Page loading... Please wait.
6|3|73 - नलोपो नञः
॥ तस्मै पाणिनये नमः ॥
6|3|73
SK 757
नलोपो नञः   🔊
सूत्रच्छेदः
(लुप्तषष्ठीकम् पदम्) (षष्ठ्येकवचनम्) , लोपः (प्रथमैकवचनम्) , नञः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नञो नकारस्य लोपो भवति उत्तरपदे। अब्राह्मणः। अवृषलः। असुरापः। असोमपः। नञो नलोपे ऽवक्षेपे तिङ्युपसङ्ख्यानं कर्तव्यम्। अपचसि त्वं जाल्म। अकरोषि त्वं जाल्म।
सानुबन्धकग्रहणमिह मा भूत्--`पामनपुत्रः` इति। पामान्यस्य सन्तीति `लोमादिपामादि` 5|2|99 इत्यादिना नप्रत्ययः। तदन्तस्य पुत्रशब्देन षष्ठीसमासः। अथ क्रियमाणे सानुबन्धकग्रहणे स्त्रिया अयमिति `स्त्रिपुंसाभ्याम्` 4|1|87 इत्यादिना नञ्--स्त्रैणः, स्त्रैणश्चासावर्थश्चेति स्त्रैणार्थं इत्यत्र कस्मान्न भवति? पूर्वपदभूतस्य नञो ग्रहणात्। कुत एतत्? उत्तरपदस्य सम्बन्धिशब्दत्वात्। पूर्वपदं ह्रपेक्ष्योत्तरपदं सम्भवति। अत उत्तरपदाधिकारात्? पूर्वपदभूतस्यात्र नञो ग्रहणम्। अथ वा--विभाषाग्रहणमनुवत्र्तते, तस्य व्यवस्थितविभाषात्वविज्ञानान्न भविष्यति। यद्येवम्, पामनपुत्र इत्यत्राप्यत एव न भविष्यतीति नार्थः सानुबन्धकग्रहणेन? एवं तर्हि विस्पष्टार्थं सानुबन्धकग्रहणम्। न च `नस्य` इत्युच्यमाने कश्चिल्लाघवकृतो विशेषो भवति। `अवक्षेपे तिङ्युपसंख्यानं कत्र्तव्यम्` इति। अवक्षेपः=निन्दा। उत्तरपदे नलोपो विधीयमानस्तिङन्ते न प्राप्नोति, तस्मात्? तस्योपसंख्यानां कत्र्तव्यम्। ननु चास्त्येवाकारः परतिषेधवाची, `अ मा नो नाः प्रतिषेधवचनाः` इति वचनात्, ततश्च तस्यैवाक्षेपे तिङि प्रयोगो भविष्यतीति किमुपसंख्यानेन? नञोऽपि तह्र्रवक्षेपे तिङि परतः प्रयोगः प्राप्नोति। तस्मादवक्षेपे नञोकृतनलोपस्य प्रयोगनिवुत्त्यर्थमुपसंख्यानं कत्र्तव्यमिति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--`वाचंयमपुरन्दरौ च` 6|3|68 इत्यतश्चकरोऽनुवत्र्तते, स चानुक्तसमुच्यार्थः। तेन तिङन्तेऽप्यवक्षेपे गम्यमाने नञो नलोपो भविष्यति॥
नञः सानुबन्धवस्य ग्रहणम्, पामादिभ्यो नः - पामनपुत्र इत्यादौ मा भूत् । अथ क्रियमाणेऽपि सानुबन्धकग्रहणे स्त्रैणपुत्र इत्यत्र कस्मान्न भवति प्रत्यञित्वस्य वृद्धिस्वरयोश्चरितार्थत्वात्, निपातञित्वस्य चाचरितार्थत्वात्, पूर्वपदेन वा नञ् विशेष्यत इति अपूर्वपदत्वान्न भविष्यति । एवं च कृत्वाऽनुबन्धोच्चारममपि न कर्तव्यम्, अपूर्वपदत्वादेव पामनपुत्रे न भविष्यति । अवक्षेपे तिङीति । अवक्षेपः - निन्दा । नञोऽशिति वा नञोऽनिति वा सिद्धे लोपवचनं साकच्कार्थमित्याहुः ॥
सिद्धान्तकौमुदी
नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥
नलोपः नञः - न लोपो नञः । नेति लुप्तषष्ठीकं पदं । तदाह — नञो नस्येति । उत्तरपदे इति । "अलुगुत्तरपदे" इत्यतस्तदनुवृत्तेरिति भावः ।