Page loading... Please wait.
6|3|96 - सध मादस्थयोश्छन्दसि
॥ तस्मै पाणिनये नमः ॥
6|3|96
SK 3529
सध मादस्थयोश्छन्दसि   🔊
सूत्रच्छेदः
सध (लुप्तप्रथमान्तनिर्देशः) माद-स्थयोः (सप्तमीद्विवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययम् आदेशो भवति। सधमादो द्युम्निनीरापः। सधस्था।
चरणशब्दोऽयमध्ययननिमित्तमुपादाय पुरुषादिषु वत्र्तते। ब्राहृआ चरतीति ब्राहमचारी, `व्रते` 3|2|80 इति णिनिः। `सब्राहृचारी` इति। पूर्ववत्? कर्मधारयः। सब्राहृचारीत्यस्यायमर्थोऽभिमतः--समाने ब्राहृणि व्रतं चरतीति। एष चात्रार्थो यथोपपद्यते, तथा दर्शयितुमाह--`ब्राहृ वेदः` इत्यादि। तदध्यनार्थ यद्व्रतं तदपि ब्राह्रेति। तादथ्र्यात्? ताच्छब्द्यम्, यथा--इन्द्रार्था स्थूणा इन्द इति। तच्चरतीति तत्? सम्पादयति, परिपालयतीत्यर्थः। केन पुनरसौ समानः? इत्याह--`समानस्तस्यैव` इत्यादि। तस्यैवेति वेदाख्यस्य ब्राहृणः। इतिकरणो हेतौ। यत एव मुपचारेण लब्धब्राहृव्यपदेशं व्रतं यश्चरति ब्राहृणश्च समानत्वादयः समानः स सब्राहृचारी। तेन सबहृचारीत्यस्यायमर्थो भवति--समाने ब्राहृणि व्रतचारीति। यदि ह्रसमाने ब्राहृणि व्रतं चरेत्? तदा समानत्वं न स्यात्। तथापि ब्राहृआख्यं व्रतं न चरेदेवमपि ब्राहृचारित्वं न स्यात्। तस्माद्यः समाने ब्राहृणि ब्राहृचारी, सोऽवश्यं समाने ब्राहृणि व्रतचारीति भवति। सब्राहृचारीत्ययमस्यर्थः सम्पदयते--समाने ब्राहृणि व्रतचारीति। अथ वा--तस्यैवेत्युपचारेण लब्धब्राहृव्यपदेशस्य व्रतस्यात्र पक्षे परमर्शः। समाने ब्राहृणि इत्यत्र ब्राहृशब्दो वेदे वत्र्तते, प्रतिवेदं हि भिद्यते, तदध्ययनार्थं यद्व्रतं तत्र यः समाने वेदेऽध्येतव्ये व्रतं चरति स एव सब्राहृचारीत्युच्यते॥ बाल-मनोरमाज्योतिर्जनपदचरणे ब्राहृचारिणि 998, 6.3.96 ज्योतिर्जनपद। अच्छन्दोऽर्थं वचनमिदम्। सज्योतिरिति। समानं ज्योतिर्यस्येति विग्रहः। एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः सवयाः, सवचनः, सबन्धुः। बाल-मनोरमाचरणे ब्राहृचारिणि 999, 6.3.96 चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। `उत्तरपदे` इत्यधिकृतम्। तदाह--ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। `चरणे` इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह--चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे--चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह--ब्राहृ वेद इति। `वेदस्तत्त्वं तपो ब्राहृए`त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्ध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये`ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। `सुप्यजातौ` इति णिनिः। समानस्य स इति। `समानो ब्राहृचारी`ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति `सब्राहृचारी`ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।
सधमादो द्यौम्नि इति केचिदाहुः । अस्मिन्मन्त्रेद्यौम्निरित्यादिकमपां विशेषणम्, सधमाद इत्यपि तत्समानाधिकरणं शसन्तम्, मादयतेः क्विबन्तस्य रुपम्। मादः च्छन्दसि सधादेशो दृश्यते बहुलम् - आ त्वा वृहन्तो हरयो युजानाः, अर्वागिन्द्रसघमादो वहन्तु इत्यादावपीति । अपर आह - मदनं मादः, मदोऽनुपसर्गे इत्यपि प्राप्ते छान्दसो घञ्, तेन सह वर्तत इति सधमाद इति । रेवतीस्थः सधमादः इत्यादौ तु सधमादौ यज्ञः, सह माद्यन्ति देवा अस्मिन्निति कृत्वा ॥
सिद्धान्तकौमुदी
सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ।
सध मादस्थयोश्छन्दसि - विष्वग्देवयोश्च । "अद्रि" इति लुप्तप्रथमाकम् । अनयोरिति । विष्वग्देवशब्दयोरित्यर्थः । सर्वनाम्न इति । चकारेण "आ सर्वनाम्नः" इत्यतस्तदनुकर्षादिति भावः । अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यम् अश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः । प्रकृते अदसष्टेरद्रआदेशमुदाह्मत्य दर्शयति — अदद्रि अञ्चिति स्थिते इति । अद्रआदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम् । यणिति ।रेफादिकारस्ये॑ति शेषः । अदद्रचित्यतः सुबुत्पत्तिः । अदसो । अदसः, असेः, दात्, उ, दः, म इति च्छेदः । "अदस" इत्यवयवषष्ठन्तम् ।असे॑रिति तद्विशेषणम् । न विद्यते सिर्यस्य स असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.