Page loading... Please wait.
6|3|81 - अव्ययीभावे चाकाले
॥ तस्मै पाणिनये नमः ॥
6|3|81
SK 660
अव्ययीभावे चाकाले  
सूत्रच्छेदः
अव्ययीभावे (सप्तम्येकवचनम्) , च (अव्ययम्) , अकाले (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अव्ययीभावे च समासे अकालवाचिनि उत्तरपदे सहस्य स इत्ययम् आदेशो भवति। सचक्रं धेहि। सधुरं प्राज। अकाले इति किम्? सहपूर्वाह्णम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
अकालवाचिनीति । स्वरुपग्रहणं न भवति , ग्रन्थान्ताधिके च इत्यत्र ग्रन्थग्रहणात्, तद्धि समुहूर्तमित्यादौ यथा स्यादित्येवमर्थम् । यदि यात्र स्वरुपग्रहणं भवति, तदा मुहूर्तादौ निषेधाभावादनेनैव सिद्धत्वादनर्थकं तत्स्यात् । सचक्रमिति । यौगपद्येऽव्ययीभावः । सपुरमिति । ऋक्पूरब्धूः इत्यकारः समासान्तः । सहपूर्वाह्वमिति । साकल्येऽव्ययीभावः ॥
सिद्धान्तकौमुदी
सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
अव्ययीभावे चाकाले - अव्ययीभावे । सहस्य सः स्यादिति ।सहस्य सः संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृस्येति स्वार्थे ष्यञ् । तद्ध्वनयन्नाह — सदृशः सख्या ससखीति ।सहे॑त्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाऽव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्येऽप्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरूक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेस्त्यिर्थः । अनुरूप इति । अनुरूपः=योग्यः, आत्मभावः=स्वभावः । स्वोचितं कर्मेति यावत् । तृणमपीति ।परऽवरयोगे चे॑ति क्त्वा । पराऽवरत्वं बौद्धमेव । सहशब्दोऽत्राऽपरिवर्जने वर्तते, न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत्र आह — साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याऽप्रसक्तेरिति भावः । अन्ते इति । "उदाहरणं वक्ष्यते" इति शेषः । सूत्रेऽन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमित्यादि । अग्निशब्देनाऽग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनाऽन्तावयवेन सहितं ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुव्रीहिः ।ग्रन्थ॑मित्यन्यपदार्थाध्याहारः । अधीत इति तु समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वादग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यानवगमात्साकल्यात्पृथगुक्तिः ।
अव्ययीभावे चाकाले - चक्रेण युगपदिति । अत्र केचित् — युगपच्चक्रमिति समासेनैव भवितव्यं, युगपच्छब्दस्याप्यव्ययत्वात्, किं तु चक्रेणैककालमित्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्येत, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याऽव्ययीभावे औत्सिर्गिकत्वादिति भावः । अन्त इति ।इदानीमेतावान् प्रदेशोऽध्येतव्य॑इति यावतो ग्रन्थप्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहाऽन्तशब्देन विवक्षिता । सा चाऽसकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते । साग्नीति । अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते । स टच तृतीयान्तो नित्यं समस्यते । न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम् । साहित्यमात्रविवक्षायां तत्प्रयोगस्योपपत्तेः । अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दशितः । यत्तु केचित् — अग्निरन्तोऽस्येति प्रथमान्तेनाऽग्रेरन्तत्वमिति षष्ठन्तेना वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठन्तेन वेत्याहुः । तन्न । सहशब्दस्यान्तवाचकत्वाऽभावात् । अन्तत्वस्य तु सुतरामलाभात् । सहयुक्ते तृतीयाया न्याय्यत्वाच्च ।सतृणमत्ती॑त्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्येद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च । अत्रेदं बोध्यम् — -॒तदधीते॑इत्यध्वेतृप्रत्ययस्य वैकल्पिकत्वास्ताग्नीत्यत्राऽण्नोक्तः । कृतेऽप्यध्येत्रणिसर्वादेः सादेश्च लुग्वक्तव्यः॑इति वक्ष्यमाणत्वात्साग्नीत्येव रूपमिति॥
लघुसिद्धान्तकौमुदी
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.