Page loading... Please wait.
6|3|2 - पञ्चम्याः स्तोकादिभ्यः
॥ तस्मै पाणिनये नमः ॥
6|3|2
SK 959
पञ्चम्याः स्तोकादिभ्यः  
सूत्रच्छेदः
पञ्चम्याः (षष्ठ्येकवचनम्) , स्तोकादिभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अलुग्  6|3|1 उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्तोकान्मुक्तः। अल्पान्मुक्तः। उत्तरपदे इति किम्? निष्क्रान्तः स्तोकात् निस्तोकः। अन्यार्थम् इदम् उत्तरपदग्रहणम् इह अप्यलुको निवृतिं करोति इत्येवम् अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या। अलुगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात्। पञ्चम्याः स्तोकाऽदिभ्यः 6|3|2। स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादगतः अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनाम् अनभिधानात् समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति। तेन अत्र न कदाचिदैकपद्यम् ऐकस्वर्यं च भवति। ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम्। ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते।
स्तोकादय इति प्रातपदिकगणेषु न पठन्ते। तस्मात्? सूत्रपरिपठिता एवेह ग्रहीतव्या इति दर्शयन्नाह--`स्तोकान्तिकदुरार्थकृच्छ्राणि` इत्यादि। अथ `करणे` च` 2|3|33 इत्यादौ सूत्रे ये परिपठिताः स्ताकादयस्ते कस्मान्न गृह्रन्ते? एवं मन्यते--`ङसेः स्तोकादिभ्यः` इति वक्तव्ये `पञ्चम्याः` इति बहुतराक्षरनिर्देशेनैतत्? सूचितम्--येषु स्ताकादिषु गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति ते ग्रहीतव्याः` इति। स्तोकान्तिकदूरार्थकृच्छ्राणीत्येतेष्वेव [`दूरार्थ` इति नास्ति मुद्रिते न्यासपाठे] गृह्रमाणेषु बहुतरलक्ष्यसंग्रहो भवति, तत्रार्थग्रहणात्; न त्वितरेषु। तस्मादेषामेव ग्रहणं न्याव्यमिति। कथं पुनरत्र लुक्? प्राप्नोति, यस्मिन्? प्राप्ते प्रतिषेधोऽयं क्रियते? इत्याह--`समासे कृते` इत्यादि। समासे कृते सति तस्य `कृत्तद्धितसमासाश्च` 1|2|46 इति प्रातिपदिकत्वम्, अतः `सुपो धातुप्रातिपदिकयोः` 2|4|71 इति सुपो लुकि प्राप्ते प्रतिषेधोऽयमुच्यते। किं पुनः कारणमेकवचनान्तानां स्तोकादीनामलुगुदाह्यियते, न द्विवचनबहुवचनान्तानाम्? इत्याह--`द्विवचनबहुवचनान्तानाम्` इत्यादि। वृत्तौ हि विशेषणपदान्येकत्वादिकां संख्यां विहायाभेदैकत्वसंख्यां प्रतिपद्यन्ते। सा पुनः सख्यानमात्रमनुपात्तसंख्याविशेषं सामान्यभूतम्; यत एवमतो विवक्षितार्थानभिधानादद्विवचनबहुवचनान्तनां समासो न भवत्येव। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। `तेन` इत्यादि। यत एवं द्विवचनबहुवचनान्तानां स्तोकादीनां समासो न भवति, तेन स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्त इत्यत्र न कदाचिदैकपद्यमैकस्वर्य च भवति। स्तोकाभ्यामित्यस्माद्धि पदान्मुक्त इत्येतत्? पदमन्यदेवात्यन्तभिन्नम्, तथा स्तेकेभ्य इत्यस्मान्? मुक्त इत्येतत्। स्वरोऽप्यत्रानेक एव। तथा हि--`स्तोकाभ्याम्` इत्येतत्? प्रातिपदिकस्वरेम