Page loading... Please wait.
6|3|139 - सम्प्रसारणस्य
॥ तस्मै पाणिनये नमः ॥
6|3|139
SK 1004
सम्प्रसारणस्य  
सूत्रच्छेदः
सम्प्रसारणस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1 संहितायाम्  6|3|114
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत्तरप्दे इति वर्तते। सम्प्रसारणान्तस्य पूर्वपदस्य उत्तरपदे दीर्घो भवति। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदीगन्धीपतिः। करीषस्य इव गन्धो ऽस्य, कुमुदस्य इव गन्धो ऽस्य, अल्पाख्यायाम् 5|4|136, उपमानाच् च 5|4|137 इति इकारः समासान्तः। करीषगन्धेरपत्यम् कारीषगन्ध्या। कुमुदगन्धेरपत्यम् कौमुदगन्ध्या, तस्याः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगधीपतिः। इको ह्रस्वो ऽङ्यो गालवस्य 6|3|61 इत्येतन् न भवति। व्यवस्थितविभाषा हि सा। अकृत एव दीर्घत्वे ह्रस्वभावपक्षे कृतार्थेन अपि दीर्घेण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते। पुनः प्रसङ्गविज्ञानं च न भवति, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितम् एव इति। इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः। षष्ठाध्यायस्य चतुर्थः पादः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । [(परिभाषा - ) स्त्रीप्रत्यये चानुपसर्जनेन] इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सम्प्रसारणस्य - संप्रसारणस्य ।उत्तरपदे॑इत्यधिक्रियते ।ढ्रलोपे॑इत्यतोदीर्घ॑ इत्यनुवर्तते । तदाह — -दीर्घः स्यादुत्तरपद इति ।हलः॑इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः । कौमुदगन्ध्याया इति । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या ।तस्यापत्य॑मित्यणि कृतेअणिञो॑रिति ष्यङादेशः ।यङश्चाप् । ननुकौमुदगन्धीपुत्रः॑इत्यादौइको ह्यस्वोऽङ्योगालवस्ये॑ति ह्यस्वेन भाव्यं, दीर्घविधानं तु पक्षे सावकाशमित्यत आह — व्यवस्थितविभाषयेति । नेहेति संप्रसारणमिह नेत्यर्थः । अतिकारीषेति । कारीषगन्ध्यामतिक्रान्तोऽतिकारकीषगन्ध्यः, तस्य पुत्रः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सम्प्रसारणस्य (2998) (6498 विप्रतिषेधवार्तिकम् ।। 1 ।।) - इको ह्रस्वात्सम्प्रसारणदीर्घत्वं विप्रतिषेधेन - इको ह्रस्वात्सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन । इको ह्रस्वस्यावकाशः ‐ - ग्रामणिकुलम्, सेनानिकुलम् । सम्प्रसारणदीर्घत्वस्यावकाशः ‐ - विभाषा ह्रस्वत्वम्, यदा न ह्रस्वत्वं सोऽवकाशः । ह्रस्वप्रसङ्ग उभयं प्राप्नोति ‐ - कारीषगन्धीपुत्रः, कौमुदगन्धीपुत्रः । सम्प्रसारणदीर्घत्वं भवति विप्रतिषेधेन ।। अथेदानीं दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् ह्रस्वत्वं कस्मान्न भवति ? सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ‐ - इति ।। इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य तृतीये पादे तृतीयमाह्निकम् ।। इति पादश्च तृतीयः ।।