Page loading... Please wait.
6|3|112 - सहिवहोरोदवर्णस्य
॥ तस्मै पाणिनये नमः ॥
6|3|112
SK 2357
सहिवहोरोदवर्णस्य   🔊
सूत्रच्छेदः
सहि-वहोः (षष्ठीद्विवचनम्) , ओत् (प्रथमैकवचनम्) , अवर्णस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
ढ्रलोपे  6|3|111 (सप्तम्येकवचनम्)
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
उत्तरपदे ढ्रलोपे सहि-वहोः अवर्णस्य ओत्
सूत्रार्थः
ढकारलोपे कृते सह्-धातोः वह्-धातोः च अवर्णस्य ओकारादेशः भवति ।
सह्-धातोः तथा वह्-धातोः विषये ढो ढे लोपः 8|3|13 इत्यनेन यदि ढकारलोपः भवति तर्हि तदनन्तरम् ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इत्यनेन अण्-वर्णस्य दीर्घादेशे प्राप्ते तस्य अपवादत्वेन वर्तमानसूत्रेण एतयोः धात्वोः अकारस्य ओकारादेशः भवति । यथा -

1. सह्-धातोः लुट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -
सह् + लुट् [अनद्यतने लुट् 3|3|15 इति लुट्-लकारः]
→ सह् + तास् + लुट् [स्यतासी लृतुटोः 3|1|33 इति विकरणम् "तास्"]
→ सह् + ता + तिप् [तिप्तस्... 3|4|78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् "तिप्"]
→ सह् + ता + डा [लुटः प्रथमस्य डारौरसः 2|4|85 इति तिप्-प्रत्ययस्य डा-आदेशः]
→ सह् + त् + आ [टेः 6|4|143 इति टिसंज्ञकस्य लोपः]
→ सढ् + त् + आ [हो ढः 8|2|31 इति अपदान्तहकारस्य झलि परे ढकारः]
→ सढ् + ध् + आ [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ सढ् + ढ् + आ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ सढ् + आ [ढो ढे लोपः 8|3|13 इति ढकारलोपः]
→ सोढ् + आ [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इत्यनेन ढकारलोपे प्राप्ते तस्य अपवादत्वेन सहिवहोरोदवर्णस्य 6|3|112 इति सह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]
→ सोढा

2. वह्-धातोः तुमुन्-प्रत्ययान्तरूपम्
वह् + तुमुन् [तुमुण्वुलौ क्रियायां क्रियार्थायाम् 3|3|10 इति तुमुन्]
→ वह् + तुम् [इत्संज्ञालोपः]
→ वढ् + तुम् [हो ढः 8|2|31 इति अपदान्तहकारस्य झलि परे ढकारः]
→ वढ् + धुम् [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ वढ् + ढुम् [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ व + ढुम् [ढो ढे लोपः 8|3|13 इति ढकारलोपः]
→ वोढुम् [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इत्यनेन ढकारलोपे प्राप्ते तस्य अपवादत्वेन सहिवहोरोदवर्णस्य 6|3|112 इति वह्-धातोः सकारात् परस्य अकारस्य ओकारादेशः]

ज्ञातव्यम् - अस्मिन् सूत्रे "ओत्" इत्यत्र तपरकरणम् "अवर्णस्य" इत्यस्य कृते अस्ति । अतः अत्र केवलं ह्रस्व-अकारस्यैव ओकारादेशः भवति, दीर्घ-अकारस्य न । अतएव "विश्ववाह्" , "तुरासाह्" एतादृशैः प्रातिपदिकैः निर्मितानाम् धातूनां विषये अस्य सूत्रस्य प्रसक्तिः न भवति ।
One-line meaning in English
After doing the ढकारलोप, the अकार of the verb roots सह् and वह् is converted to ओकार.
काशिकावृत्तिः
सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्य इति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायाम् अपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्।
अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि॥
ऊढ इति । अत्रासत्यावर्णग्रहणे वह् - त इति स्थिते न तावदोत्वं ढलोपनिमित्त्व्अत् । अत्र एपूर्वत्रासिद्धम् इति ढत्वादीनामसिद्धत्वात्पूर्वं यजादित्वात्सम्प्रसारणम्, तस्मिन्कृते पूर्वत्वे वोकारस्योत्वं प्राप्नोति । भाष्वे त्वावर्णग्रहणं प्रत्याख्यातम् । अन्तरङ्गणि ढत्वादीनि, वर्णाश्रयत्वात् बहिरङ्गं सम्प्रसारण्, प्रत्ययविशेषत्वातस्याप्यसिद्धत्वात् पूर्वत्रासिद्धम् इत्यस्यानुपस्थानम् । यद्वा - ढलोपस्यौत्वदीर्घविधौ निमितत्वेनाश्रयणादत्र विषये ढत्वादीनामसिद्धत्वं नास्ति, ततः प्रागेव सम्प्रसारणात्परत्वात् ढत्वादिषु कृतेषु वढ इति स्थिते सम्प्रसारणं च प्राप्नोति, ओत्वं च परत्वादोत्वम्, ततः सम्प्रसारणम् । पूर्वत्वं च न पुनरोत्वम्, तस्मन्नेव प्रयोगे कृतत्वातदभावे निमितसद्भावाद् दीर्घत्वं प्रवर्तिष्यत इति । वर्णग्रहणं किमिति । ओदस्येति वक्तव्यमिति प्रश्नः । कृतायामपीत्यादि । उत्पूर्वाद्वहेर्लुङ् तामाइदिषु सिचि वृद्धौ सलोपढत्वादीनि । तत्रेदानीमसति वर्णग्रहणे मात्रिकस्योच्यमानो दीर्घस्य न स्यात । नन्ववर्णः सवर्णान् गृह्णातीत्याकारस्यापि ग्रहणं भवति तत्राह - तादपि परस्तपर इति । इदमेव वर्णग्रहणं लिङ्गं तपरस्तत्कालस्य इत्यत्र पञ्चमीसमासोऽप्याश्रीयत इति । तेनैतन्न चोदनीयम् - सहिवहोरस्यैत् इत्येवं कस्मान्न कृतमिति ॥
सिद्धान्तकौमुदी
अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥
सहिवहोरोदवर्णस्य - सहिवहोः । ढलोपे इति । "ढ्रलोप" इत्यतस्तदनुवृत्तेरिति भावः । "रलोप" इति तु नानुवर्तते, असंभवात् । तथा चसकारादकारस्य ओत्वे सोढेति रूपम् ।परिसोढे॑त्यत्र "परिनिविभ्य" इति षत्वे प्राप्ते —
सहिवहोरोदवर्णस्य - इह रेफलोपस्याऽसंभवात्ढ्रलोपे पूर्वस्ये॑त्यतोढलोप॑ एवानुवर्तते । तदाह — ढलोप इति । ढलोपे किम् । सहते । वहते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सहिवहोरोदवर्णस्य (2971) (वर्णग्रहणप्रयोजनभाष्यम्) वर्णग्रहणं किमर्थम्, न सहिवहोरोदस्य इत्येवोच्येत ? वृद्धावपि कृतायामोत्त्वं यथा स्यात् । उदवोढाम्, उदवोढम्, उदवोढेति ।। (अवर्णप्रयोजनभाष्यम्) अथावर्णग्रहणं किमर्थम् ? इह मा भूत् ‐ - ऊढः, ऊढवानिति । नैतदस्ति प्रयोजनम् । भवत्येवात्रौत्त्वम् । श्रवणं कस्मान्न भवति ? पूर्वत्वमस्य भविष्यति । इदमिह संप्रधार्यम् ‐ - ओत्त्वं क्रियतां पूर्वत्वमिति, किमत्र कर्तव्यम् ? परत्वादोत्त्वम्, अन्तरङ्गं पूर्वत्वम् ।। एवं तर्हीदमिह संप्रधार्यम् ‐ - ओत्त्वं क्रियतां संप्रसारणमिति, किमत्र कर्तव्यम् ? परत्वादोत्त्वम् । नित्यं संप्रसारणम्, कृतेऽप्योत्त्वे प्राप्नोत्यकृतेऽपि । ओत्त्वमपि नित्यम् । कथम् ? कृतेऽपि संप्रसारणे प्राप्नोत्यकृतेऽपि । अनित्यमोत्त्वम् । न हि कृते संप्रसारणे प्राप्नोति । किं कारणम् ? अन्तरङ्गं पूर्वत्वम् । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न च संप्रसारणमेवौत्त्वस्य निमित्तं विहन्ति, अवश्यं लक्षणान्तरं पूर्वत्वं प्रतीक्ष्यम् । उभयोर्नित्ययोः परत्वादोत्त्वम् । ओत्त्वे कृते सम्प्रसारणे कृते संप्रसारणपरपूर्वत्वम् । तत्र कार्यकृतत्वात् पुनरोत्त्वं न भविष्यति ।।