मध्योदात्तम्, `मुक्तः` इत्येतत्? प्रत्ययस्वरेणान्तोदात्तम्। एवम्? `स्तोकेभ्यो मुक्तः` इत्यत्रापि नानास्वरता वेदितव्या। मूलोदाहरणे तु समासे सत्येकपद्यं भवति, स्वरोऽप्येक एव। तथा हि--थाथादि 6|2|143 सूत्रेणात्रान्तोदात्तत्वम्। यदि द्विवचनबहुवचनान्तानां समासो न भवतीह तर्हि कथं भवति--गोषुचरः वर्षासुज इति? विवक्षितार्थाभिधानात्। अनभिधानं ह्रसमासे हेतुरुक्तः, इह तु विवक्षितार्थस्यार्थस्य बहुवचनस्याभिधानमस्त्येव। यत्र ह्रभेदैकत्वसंख्योपजायते, तत्र संख्याविशेषस्याभिधानं न भवति, न चात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिदानादभेदैकत्वसंख्या नोपपद्यते। तथा हि--गोषुचर इत्यत्र गोशब्दोऽप्सु वर्तते, स चापोऽभिदधानो बहुत्वसंख्याविशिष्ट एवाभिदधाति, अप्शब्दवत्। वर्षासुज इति--वर्षाशब्दोऽपि कालविशेषे बहुत्वसंख्याविशिष्ट एव वर्तते। अतः प्रापिपदिकेनैव बहुत्वसंख्याया आश्रितत्वान्नात्राभेदैकत्वसंख्योपजायते। यदि तु जायेत, तदा बहुत्वसंख्या निवर्तेत, ततश्च गोशब्दस्य वर्षाशब्दस्य च यः प्रातिपदिकार्तोऽभिप्रेतः स इह न गम्येत। तस्मान्माभूद्गोशब्दवर्षाशब्दयोरभिप्रेतस्यार्थस्यानवगतिरिति नात्राभेदैकत्वसंख्योपजायते। ततश्च विवक्षितार्थाभिधानाद् गोषुचरः, वर्षासुज इत्यत्र भवत्येव समासः। `ब्राआह्रणाच्छंसिन उपसंख्यानं कर्तव्यम्` इति। ब्राआहृणाच्छंसीति योऽयं शब्दस्तस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। किं पुनरत्र न सिध्यति? पञ्चमीति। ब्राआहृणशब्देनात्राध्ययनविशेष उच्यते, तं शंसति=कथयति यः सः ब्राआहृणाच्छंसीति ताच्छिलिको णिनिः। अत्र ब्राआहृणशब्दात्? `कर्मणि द्वितीया` 2|3|2 इति द्वितीयायां प्राप्तायां पञ्चम्युपसंख्येया। अलुक्पुनः `तत्पुरुषे कृति बहुलम्` 6|3|13 इत्येव सिद्धः। यदा तु ब्राआहृणादाकृष्यावयवमर्थं वा शंसतीति विवक्ष्यते, तदा पञ्चम्यपि नोपसंख्येया। `अपादाने पञ्चमी` 2|3|28 इत्येवमेव तस्याः सिद्धत्वात्। कथं पुनरत्रासता पञ्चम्यर्थेन व्युत्पत्तिः क्रियते? इत्याह--`क्रत्विग्विशेष` इत्यादि। रूढिः=प्रसिद्धिः, संज्ञेति यावत्। तस्या इत्यनेन रूढिमात्रं प्रत्यवमृश्यते, न तु ब्राआहृणाच्छंसीत्ययं रूढिशब्दः। रूढिशब्दः कस्याचिदेव ऋत्विग्विशेषस्य वाचकः, तत्रैव तस्य संज्ञात्वेन प्रणीतत्वात्। तस्मात्? तस्याप्यसता सता वावयवार्थेन व्युत्पत्तिः क्रियते। तत्र यदि ब्राआहृणं शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्यापादानस्याभावादसतावयवार्थेन व्युत्पत्तिः क्रियते। यद#आ तु ब्राआहृणादवयबार्थं वा गृहीत्वा शंसतीत्ययमर्थो विवक्ष्यते, तदा पञ्चम्यर्थस्य भावात्? सता॥
