Page loading... Please wait.
6|4|105 - अतो हेः
॥ तस्मै पाणिनये नमः ॥
6|4|105
SK 2202
अतो हेः  
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , हेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
लुक्  6|4|104 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
अतः अङ्गात् हेः लुक्
सूत्रार्थः
अदन्तात् अङ्गात् परस्य "हि" प्रत्ययस्य लुक् भवति ।
लोट्लकारस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य "सि" प्रत्ययस्य सेह्यर्पिच्च 3|4|87 इत्यनेन "हि" आदेशः भवति । अयम् आदेशः यदि अदन्तात् अङ्गात् परः आगच्छति, तर्हि अस्य आदेशस्य लोपः भवति । यथा, पठ्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -

पठ् + लोट् [लोट् च 3|3|162 इति लोट्]
→ पठ् + सिप् [तिप्तस्.. 3|4|78 इति सिप्]
→ पठ् + शप् + सि [कर्तरि शप् 3|1|68 इति शप्]
→ पठ् + अ + हि [सेह्यर्पिच्च 3|4|87 इत्यनेन सि-इत्यस्य हि-आदेशः]
→ पठ् + अ [अतो हेः 6|4|105 इति अदन्तात् अङ्गात् परस्य हि-इत्यस्य लुक्]
→ पठ

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "अतः" इति तपरकरणम् कृतम् अस्ति, अतः केवलं ह्रस्व-अकारान्त-अङ्गात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः अदादिगणस्य "या", "स्ना", "दा" आदीनाम् विषये अनेन सू्त्रेण "हि" इत्यस्य लुक् न भवति । यथा - याहि, स्नाहि, दाहि ।
2. तुह्योस्तातङाशिष्यन्यतरस्याम् 7|1|35 अनेन सूत्रेण आशीषि विषये लोट्-लकारस्य हि प्रत्ययस्य विकल्पेन तातङ्-आदेशः भवति । अयम् आदेशः परत्वात् वर्तमानसूत्रम् बाध्यते, अतः हि-इत्यस्य तातङ्-आदेशः करणीयः अस्ति चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - भवतात् ।
3. अस्मिन् सूत्रे "हि" इत्यस्य "लुक्" उच्यते, लोपः न । अस्य कारणमेतत् - प्रत्ययस्य लुक्श्लुलुपः 1|1|61 इत्यनेन "लुक्" सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र "हि" इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र "लुक्" कार्यमेव करणीयम् । यदि अत्र "लोपः" इति अभविष्यत्, तर्हि आदेः परस्य 1|1|54 इत्यनेन "हि" इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् ।
One-line meaning in English
The "हि" प्रत्यय that follows an अदन्त अङ्ग is removed.
काशिकावृत्तिः
अकारान्तादङ्गादुत्तरस्य हेः लुग् भवति। पच। पठ। गच्छ। धाब। अतः इति किम्? युहि। रुहि। तपरकरणं किम्? लुनीहि। पुनीहि। ईत्वस्य असिद्धत्वादकार एव भवति।
`गच्छ` इति। गमेर्लोट्, `इषुगमियमां छः` 7|3|77 इति छत्वम्। `धाव` इति। `धावु गतिशुद्ध्योः` (धातुपाठः-601) अथ वा सर्त्तेः `पाघ्रा` 7|3|78 इत्यादिना धावादेशः। `युहि, रुहि` इति। अदावित्वाच्छपो लुक्। `लुनोहि, पुनीह` इति। `प्वादीनां ह्यस्वः` 7|3|80 इति ह्यस्वत्वम्, `ई हल्यधोः` 6|4|113 इतीत्त्वम्। ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति, ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--`ईत्वसय` इत्यादि। असिद्धत्वान्तु पूर्ववत्॥
गच्छेति । इषुगमियमां च्छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्तेर्धावादेशः । लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युतरसूत्रे उतः, प्रत्ययात् इति यदुपातमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ॥
सिद्धान्तकौमुदी
अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥
अतो हेः - अतो हेः । "अत" इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः "अतो हे" रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः ।
अतो हेः - भवतादिति । लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग्बाधते न तु परमिति भावः॥
लघुसिद्धान्तकौमुदी
अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.