नञोऽ॑शिति सिद्धे लोपवचनम्-॒अकब्राआहृण॑ इति साकचम्कार्थमित्याहुः । अब्राआहृण इति । अत्रारोपितत्वं नञर्थः । आरोपितत्वं च ब्राआहृणत्वद्वारा ब्राआहृणे अन्वेति । आरोपितब्राआहृणत्ववानिति बोधः । अर्थाद्ब्राआहृणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राआहृणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तं, ब्राआहृणाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाचउत्तरपदार्थप्रधानस्तत्पुरुष॑ इति भाष्योद्धोषो विरुध्येत । किंच-अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात्, तच्छब्दार्थस्य नञर्थं प्रति विशेषणत्वेऽप्रधानत्वात्,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेः । तथा "अस" इत्यादौतदोः सः सावनन्त्ययोः॑ इति सर्वाद्यन्तर्गतत्यदादिकार्यं सत्वं च न स्यात् ।अनेक॑मित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वाऽसंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः तथा सति "अनेकमन्यपदार्थे" इति नोपपद्येत । "एतत्तदोः सुलोपः" इत्यत्र अनञ्समासग्रहणं चात्र लिङ्गम् । तद्धिअसः शिवः॑, "अनेषः शिव" इत्यादौ सुलोपाऽभावार्थम् । तद्भिन्न एतद्भिन्न इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङ्यादिलोपस्य दुर्वारत्वात्तद्वैयथ्र्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विसत्रस्तु प्रौढमनोरयायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तुतत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इति पठित्वा-अब्राआहृणः, अपापम् , अनआः, अनुदरा कन्या, अपशवो वा अन्ये गोअओभ्यः, अधर्मं इत्युदाजहः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः ।
नलोपः नञः - नलोपो नञः ।नञोऽशि॑ति वक्तव्ये नलोपवचनं साकच्कार्थं, तेन नञोऽकचिअकब्राआहृणः॒॑अकनश्च॑इत्यादि सिद्धमित्याहुः । उत्तरपदे इति ।अलुगुत्तरपदे॑इत्यधिकारादिति भावः । उत्तरपदे किम् । घटो नास्ति । पटो नास्ति । नन्वेवमपिस्त्रैणाऽर्थः॑ इत्यत्र नलोपः स्यादिति चेदत्राहुः — उत्तरपदाक्षिप्तपूर्वपदेन नञं विशेष्यपूर्वपदभूतस्य नञः॑इति व्याख्यानान्न भवति ।स्त्रीपुंसाभ्या॑मिति विहितस्य नञ्प्रत्ययस्याऽपूर्वपदत्वात् । अतएव चाऽत्रप्रत्ययाऽप्रत्ययोः प्रत्ययस्यैव ग्रहण॑मिति परुभाषा नोपतिष्ठते । न च प्रत्ययग्रहणे तदन्तग्रहणान्नञप्रत्ययान्तस्य पूर्वपदत्वं संभवत्येवेतिप्रत्ययाप्रत्यययो॑रित्येतदुपतिष्ठत एवेति वाच्यं,ह्मदयस्य ह्मल्लेके॑ति सूत्रेऽण्ग्रहणात्पृथग्लेखग्रहणेनउत्तरपदा धिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑ति ज्ञापनात् । यद्वाअमूर्धमस्तकात्॒विभक्तावप्रथमाया॑मित्यादिज्ञापकात्नलोपो नञः॑ इत्यत्राऽव्ययमेव नञ् गृह्रते, न तु प्रत्यय इति ।
लघुसिद्धान्तकौमुदी
नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥
महाभाष्यम्
नलोपो नञ्ञः (2932) (नलोपाधिकरणम्) (अनुबन्धप्रयोजनभाष्यम्) किमर्थं नञ्ञः सानुबन्धकस्य ग्रहणं क्रियते, न नस्य इत्येवोच्येत ? नस्य इतीयत्युच्यमाने कर्णपुत्रः ‐ - पर्णपुत्रः इत्यत्रापि प्रसज्येत । नैष दोषः । अर्थवद्ग्रहणे नानर्थकस्य इत्येवमत्र न भविष्यति । एवमपि प्रश्नपुत्र ‐ - विश्नपुत्रः इत्यत्रापि प्राप्नोति । नैष दोषः । अननुबन्धकग्रहणे न सानुबन्धकस्य इत्येवमस्य न भविष्यति । एवमपि वामनपुत्र ‐ - पामानपुत्रः इत्यत्रापि प्राप्नोति । तस्मात् सानुबन्धकग्रहणं कर्तव्यम् ।। (6479 उपसंख्यानवार्तिकम् ।। 1 ।।) - नञ्ञो नलोपे अवक्षेपे तिङ्युपसंख्यानम् - नञ्ञो नलोपेऽवक्षेपे तिङ्युपसंख्यानं कर्तव्यम् । अपचसि वै त्वं जाल्म । अकरोषि वै त्वं जाल्म ।।