Page loading... Please wait.
6|3|41 - जातेश्च
॥ तस्मै पाणिनये नमः ॥
6|3|41
SK 842
जातेश्च  
सूत्रच्छेदः
जातेः (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जातेश्च स्त्रियाः न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचिभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनि इत्येव, कठमानिनी। बह्वृचमानिनीइ। अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न इष्यते। हस्तिनीनां समूहो हास्तिकम्।
`कठीभार्यः` इति। कठशब्दात्? `जातेरस्त्रीविषयादयोपधात्? 4|1|63 इति ङीष्। जातित्वं त्वस्य `गोत्रञ्च चरणैः सह` (4.1.63; मा। भा।2।225) इति लक्षणेन।`अयम्` इत्यादि। `भस्याढे तद्धिते` (वा।731) इत्यौपसंख्यानिको यः पुंवद्भावस्तस्यायं प्रतिषेधो नेष्यते। यस्मादस्य प्रतिषेधस्य बाधनार्थमुत्तरसूत्रे पुंवदिति योगविभागः कत्र्तव्य इत्यभिप्रायः॥
कठबहूवृचयोः गौत्रं च चरणौः सह इति जातित्वान् ङीष् । अयमित्यादि । व्याख्यानमत्र शरणम् ॥
सिद्धान्तकौमुदी
जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे (कौमुदी-3928) इति तु भवत्येव ॥
जातेश्च - जातेश्च । "ईत" इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याह — जातेः परोः यः स्त्रीप्रत्यय इति । शूद्राभार्य इति ।शूद्रा चामहत्पूर्वे॑ति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राआहृणीभार्य इति । पुंवत्त्वनिषेदान्न शाङ्र्गरवादिङीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्रअचित्तहस्ती॑ति ठकि हस्तिनीशब्दस्य "भस्याऽढे" इति कथं पुंवत्त्वंजातेश्चे॑ति निषेधादित्यत आह — सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । "भस्याऽढे" इति तु वार्तिकमिति भावः । एतच्च "न कोपधायाः" इति सूत्रे भाष्ये स्पष्टम् ।
जातेश्च - जातेश्च । यद्यत्रजातेरित्येव विहित॑ इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणेऔपसङ्ख्यामिकस्य नायं निषेद॑इति भाष्योक्तिर्न सङ्गच्छेत । हस्तिन्शब्दात्जाते॑रिति ङीष्न विहितः, अदन्तत्वाऽभावात्, किं तुऋन्नेभ्यः॑इति ङीब्विहित इति पुंवद्भावनिषेधस्याऽप्रसक्तेरत आह — जातेः पर इति । एवं चहस्तनीभार्यः॑, इत्यादावपि निषेधः सिध्यतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.