Page loading... Please wait.
6|3|52 - पादस्य पदाज्यातिगोपहतेषु
॥ तस्मै पाणिनये नमः ॥
6|3|52
SK 990
पादस्य पदाज्यातिगोपहतेषु   🔊
सूत्रच्छेदः
पादस्य (षष्ठ्येकवचनम्) , पद (लुप्तप्रथमान्तनिर्देशः) आजि-आति-ग-उपहतेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पादस्य पद इत्ययम् आदेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु। पादाभ्यम् अजति इति पदाजिः। पादाभ्याम् अतति इति पदातिः। अज्यतिभ्यां, पादे च इत्यौणादिकः इण् प्रत्ययः। तत्र अजेर् वीभवो न भवति अत एव निपातनात्। पादाभ्यां गच्छति इति पदगः। पादेन उपहतः पदोपहतः। पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि 6|2|48 इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति। पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य एव अन्तोदात्तत्वम्।
`पदाजिः` इति। `अज गतिक्षेपणयोः` (धातुपाठः-230)। `पदातिः` इति। `अत सातत्यगमने` (धातुपाठः-38)। `अज्यतिभ्याञ्च पादे च` इत्यौणादिक इण्प्रत्ययः` इति। अत्र `जनिघसिभ्यामिण्` (द।उ।1।58) इत्यत इष्ग्रहणानुवृत्तेः। यदौणादिक इण्प्रत्ययः, एवं सति तत्र `अजेव्र्यघञपोः` 2|4|56 इति वीभावः कस्मान्न भवति? इत्याह--`तत्र` इत्यादि। `पदगः` इति। `अन्तात्यन्ताध्वदूरपार` 3|2|48 इत्यादौ सूत्रे `डप्रकरणऽन्यत्रापि दृश्यते इति वक्तव्यम्` (वा।256) इत्युक्तम्। तेन पादशब्देऽप्युपपदे गमेर्डप्रत्ययः। `पदोपहतः` इति। `कर्त्तृकरणे कृता बहुलम्` 2|1|31 इति समासः, पूर्वत्र तूपपदसमासः। अकारान्तोऽयमादेशः। प्रथमायाश्च लुकं कृत्वा निर्देश। `पादशब्दोऽयम्` इत्यादि। `कर्षात्वतो घञोऽन्त उदात्तः` 6|1|153 इत्यन्तोदात्तत्वे प्राप्ते पादशब्दस्य वृषदित्वादाद्युदात्तत्वं विधीयते, ततश्च तस्य स्थाने पदादेशो विधीयमान आन्तरतम्यादाद्युदात्त एव स्यात्? अन्तोदात्तश्चेष्यते। तस्मादान्तोदात्तो निपात्यते उपदेशावस्थायामेव। `तेन` इत्यादिनान्तोदात्तनिपादनस्य फलं दर्शयति। `पदाजिः, पदातिः` इत्यादिनाप्युपदेशग्रहणस्य। यदि `गतिकारकोपपदात्? कृत्` 6|2|138 इति प्रकृतस्वरे कृते पदशब्दस्यान्तोदात्ततवं निपात्यते, तदा तस्य सतिशिष्टत्वं स्यात्, ततश्च पदाजिः पदातिः पदग इत्येषु कृत्स्वरो बाध्यते; सतिशिष्टस्वरस्य बलीयस्त्वात। उपदेशावस्थायांत्वन्तोदात्तत्वनिपातने कृत्स्वर एव सतिशिष्टो भवति। अतस्तेन समासस्यैवान्तोदात्तत्वं भवति न पदशब्दस्य॥
आकारान्तोऽयमादेशोऽविभक्तिकः । अज्यतिभ्यामिति । अज गतिक्षेपथणयोः, अत सातत्यगमने । पदग इति । डप्रकरणेऽन्यत्रापि दृश्यते इति डः । अपदेश एवेति । समसनक्रियानन्तरमेव प्रागेव समासस्य प्राप्तस्वरादित्यर्थः । अन्तोदातो निपात्यत इति । अन्यथाऽऽन्तर्यत आद्यौदातः स्यात् । तेनेत्यादिना अन्तोदातनिपातनस्य प्रयोजनमाह । पदाजिरित्यादिनोपदेशग्रहणस्य । यदि वृत्स्वरे कृते सत्युतरकाले पदशब्दोऽन्तोदात आदेशः स्यात्, तदा सतिशिष्टत्वातेन कृत्स्वरो बाध्येत । उपदेश एव त्वान्तोदातादेशे कृत्वस्वर एव सतिशिष्टो भवति । न चान्तोदातनिपात्नस्य वैयर्थ्यम, पदोपहत इत्यत्र श्रूसमाणत्वादिति पिण्डार्थः ॥
सिद्धान्तकौमुदी
एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च (कौमुदी-570) इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥
पादस्य पदाज्यातिगोपहतेषु - पादस्य पद ।पदे॑ति लुप्तप्रथमाकं पृथक्पदम् । एष्विति । आजि, आति, ग, उपहत-इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः । अजतीति ।अज गतिक्षेपणयोः॑ । पदातिरिति । पादाभ्यामततीति विग्रहः । "अत गतौ" अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः ।अजी॑त्यस्यअजेव्र्यघञपो॑रिति वीभावमाशङ्क्याह — अजेव्र्यभावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः ।गमश्च॑,अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॑ इति सूत्रस्थेनअन्येभ्योऽपि दृश्यते॑ इति वार्तिकेन गमधातोर्ङः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु "पद्ग" इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे "पदुपहत" इति स्यात् ।
पादस्य पदाज्यातिगोपहतेषु - पादस्य पद । उत्तरसूत्रे पद्ग्रहणात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक् । तदाह — अदन्त आदेश इति । तेन पदगः इत्यादि सिद्धम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पादस्य पदाज्यातिगोपहतेषु (2911) (पदादेशाधिकरणम्) (6453 उपसंख्यानवार्तिकम् ।। 1 ।।) - पदादेशेऽन्तोदात्तनिपातनं पदोपहतार्थम् - पदादेशेऽन्तोदात्तनिपातनं कर्तव्यम् । किं प्रयोजनम् ? पदोपहतार्थम् । पादेनोपहतं ‐ - पदोपहतम् । तृतीया कर्मणि 6|2|48 इति पूर्वपदप्रकृतिस्वरत्वे पूर्वपदान्तोदात्वं यथा स्यात् ।। (6454 उपसंख्यानवार्तिकम् ।। 2 ।।) - उपदेशिवद्वचनं च स्वरसिद्ध्यर्थम् - उपदेशिवद्भावश्च वक्तव्यः ।। किं प्रयोजनम् ? स्वरसिद्ध्यर्थम् । उपदेशावस्थायामन्तोदात्तनिपातने कृते समासस्वरेण बाधनं यथा स्यात् । पदाजिः, पदातिः ।।