Page loading... Please wait.
6|3|122 - उपसर्गस्य घञ्यमनुष्ये बहुलम्
॥ तस्मै पाणिनये नमः ॥
6|3|122
SK 1044
उपसर्गस्य घञ्यमनुष्ये बहुलम्  
सूत्रच्छेदः
उपसर्गस्य (षष्ठ्येकवचनम्) , घञि (सप्तम्येकवचनम्) , अमनुष्ये (सप्तम्येकवचनम्) , बहुलम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1 संहितायाम्  6|3|114
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपसर्गस्य घञन्ते उत्तरपदे अमनुष्ये ऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति। प्रसेवः। प्रसारः। सादकारयोः कृत्रिमे दीर्घो भवति। प्रासादः। प्राकारः। कृत्रिमे इति किम्? प्रसादः। प्रकारः। वेशादिषु विभाषा दीर्घो भवति। प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्ये इति किम्? निषादो मनुष्यः।
`ऊढः, ऊढवान्` इति। यजादित्वात्? सम्प्रसारणम्। `सम्प्रसारणाच्च` 6|1|104 इति परपर्वत्वम्, दीर्घत्वं च। तत्रेदानीमसत्यवर्णग्रहणे ऊकारस्याप्योत्त्वं स्यात्। ननु च सम्परसारणादिभ्यः परत्वादोत्त्वेन भवितव्यम्, तथा च भाव्ये `उभयोर्नित्ययोः परत्वादोत्त्वेन भवितव्यम्, आत्वे कृते सम्प्रसारणम्, सम्प्रसारणे कृते सम्परसारणपरपूर्वत्वम्, कृतकार्यत्वात्? पुनरोत्त्वं न भविष्यति` इति। तस्माद्भवितव्यमेवौत्त्वेन, तस्मिन्? सति पश्चा सम्प्रसारणादिभिः। न चैवं किञ्चिदनिष्टमापद्यत इति नार्थो वर्णग्रहणेन। एवं तह्र्रवर्णग्रहणं कुर्वन्नेतज्ज्ञापयति--क्वचित्? `सम्प्रसारणं तदाश्रयञ्च कार्यं बलीयो भवतीति। तेन यदुक्तम्--`सम्प्रसारणं सम्प्रसारणाश्रयञ्च कार्यं बलीयो भवति` (पु।प।वृ।103) इति तदुपपन्नं भवति। `वर्णग्रहणं किम्` इति। `ओदस्य` इतावत्यपि सति सोढा, सोढुमित्यादि सिध्यत्येवेत्यभिप्रायः। `कृतायामपि` इत्यादि। उत्पूर्वाद्वहेर्लृङि च्लिः, `च्लेः सिच्` 3|1|44 तसस्ताम्, थसस्तम्? अडागमः, ढत्वादेरसिद्धत्वात्? ततः पूर्वम्? `वदव्रज` 7|2|3 इत्यादिना वृद्धिः, ततो ढत्वादि। अथेदानीमसति वर्णग्रहणे मात्रिकस्याकारस्योच्यमानमोत्त्वं दीर्घस्य न स्यात्, वर्णग्रहणाद्वर्णमात्रस्य भवतीति सिद्धम्--उदवोढाम्, उदवोढमिति? ननु च `अणुदित्? सवर्णस्य चाप्रत्ययः` 1|1|68 इत्यकारो गृह्रमाण आकारमपि ग्राहयिष्यति, तत्? किं वर्णग्रहणेन? इत्यत आह--`तादपि परः` इत्यादि। `तपरस्तत्कालस्य` 1|1|69 इत्यत्र तादपि परस्तपर इत्ययमपि समास आश्रितः खट्वैडका, खट्वैतिकायनः--इत्येवमादिषु त्रिमात्रिके चतुर्मात्रिके वत्र्तमानस्यैकारस्य वृद्धिसंज्ञा मा भूदित्येवमर्थम्। तत्रासति वर्णग्रहणेऽकरस्य तपरत्वादाकारो न गृह्रेत्? ततश्च तस्योत्त्वं न स्यात्। तस्मादवर्णमात्रस्य यथा स्यादित्येवमर्थ वर्णग्रहणं कत्र्तवयम्। तादपि परस्तपरः--इत्यस्य च समासस्यैतदेव वर्णग्रहणं ज्ञापकं वेदितव्यम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥
उपसर्गस्य घञ्यमनुष्ये बहुलम् - उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः ।चजोः कु घिण्ण्यतो॑रिति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः ।हलश्चे॑त्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः ।
उपसर्गस्य घञ्यमनुष्ये बहुलम् - घञन्त इति । निषाद इति । पुलिन्दो मनुष्यजातिः ।निषीदत्यस्मिन्पाप॑मिति निषादः ।हलश्चे॑त्याधिकरणे घञ् । कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत् । अत्राहुः — प्रतीहारो द्वारम् । तास्थ्यात्ताच्छब्द्यमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपसर्गस्य घञ्ञ्यमनुष्ये बहुलम् (2981) (उपसंख्यानभाष्यम्) अमनुष्यादिष्विति वक्तव्यम् । इह मा भूत् ‐ - प्रसेवः, प्रसारः, प्रहारः ।। (6496 उपसंख्यानवार्तिकम् ।। 1 ।।) - सादकारयोः कृत्रिमे - सादकारयोः कृत्रिम इति वक्तव्यम् । इहैव यथा स्यात् ‐ - एषोऽस्य प्रासादः । एषोऽस्य प्राकारः । कृत्रिम इति किमर्थम् ? एषोऽस्य प्रकारः । एषोऽस्य प्रसाद इति ।। (6497 उपसंख्यानवार्तिकम् ।। 2 ।।) - प्रतिवेशादीनां विभाषा - प्रतिवेशादीनां विभाषा दीर्घत्वं वक्तव्यम् । प्रतिवेशः, प्रतीवेशः । प्रतिकारः, प्रतीकारः ।।