स्तोकादीनां प्रतिपदिकगणेऽपाठात्सूत्रपठितानां ग्रहणमित्याह - स्तोकान्तिकदूरार्थकृच्छाणि स्तोकादीनीति । करणे च स्तोकाल्पकृच्छ्र इत्यादीनि तुस्तोकादीनि न गृह्यन्त अव्याप्तः । स्तोकान्तिक इत्यत्रत्यानि भूयिष्ठानि अर्थग्रहणात् । अलुग्भवतीति । लुग्न भवतीत्यर्थः । सुपो लुकि प्राप्त इति । सुपो धातुप्रातिपदिकयोः इत्यनेन । प्रतिषेधः क्रियत इति । अलुगिति प्रसज्यप्रतिषेध इति दर्शयति, उतरपदाधिकारोपजीवनाय तु नाव्ययीभावात् इत्यस्यानन्तरमिदं प्रकरणं नारब्धम्, एकवच्च, सर्वस्यालुक्प्रकरणस्य शेषभूतोऽयमर्थातिदेशः, यस्या विभक्तेरलुग्विधीयते, तदर्थो द्व्यात्मको बह्वात्मकर्श्चैकवद्भवतीति वक्तव्यम् । तेन स्तोकाभ्यां मुक्तः, स्तोकेभयो मुक्त इत्यपि विग्रहे स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इत्यत्राप्यैकपद्यमैकस्वर्यं स्यात् नैष दोषः, स्तोकादिभ्यः प्रतिपदं या पञ्चमी - करणे च स्तोकाल्प इति, तस्य अलुक्, सा चासत्ववचनेभ्यो द्विबह्वोर्न सम्भवतीति स्तोकाभ्याम्, स्तोकेभ्य इत्यपादान एषां पञ्चमीत्येव न भविष्यति । एवमपि दूराभ्यामागतः, दुरेभ्य आगत इत्यत्र प्रसङ्गः अत्र हि दूरान्तिकार्थेभ्यो द्वितीया च इति प्रतिपदमेव पञ्चमी । तथाऽन्तिकाभ्यां कृतम्, अन्तिकेभ्यः कृतमित्यादावप्यलुक्प्रसङ्गः तस्मादेकवच्चेति वक्तव्यम् । ननु वृतावुपसर्जनपदानि एकादिसङ्ख्यां विहायाभेदैकत्वासङ्ख्यां प्रतिपद्यन्ते, का पुनरियमभेदैकत्वसङ्ख्या विशेषाणामविभागेनावस्थानम्, यथा - मधुन्योषधिरसानाम्, न हि तत्रास्या ओषधेरयंरसोऽस्या अयमिति विभागो दृश्यते, अथ च त एव विशेषा अनुभूयन्ते न पुना रससामान्यम्, तद्वदत्रापि राजपुरुष तैति राजार्थो नैकत्वादिविशेषाः । उक्तं च - यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥ इति । यद्वा - अनुपातसङ्ख्याविशेषमेकत्वादिष्वनुगतं सामान्यमभेदैकत्वसङ्ख्या, यथा सन्तमसे रुपमात्रं एगृह्यते न पुनः शुक्ल इति वा, कृष्ण इति वा, तद्वदत्रापीति सङ्ख्यावान् राजार्थः, न चाव्ययार्थवन्निःसङ्ख्य इत्येतावत्प्रतीयते । उक्तं च भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । व्यापारज्जातिभागस्य भेदापोहेन वर्तते ॥ अन्तर्हितविशेषेण यथा रुपेण रुपनान् । प्रख्यायते न शुक्लादिभेदो रुपस्य गम्यते ॥ इति । एतदेवमभेदैकत्वसङ्ख्योपादानाद् द्विवचनबह्वचनान्तानां सर्वा वृत्तिर्न भवति, किं पुनः समास एव, ततश्च समासाभावादलुग्न भविष्यतीति किमेकवद्भवेन उच्यते किं पुनः कारणम् - वृतावभेदैकत्वसङ्ख्या प्रतीयते सङ्ख्याविशेषप्रतिपादकाभावात् । विभक्तिर्हि तस्य प्रतिपादिका, सा च वृतौ निवृता, निवृतायां च तस्याम् त्रिकऋ प्रातिपदिकार्यः इति पक्षे सङ्ख्यासामान्यस्यापि तावत्प्रदिपादकाभावः । यदि परं गुड इत्युक्ते माघुर्यादिवदव्यभिचारात्सङ्ख्या प्रतीयते, अव्यभिचारश्च चसामान्यस्यानियतस्य वा विशेषस्येति, सैवाभेदैकत्वसङ्ख्या । पञ्चकपत्रेऽपि सङ्ख्याविशेषप्रतिपतौ द्योतकत्वेनापि तावद् विभक्तयोऽपेक्ष्यन्त इति तदभावात्सामान्योऽनियते वा विशेषः प्रतीयत इति सैवाभेदैकत्वसङ्ख्या । यत्र ह्यर्थप्रकरणादिकं विशेषावगतौ प्रमाणं भवत्येव तत्र वृत्तिथः । तद्यथा, अर्याद् मुद्गौः क्रीतं मौद्गिकम्, न ह्यएकेन मुद्गेन क्रयः सम्भवति, कारकमध्य इति च, न ह्यएकस्य मध्यं सम्भवति प्रकरणात् - भवद्गिरामवसरप्रदानाय इति आदेशात् - तावकीनो मामकीन इति शैषिकः । मासजात इत्यादौ तु प्रातिपदिकार्थस्यैवाक्तपरिमाणत्वात् । द्विपुत्र इत्यादौ सङ्ख्याशब्दसन्निधानात् । तदेवं यत्र विषेषे प्रमाणाभावस्तत्राभेदैकत्वसङ्ख्या । यद्येवम्, अत्रालुकि सति विभक्तिरेव प्रमाणमिति द्विवचनबहुवचनान्तानां समास स्यादेव यदा त्वर्थप्रकरणादिना विशेषावगतौ द्विवचनबहुवचनान्तानां वृत्तिर्भवति तदा का शङ्घा विभक्तावेव सत्याम् । यदि चाभेदैकत्वसङ्ख्योपजनाद् द्विचनबहुवचनयोरलुगभावः, एकवचनस्यापि न स्यात्, तस्यापि हि सुद्धमेकत्वं वाच्यम्, माभेदैकत्वसङ्ख्या । अथ विभाक्त्यभावे सङ्ख्यासामान्यस्य प्रतीतस्य विषेषपयेवसानापेक्षायां यो हि बहून् कल्पयति कल्पयत्यसावेकमिति न्यायेन वृतावपि शुद्धमेकत्वं प्रतीयत इत्युच्येत, अभैदैकत्वसङ्ख्येत्यनुपपन्नं स्यात्। तस्मादेकवचनान्तम्य, द्विवचनान्तस्य, बहुवचनान्तस्य वा यथेष्ट्ंअ वृत्तिः, वृतौ एचाभेदैकत्वसङ्ख्या, अर्थप्रकरणादिना विशेषावगतिरिति वाच्यम्। एवं च पूर्वोक्तेन न्यानेन द्विवचनबहुचनयोरलुक्प्रसङ्गादतिदेश आश्रयितव्यः । यद्येवम्, गोपुचरः अप्सुयोनिः, अप्सव्य इति ये नित्यबहुवचनान्ताः तेषा मप्यलुकि एकत्वातिदेशादेकवचनप्रसङ्गः एवं तर्ह्यनभिधानमत्र हेतुः । तदाह द्विवचनबहुवचनान्तानां त्वनभिधानादिति । वाक्यमपि तर्हि न प्राप्नोति । न च वाच्यम् - समासे नास्त्यभिधानम्, वाक्ये पुनरस्तीति । नु हि समाससंज्ञाऽर्थाभिधाने उपयुज्यते, यत्पुनरुपयुज्यते - प्रातिपदिकम्, विभक्तिश्च, तत्सर्वमविकलमिति किमत्रानभिधानं करिष्यति । तत्राह - तेनात्रेत्यादि । स्वरस्याप्यर्थाभिधान उपयोगात्, पृथक्स्वरयुक्तस्य वाक्यस्य प्रतिपादकत्वमैकस्वर्ययुक्तस्य समासस्याप्रतिपादकत्वं च युक्तमित्यर्थः । ब्राह्मणाच्छ्ंअसिन इत्यादि । किं पुनरत्रोपसङ्ख्यायते द्वितीयार्थे पञ्चमी, ब्राह्मणानि शंसति ब्राह्मणच्छ्ंअसी, अलुक् तु तत्पुरुषे कृति बहुलम् इत्येव सिद्धः । ननु शास्राण्यसौ शंसति, न ब्राह्मणानि नैष दोषः ब्राह्मणविहितेषु शास्रेषु ब्राह्मतणशब्दो द्रष्टव्यः । अपर आर - युक्त एवात्र पञ्चम्यर्थः, आहरणपूर्वके शंसने शंसतिर्वर्तते, ब्राह्मणादाहृत्य सूक्तानि शंसतीति ब्राह्मणाच्छ्ंअसी । एवमापि होतृप्रभृतिष्वपि ब्राह्मणाच्छ्ंअसीति प्राप्नोति तत्राह - ऋत्विग्विशेषस्य रुढिरियमिति । तस्या इति । ब्राह्मणाच्छ्ंअसीत्यस्या रुढेअरित्यर्थः । सतेति । ब्राह्मणाच्छ्ंअसीत्यत्र पक्षे पञ्चम्यर्थो न सम्भवति, पक्षान्तरे तु सम्भवति ॥
सिद्धान्तकौमुदी
एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ।ब्राह्मणाच्छंसिन उपसंख्यानम् (वार्तिकम्) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥
पञ्चम्याः स्तोकादिभ्यः - पञ्चम्याः स्तोकादिभ्यः । एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्या "सुपो धातु" इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति । उत्तरशब्दः समासचरमावयवे रूढः, "पदे" इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः ।स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने॑ति समासः । अत्र पञ्चम्या अलुक् । एवमिति । आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः । निःस्तोक इति ।