Page loading... Please wait.
6|3|90 - इदङ्किमोरीश्की
॥ तस्मै पाणिनये नमः ॥
6|3|90
SK 1018
इदङ्किमोरीश्की  
सूत्रच्छेदः
इदम्-किमोः (षष्ठीद्विवचनम्) , ईश्-की (लुप्तप्रथमान्तनिर्देशः)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इदं किम् इत्येतयोरीश् की इत्येतौ यथासङ्ख्यम् आदेशौ भवतो दृग्दृशवतुषु। ईदृक्। ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। किमिंदंभ्यां वो घः 5|2|40 इति वतुप्। दृक्षे चेति वक्तव्यम्। ईदृक्षः। कीदृक्षः।
`द्वयो सहप्रयुक्तयोरप्रधानो यः स द्वितीयः` इति। प्रधानेतरसन्निपाते सत्यप्रधान एव द्वितीयशब्दस्य प्रयोगात्। तथा हि--स्वामिभृत्ययोः सहयुक्तयोर्भृत्य एव स्वामिनं प्रति द्वितीय उच्यते, न तु भृत्यं प्रति स्वामी। `उपाख्यायते यः स उपाख्यः` इति। `आतश्चोपसर्गे` 3|1|136 इति कः, स च भवन्? `कृत्यल्युटो बहुलम्` 3|3|113 इति कर्मणि भवति। `साग्निः कपोतः` इति। पूर्ववद्बहुव्रीहिः। अत्रागनिसहयुक्तः कपोतः, तयोर्हि साहचर्य लोके प्रसिद्धम्। तत्राग्निरप्रधानः। तथा ह्रग्निः कपोतमनुविधत्ते--यत्र हि कपोतस्तत्राग्निनाऽवश्यं भवितव्यम्, न तु यत्राग्निस्तत्र कपोतेनेति नासावग्निमनुविधत्ते, तेन कपोतस्य प्राधान्यम्। अग्न्यादयः पुनरप्रधाना एव। `अग्न्यादयः` इति। अत्रादिशब्देन पिशाचदयो गृहयन्ते। तेन हि क्वचित्? प्रत्यक्षेण उपलभ्यन्ते, अपि तु कपोतादिभिरविनाभाविभिरनुमीयन्त इत्यनुपाख्या भवन्ति॥
इयान्कियानिति । घस्येयादेशे कृते यस्येति च इतीकारलोपः । किमिदम्म्यां वो घ इति वतुबीति । नासतो वतुपो वकारस्य घकारः शक्यो विधातुमिति वतुपोऽप्यनेनैव विधानमिति भावः ॥
सिद्धान्तकौमुदी
दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते ॥ । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः (कौमुदी-430) ॥ । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥
इदङ्किमोरीश्की - इदंकिमोरीश्की । "ईश्"की॑ति द्वे पदे । ईदृक् ईदृश इति । "इदमिव दृश्यते" इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोरीश्की वक्तव्यौ॑ इति शेषः ।आ सर्वनाम्न इति । "आ" इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे "त्यदादिषु दृशः" इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति । तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य॑ इतिं वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियां दर्शयति — दीर्घ इति । अदस आत्त्वे कृते सवर्णदीर्घः । तत ऊत्त्वमत्वे इत्यर्थः ।अः से॑रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.