संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयथ्र्यं स्यात्। प्रतिषिद्धे ह्रात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकत्र्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। `द्वादश` इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं `द्वाविंशतिः` इत्यादावपि वेदितव्यम्। `द्वौमातुरः` इति। द्वयोर्मात्रोरपत्यमिति विगृह्र तद्धितार्थे समासः, ततः `मातुरुत्संख्यासम्भद्रपूर्वायाः`
4|1|115 इत्यण्; उकारश्चान्तादेशः। `द्वित्राः` इति। द्वौ वा त्रयो वेति विगृह्र `सङ्ख्ययाव्यय`
2|2|25 इत्यादिना बहुव्रीहिः, `बहुव्रीहौ संख्येये`
5|4|73 इत्यादिना डच्? समासान्तः, टिलोपः। `द्विदशाः` इति। पूर्ववड्डच्, बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज्? न प्रयुज्यते। `द्व्यशीतिः` इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः। `प्राक्? शतात्` इत्यादि। शतात्? प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा चत्वरिंशत`
6|3|48 इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक्? शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात्? कार्यं भवतीति वेदितव्यम्।