निरादयः क्रान्ताद्यर्थे पञ्चम्ये॑ति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न । "स्तोकान्मुक्तः" इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च । किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति ।पञ्चम्या अलु॑गिति शेषः । ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते,कर्मचोदना ब्राआहृणानि॑ इति कल्पसूत्रात्,शेषे ब्राआहृणशब्दः॑ इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम्ऋचः शंसति निविदः शंसती॑ति श्रुतिष्वित्यत आह — ब्राआहृणे इति । शस्त्राणीति । ऋचा निविदां च सङ्घः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थे इति । पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः ।
पञ्चम्याः स्तोकादिभ्यः - हलः । र॒संप्रसारणस्ये॑त्यनुवर्तते ।अङ्गस्ये॑त्यवयवषष्ठी ।हल॑ इति पञ्चमी । तदेतदाह — अङ्गावयवादिति । अङ्गावयवात्किम् । निरुतम् । दुरुतम् । तदन्ताङ्गस्य किम् । विध्यति । क्षीष् हिंसायाम् । षित्त्वादङ् ।क्षिया॑ ।हेति क्षियायाम् ।क्षियाशी॑रित्यादौक्षिया धर्मव्यतिक्रम आचारभेद॑ इति वक्ष्यति । दीर्घनिर्देशसामथ्र्यादिति । ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम् । अन्यथा ज्ञाजनोर्जं विदध्यात्,अतो दीर्घो यञी॑ति दीर्घसिद्धेः । तथा च दीर्घनिर्देशसामथ्र्यस्योपक्षयात्कथमिह ह्यस्वाऽभावसिद्धिरिति चेत् । अत्राहुः — ह्यस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः । सति तु ह्यस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः । तथा च ह्यस्वाऽभावसिद्धौ न किंचिद्बाधकमिति । किंचअङ्गवृत्ते पुनरङ्गवृत्तावविधि॑रित्येव परिभाषाशरीरम् । तञ्चोक्तज्ञापकात्सिद्धम् । यदि तुभ्यसो भ्य॑मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते । तस्मस्तु पक्षे दीर्घग्रहणसामथ्र्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति । केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्यस्व इति व्याख्येयमित्याहुः । बध्नातीति ।अनिदिता॑मिति नलोपः । अभान्त्सीदिति ।वदव्रजे॑ति वृद्धिः । भष्भावः । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धत्वम् ।झरो झरी॑ति वा लोपः । वृङ् संभक्तौ । भक्तिर्भजनम् । श्रन्थ । कित्त्वपक्षे इति ।श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे॑ति व्याकरणान्तरमित्युक्तत्वात् ।
लघुसिद्धान्तकौमुदी
अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥
महाभाष्यम्
पञ्चम्याः स्तोकादिभ्यः (2861) (6391 उपसंख्यानवार्तिकम् ।। 1 ।।) - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानम् - पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम् । ब्राह्मणाच्छंसी ।। (6392 पञ्चम्यर्थकथनवार्तिकम् ।। 2 ।।) - अन्यार्थे च - अन्यार्थे चैषा पञ्चमी द्रष्टव्या । ब्राह्मणानि शंसतीति ब्राह्मणाच्छंसी ।। अथवा युक्त एवात्र पञ्चम्यर्थः । ब्राह्मणेभ्यो गृहीत्वा ‐ - आहृत्याहृत्य शंसतीति ब्राह्मणाच्छंसी ।।