतरस्याम् लोपः
सूत्रार्थः
असंयोगपूर्वः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।
यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।

अस्मिन् सूत्रे "अस्य" इति प्रयुक्तम् अस्ति । "अस्य" इत्युक्ते उतश्च प्रत्ययादसंयोगपूर्वात्‌ 6|4|106 अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य । अतः उतश्च प्रत्ययादसंयोगपूर्वात्‌ 6|4|106 इत्यनेन यस्य उकारस्य निर्देशः क्रियते, तस्यैव उकारस्य ग्रहणम् अस्मिन् सूत्रेऽपि भवति, अन्यस्य कस्यापि उकारस्य न । उतश्च प्रत्ययादसंयोगपूर्वात्‌ 6|4|106 इत्यनेन तु "श्नु" इत्यस्य विकरणप्रत्ययस्य, "उ" इत्यस्य विकरणप्रत्ययस्य च उकारस्यैव ग्रहणं भवति । अतः अस्य सूत्रस्य व्याप्तिः अपि तयोः एव विषये अस्ति । अस्मात् मकारादि-वकारादि-प्रत्यये च परे अस्य उकारस्य वैकल्पिकः लोपः भवति । यथा -

1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -
चि + लोट् [लोट् च 3|3|162 इति लोट्]
→ चि + वस् [तिप्तस्.. 3|4|78 इति उत्तमपुरुषद्विवचनस्य वस्-प्रत्ययः]
→ चि + श्नु + वस् [स्वादिभ्यः श्नुः 3|1|73 इति श्नुः]
→ चि + नु + व [लोटो लङ्वत् 3|4|85 इत्यनेन लोट्-लकारस्य ङित्-लकारवत् कार्याणि भवन्ति । अतः नित्यं ङितः 3|4|99 इत्यनेन सकारलोपः]
→ चिनुव / चिन्व [लोपश्चास्यान्यतरस्यां म्वोः 6|4|107 इति उकारस्य वैकल्पिकः लोपः]

2. तनादिगणस्य तनुँ (विस्तारे) अस्य लट्लकारस्य उत्तमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति -
तन् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ तन् + मस् [तिप्तस्.. 3|4|78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]
→ तन् + उ + मस् [तनादिकृञ्भ्यः उः 3|1|73 इति उ-प्रत्ययः]
→ तनुमः, तन्मः [लोपश्चास्यान्यतरस्यां म्वोः 6|4|107 इति उकारस्य वैकल्पिकः लोपः]

3. यदि अयम् उकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, आप्-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य रूपसिद्धौ -
आप् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ आप् + मस् [तिप्तस्.. 3|4|78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः]
→ आप् + श्नु + मस् [स्वादिभ्यः श्नुः 3|1|73 इति श्नुः]
→ आप्नुमः [ससजुषो रुँः 8|2|66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
अत्र उकारात् पूर्वः "प् + न्" इति संयोगः अस्ति अतः अत्र लोपश्चास्यान्यतरस्यां म्वोः 6|4|107 इत्यस्य प्रसक्तिः नास्ति, अतः उकारस्य लोपः न भवति ।

ज्ञातव्यम् - वस्तुतः अत्र "लुक्" इत्यस्य अनुवृत्तिम् कर्तुं शक्यते । तथापि अत्र "लोपः" इति उक्तम् अस्ति । तस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः 1|1|61 इत्यनेन "लुक्" सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । परन्तु अत्र "श्नु" इत्यस्य केवलं उकारस्य लोपः इष्यते, नकारस्य न । अतः अत्र "लोपः" इति उक्तम् अस्ति । एवं क्रियते चेत् अलोऽन्त्यस्य 1|1|52 इत्यनेन अन्तिम-उकारस्य लोपः भवितुम् अर्हति ।
One-line meaning in English
The उकार which occurs at end of a प्रत्यय is optionally deleted when followed by a मकार / वकार , provided that a संयोग is not present immediately before this उकार.
काशिकावृत्तिः
यो ऽयम् उकारो ऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारम् अकारादौ प्रत्यये परतः. सुन्वः, सुनुवः. सुन्मः, सुनुमः. तन्वः, तनुवः. तन्मः, अनुमः. प्रत्ययस्य इत्येव, युवः. युमः. असंयोगपूर्वस्य इत्येव, शक्नुवः. शक्नुमः. लुकिति वर्तमाने लोपग्रहणम् अन्त्यलोपार्थम्.
`योऽयमुकारोऽसंयोगपूर्वः` इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च `अतः` 6|4|106 इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्? `अस्य` इत्यनेन? षष्ठीप्रक्लृप्त्यर्थमस्येत्येतदिति चेत्? न; `म्वोः` इत्येषैव हि सप्तम्यकृतार्था `उतः` इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, `तस्मिन्निति निर्दिष्टे पूर्वस्य` 1|1|65 इति वचनात्। स्यादेतत्। यदि `म्वोः` इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते--किमियं षष्ठी उत सप्तमीति? तस्मात्? षष्ठीप्रक्लृप्यर्थमस्येत्युक्तम्। `लुगित्त्यनुवत्र्तमाने` इत्यादि। यदि प्रकृत एव लुक्? क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्? स्यात्, नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते `सुन्वः सुन्मः` इति न सिध्यति? लोपग्रहणाददोषः। तत्र ह्रुकारमात्रस्य लोपः `अलोऽन्त्यस्य` 1|1|51 इति वचनात्। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्; `न लुमताङ्गस्य` 1|1|62 इति प्रत्ययलक्षणाप्रतिषेधात्। लोप#ए तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कत्र्तव्यम्॥
अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ।लश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः इति संज्ञाविधाववोचाम् । एसर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ॥
सिद्धान्तकौमुदी
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु पत्वाद्गुणः । धिनोमि ॥
लोपश्चास्यान्यतरस्यां म्वोः - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । "प्रत्यय — उकार" इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु ।
लोपश्चास्यान्यतरस्यां म्वोः - लोपश्चा । यः प्रत्ययोकार इति । असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम्उतश्चे॑ति सूत्रेऽपिअक्ष्णुही॑त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः ।अश्नुही॑ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् ।आप्नुहीटति पाठस्तूतिः ।
लघुसिद्धान्तकौमुदी
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.