Page loading... Please wait.
6|3|137 - अन्येषामपि दृश्यते
॥ तस्मै पाणिनये नमः ॥
6|3|137
SK 3539
अन्येषामपि दृश्यते   🔊
सूत्रच्छेदः
अन्येषाम् (षष्ठीबहुवचनम्) , अपि (अव्ययम्) , दृश्यते (तिङन्तपदम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1 संहितायाम्  6|3|114
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्येषाम् अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। केशाकेशि। कचाकचि। जलाषाट्। नारकः पूरुषः। शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु। श्वादन्तः। श्वादंष्ट्रः। श्वाकर्णः। श्वाकुन्दः। श्वावराहः। श्वापुच्छः। श्वापदः।
`एकचितीकः` इति। एका चितिरस्येति बहुव्रीहिः, ततः `स्त्रियाः पुंवत्` 6|3|33 इत्यादिना पुंवद्भावः, `शेषाद्विभाषा` 5|4|154 इति कप्॥
अञ्चतिर्गृह्यत इति । चवर्गस्य तु ग्रहणं न भवति व्याख्यानात् । दघीच इति । ननु चान्तरङ्गत्वाद्यणादेशेनैव प्राग्भवितव्यम्, अकारलोपो भस्य विधीयते, भसंज्ञा च यकारादावजादौ च सम्भवतीति बहिरङ्गः, दीर्घत्वं तु लोपमपेक्षत इति बहिरङ्गम् अत आह - अन्तरङ्गोऽपीति । एवं मन्यते - इह दीर्घश्रुत्या अचश्च इत्युपतिष्ठते, तत्राचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । यदि च यणाअदेशः स्यान्न क्वाप्यजन्तपूर्वपदं स्यात् । प्राच इत्यादावपि पूर्वमेव सवर्णदीर्घत्वप्रसङ्गः, तस्मादन्तरङ्गोऽपि विधिर्बाध्यत इति । अत्र च लिङ्गं प्रतीच इति निर्देशः ॥
सिद्धान्तकौमुदी
अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ।
अन्येषामपि दृश्यते - अन्येषामपि दृश्यते । अनुवर्तते इति । ढ्रलोपे इत्यत॑ इति शेषः ।नहिवृतिवृषी॑त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्क्याह — कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति ।बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ॑ इत्यर्थः । तेनतुराषा॑डित्यादौ दीर्गो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ।इच्कर्मव्यतिहारे इति सूत्रेणे॑ति शेषः । तिष्ठधुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र "अव्ययीभावः" इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति ।अव्ययीभावश्चे इत्यनेने॑ति शेषः । "अव्ययादाप्सुपः" इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति ।परस्पर॑मिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरंस्थितयो॑रित्यद्याहारात् । ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् । पूर्वपदस्य दीर्घः । इच्समासान्तः ।यस्येति चे॑त्यकारलोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति । अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, "यस्येति च" इति अकारलोपः । अव्ययत्वात्सुब्लुक् । भुष्टीमुष्टीति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टआ मुष्टआ इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् ।मुष्टामुष्टी॑ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव ।ओर्गुणः । ओरित्युकारात्षष्ठएकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । "नस्तद्धिते" इत्यनुवर्तते । तदाह — उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच् ।यस्येति चे॑ति बाधित्वा ओर्गुणः, अवादेशः । अव्ययत्वात्सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात्ओरो॑रित्येव सिद्धे "गुण" इति गुरुनिर्देशो व्यर्थं इत्यत आह — ओरोदिति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नचओ॑दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः । संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः ।स्वायम्भुव॑मिति पाठे तस्येदमित्यण् । हलेन मुसलेनेति । अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः ।
अन्येषामपि दृश्यते - अन्येषामपि दृश्यते । अत्र प्राचादृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम्, आत्वं वाऽनचि॑ इत्युक्तम् । तत्रआत्वं वा॑इत्यपाणिनीयम् । अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव । एतच्च मनोरमायां स्पष्टम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.