Page loading... Please wait.
6|3|44 - नद्याः शेषस्यान्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
6|3|44
SK 986
नद्याः शेषस्यान्यतरस्याम्   🔊
सूत्रच्छेदः
नद्याः (षष्ठ्येकवचनम्) , शेषस्य (षष्ठ्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम्। कश्च शेषः? अङी च या नदी ङ्यन्तं च यदेकच्। ब्रहमबन्धूतरा, ब्रहमबन्धुतरा। वीरबन्धूतरा। वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा। कृन्नद्याः प्रतिषेधो वक्तव्यः। लक्ष्मीतरा। तन्त्रीतरा।
`भाषितपुंस्कादनूङ्` 6|3|33 इति निवृत्तम्। `कश्च शेषः` इति। यदि पूर्वसूत्रेण यस्य ह्यस्वो न विहितः स शेषः, ततो यद्भाषितपुंस्कं यच्च भिन्नायामाकृतौ भाषितपुंस्कं नैचाच्? तस्यापि शेषत्वं स्यात्, ततश्चामलकीतरा, द्रोणीतरेत्यत्रापि विकल्पेन ह्यस्वत्वपं स्यात्। न ह्रत्र ह्यस्वत्वं पूर्वसूत्रेण विहितमित्यभिप्रायेणाऽ‌ऽह--`अङी च या नदी ङ्यन्तश्च यदेकाच्` इति। एतेन श्रुतापेश्रयाऽत्र शेषत्वामाश्रीयते, न तु यस्य ह्यस्वो न विहितः, तदपेक्षयेति दर्शयति। कथं पुनरेतल्लभ्यते? शेषग्रहणात्। अन्तरेणापि शेषग्रहणं शेषस्यैव विकल्पेन ह्यस्वत्वं भविष्यति। तथा हि यदि ङ्योऽनेकाचो भाषितपुंस्कस्यापि विभाषा ह्यस्वः स्यात्, तदा पूर्वयोग एवेदमन्यतरस्यांग्रहणं कुर्यात्। इह कारणाद्यस्य पूर्वेण ह्यस्वो न विहितस्तस्यैव पाक्षिकं ह्यस्वत्वमन्तरेणापि शेषग्रहणं शेषस्यैव भविष्यतीत्यवसीयत इति किं शेषग्रहणेन? तत्? क्रियते `ङ्योऽनेकाचः` 6|3|43 इति पूर्वसूत्रे योऽच्? श्रूयते तदपेक्षया शेषो विज्ञायत इत्येवमर्थम्। न चमलकीतरा, द्रीणीतरेत्यत्र श्रुतापेक्षया शेषत्वमुपपद्यते; ङ्योऽनेकाच्त्वात्। तस्मान्न भवत्यत्र ह्यस्वत्वप्रसङ्गः। `स्त्रीतरा` इति। स्त्यायतेर्डट्? डित्वाट्टिलोपः, वलिलोपश्च 6|1|64 , टित्वान्? ङीप्। वक्तवयः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--अन्यतरस्यांग्रहणस्य व्यवस्थितविभाषाविज्ञानात्? कृन्नद्या न भविष्यतीति। `लक्ष्मीतरा` इति। `अवितृस्तृतन्त्रिभ्य ईः` (द।उ।1।82) `र्लक्षेर्मुट्? च`, (द।उ।1।84) इतीकारप्रतययान्तो लक्ष्मीशब्दो व्युत्पादितः। कृन्नद्ययं भवति॥
भाषितपुंस्कादनूङ् इति निवृतम् । कश्च शेष इति । यदि च यत्र पूर्वसूत्रेण ह्रस्वो न विवत्रितः स शेषः, ततो यदभाषितपुंस्कम्, यच्च भिन्नायामाकृतौ भाषितपुस्कमनेकाज ङ्यन्तं तस्यापि ह्रस्वत्वं प्रसज्यते - आमलकीतरा, द्रीणीतरेति । अत्रापि पूर्वेण विहितत्वादिति प्रश्नः । पूर्वसूत्रे यत्साक्षात् श्रुतं तदपेक्षः शेष इत्युतरम् । शेषग्रहणं शक्यमकर्तुम्। कथम् नद्या अन्यतरस्यां ह्रस्व इत्युत्सर्गः, तस्यानेकाच ईतो नित्यह्रस्वत्वमपवादः, तस्मिन्नित्ये प्राप्ते उगितश्च इति विभाषाऽऽरभ्यते । यद्येवम्, नद्या अन्यतरस्याम् इत्यत्र भाषितपुंस्कादित्यनुवर्त्यते, द्रोणीतरा - तात्रापि प्राप्नोती, तस्मात्कर्तव्यं शेषग्रहणम् । तस्मिश्च क्रियमाणे एश्रुतापेक्षं शेषत्वं यथा विज्ञायेतेति पूर्वसूत्रे ङीग्रहणमपि कर्तव्यम् । लक्ष्मीत्रेति । अवितृस्ततन्विभ्य ईः लक्षेर्मुट् च इतीकारप्रत्ययान्तो लक्ष्मीशब्द इति कृन्नद्यन्तो भवति । स तर्हि प्रतिषेधो वक्तव्यः न वक्तव्यः कथम् स्त्रिया इत्युनुवर्तते, तेन नदआआ विशेषयिष्यामः स्त्रिया नद्या इति न च कुन्नदी स्त्रीवाचिनी । नदीसंज्ञाऽपि तर्हि न प्राप्नोति उक्तोऽत्र परिहारो नदीसंज्ञाप्रकरणे ॥
सिद्धान्तकौमुदी
अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ ।कृन्नद्या न (वार्तिकम्) ॥ लक्ष्मीतरा ॥
नद्याः शेषस्यान्यतरस्याम् - नद्याः शेषस्या । उक्तादन्यः शेषः । "ङ्यन्तस्यानेकाच" इति पूर्वसूत्रे स्थितं, तदन्यत्वं च अनेकाचो ङ्यन्तत्वाऽभावे ङ्यन्तस्यानेकाच्त्वाभावेऽपि संभवति । तदाह — अङ्यन्तनद्या ङ्यन्तस्यैकाचश्चेति । "ऊङुतः" इति ब्राहृबन्धुशब्द ऊङन्तः । भाषितपुंस्कस्येति तु नैहानुवर्तत इत्यबिप्रेत्योदाहरति — स्त्रितरेति । कृन्नाद्या नेति । कृदन्ता या नदी तस्या ह्यस्वो नेतिवाच्यमित्यर्थः । लक्ष्मीतरेति । "लक्षेर्मुट् च" इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः ।
नद्याः शेषस्यान्यतरस्याम् - उक्ताद्नयशेषः, स च द्विदेत्याह — अङ्यन्तेति । उपलक्षणमेतत् । भाषित्पुंस्केत्यपि नेह संबध्यत इत्याशयेनाह — स्त्रीतरेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.