Page loading... Please wait.
6|3|13 - बन्धे च विभाषा
॥ तस्मै पाणिनये नमः ॥
6|3|13
SK 971
बन्धे च विभाषा   🔊
सूत्रच्छेदः
बन्धे (सप्तम्येकवचनम्) , च (अव्ययम्) , विभाषा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अलुग्  6|3|1 उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
बन्धः इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्र विभाषेयम्। स्वङ्गाद् धि बहुव्रिहौ पूर्वेण नित्यम् अलुक् प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच् च नैन्सिद्धबध्नातिसु च 6|3|19 इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव, गुप्तिबन्धः।
`स्वाङ्गात्` 6|3|11 इति निवृत्तम्, सामान्येन विधिः। `बन्धे` इति। बध्नातेरेतद्रूपम्। `नेन्त्सिद्धबध्नातिषु च` 6|3|18 इत्यनेन तत्पुरुषे बध्नातौ प्रतिषेधं वक्ष्यन्ति। तत्र विषयविभागो न ज्ञायते--तत्पुरुषे क्व च प्रतिषेधः? इत्यतस्तत्परिज्ञानार्थमाह--`बन्ध इति धञन्तो गृह्रते` इति। बन्धनं बनधः, भावे घञ्। अनेन धञन्ते बध्नातौ विभाषा। प्रत्ययान्तरे तु प्रतिषेध इति दर्शितं भवति। कथं पुनज्र्ञायते--घञन्तोऽयमिति? आद्युदात्तत्वात्। `हस्तेबन्धः` इति। तत्पुरुषः, बहुव्रीहिर्वा। `उभयत्र` इति। प्राप्ते चाप्राप्ते च कथं पुनरुभयत्र विभाषेयम्? इत्याह--`स्वाङ्गाद्धि` इत्यादि॥
स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु च इति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्ए प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसणेóगे परत्वात्प्रतिषेध एव स्यात् ॥
सिद्धान्तकौमुदी
हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥
बन्धे च विभाषा - बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे — हलदन्तादिति । बस्तेबन्ध इति । संज्ञायामिति सप्तमीत्तपुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, "बन्ध" इति घञन्तम्, अन्यत्र तुनेन्सिद्धे॑ति निषेध इति स्पष्ट भाष्ये ।
बन्धे च विभाषा - बन्धे च विभाषा । बन्ध इति घञन्तः । हस्तेबन्ध इति । बहुव्रीहिरयम् । तत्पुरुषे तु नेन्सिद्धबन्धातिषु चेति वक्ष्यमाणेन निषेध एवेत्याहुः । अप्सव्य इति । दिगादित्वाद्यति ओर्गुणे वान्तादेशः । प्राचा तु यतः स्थाने जं पठित्वा अप्सुजः इत्युदाह्मतं, तदाकरविरुद्धम् । अपो योनियन्मतुषु । अप्सुमन्ताविति । कारीर्याम् अप्स्वग्ने सधिष्ठव अप्सु मे सोमो अब्रावीदित्याज्यभागमन्त्रौ स्तः । तत्र ह्रप्सुशब्दोऽस्तीति तद्द्वारा आज्यभागयोरप्यप्सुमत्त्वम् । प्राचा तु मतिषु इति पठित्वा अप्सुमतिः इत्युदाह्मतम् । अत्र केचित् — - अप्स्वित्येतदनुकरणशब्दः सप्तम्यन्तो न वा । आद्ये सप्तम्यान्तात्प्रथमाया अभावेन मतुबेव दुर्लभः । अन्त्ये तु लुकः प्राप्तिरेव नास्ति, सप्तम्यभावात् । तथा च मतिषु इति प्राचोक्तः पाठ एव युक्तः । न च स पाठो भाष्यादौ न दृष्ट इति वाच्यं, मतिषु इति पाठस्य अप्सुमतिः इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्काप्यदर्शनात्, व्यर्थत्वाच्च । अस्यवामीयं कथाशुभीयम् इत्यादाविव लुकि कर्तव्ये प्रकृतिप्रकृतिवदनुकरणमित्यतिदेशाऽप्रवृत्त्यैवेष्टसिद्धेरित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बन्धे च विभाषा (2872) (विषयनिर्धारणे पूर्वपक्षिभाष्यम्) स्वाङ्गग्रहणमनुवर्तते, उताहो न । किं चातः ? यद्यनुवर्तते, सिद्धम् ‐ - हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्ध इति न सिध्यति । अथ निवृत्तम्, सिद्धम् ‐ - चक्रेबन्धः, चक्रबन्धः । हस्ते बन्धः, हस्तबन्ध इति न सिध्यति । किं कारणम् ? नेन्सिद्धबध्नातिषु च 6|3|39 इति प्रतिषेधः प्राप्नोति ।। (विषयनिर्धारणे सिद्धान्तभाष्यम्) नैष दोषः । सर्वत्रैवोत्तरपदाधिकारे तत्पुरुषे कृति बहुलम् (14) इति प्राप्ते नेन्सिद्धबध्नातिषु इति प्रतिषेध उच्यते, तस्मिन्नित्ये प्राप्ते इयं विभाषा आरभ्यते ।। एवमपि न ज्ञायते ‐ - कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेध इति । घञ्ञन्तस्येदं बन्धशब्दस्य ग्रहणम्, प्रतिषेधेषु च धातुग्रहणम् । तेन घञ्ञन्ते विभाषा, अन्यत्र प्रतिषेधः ।।