Page loading... Please wait.
6|3|111 - ढ्रलोपे पूर्वस्य दीर्घोऽणः
॥ तस्मै पाणिनये नमः ॥
6|3|111
SK 174
ढ्रलोपे पूर्वस्य दीर्घोऽणः  
सूत्रच्छेदः
ढ्रलोपे (सप्तम्येकवचनम्) , पूर्वस्य (षष्ठ्येकवचनम्) , दीर्घः (प्रथमैकवचनम्) , अणः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
ढ्रलोपे पूर्वस्य अणः दीर्घः
सूत्रार्थः
ढलोपनिमित्तके ढकारे परे ढकारलोपे कृते , रलोपनिमित्तके रेफे परे रलोपे कृते वा, तस्मात् पूर्वस्य अण्-वर्णस्य दीर्घः भवति ।
अस्य सूत्रस्य सामान्यरूपेण यः अर्थः भासते - "ढकारलोपे / रेफलोपे च पूर्वस्य अण्-वर्णस्य दीर्घः स्यात्" - अयम् अर्थः अत्र न अभिप्रेतः अस्ति । सम्यक् सूत्रार्थः एतादृशः अस्ति -

(1) यदि ढकारात् परः ढकारः आगच्छति, तर्हि पूर्वढकारस्य ढो ढे लोपः 8|3|13 अनेन सूत्रेण लोपः भवति । एतादृशम् ढकारलोपे कृते तस्मात् लुप्तढकारात् पूर्वस्य अण्-वर्णस्य (= अ/इ/उवर्णस्य) अनेन सूत्रेण दीर्घः भवति ।
यथा - गुह् -धातोः क्त-प्रत्ययान्तरूपम् "गूढः" एतादृशम् सिद्ध्यति -
गुह् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ गुढ् + त [हकारस्य हो ढः 8|2|31 इति झलि परे ढकारः]
→ गुढ् + ध [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ गुढ् + ढ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वे धकारस्य ढकारः]
→ गुढ [ढो ढे लोपः 8|3|13 इति ढकारे परे ढकारस्य लोपः । ष्टुत्वम् अस्य कृते सिद्धम् अस्ति ।]
→ गूढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति उकारस्य दीर्घः । ढकारलोपः अस्य कृते सिद्धः अस्ति ।]

(2) यदि रेफात् परः रेफः आगच्छति, तर्हि पूर्वरेफस्य रो रिः 8|3|14 अनेन सूत्रेण लोपः भवति । एतादृशम् रेफलोपे कृते तस्मात् लुप्तरेफात् पूर्वस्य अण्-वर्णस्य (= अ/इ/उवर्णस्य) अनेन सूत्रेण दीर्घः भवति ।

यथा - पुनर् + रमते
→ पुन रमते [रो रि 8|3|14 इति रेफस्य लोपः]
→ पुना रमते [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति अकारस्य दीर्घः]

स्मर्तव्यम् - अस्मिन् सूत्रे अण्-प्रत्याहारेण अ-इ-उ-वर्णाः गृह्यन्ते । अतः ऋकारस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -
तृहूँ हिंसायाम् अस्य धातोः क्त-प्रत्ययान्त-रूपस्य प्रक्रिया इयम् -
तृह् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ तृढ् + त [हो ढः 8|2|31 इति हकारस्य झलि परे ढकारः]
→ तृढ् + ध [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ तृढ् + ढ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वे धकारस्य ढकारः]
→ तृढ [ढो ढे लोपः 8|3|13 इति ढकारे परे ढकारस्य लोपः । ष्टुत्वम् अस्य कृते सिद्धम् अस्ति ।]
अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति यतः अण्-प्रत्याहारे ऋकारः न स्वीक्रियते ।

अत्र बिन्दुद्वयम् स्मर्तव्यम् -
1. अस्य सूत्रस्य प्रसक्तिः तदा एव अस्ति यदा ढकारलोपः ढो ढे लोपः 8|3|13 इत्यनेन क्रियते, तथा रेफलोपः रो रिः 8|3|14 इत्यनेन क्रियते । अन्येन सूत्रेण एतादृशः लोपः भवति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, "अनीयर्" इत्यस्य रेफस्य हलन्त्यम् 1|3|3 इत्यनेन लोपे कृते वर्तमानसूत्रस्य प्रयोगं कृत्वा यकारस्य दीर्घादेशः न भवति ।
2. यद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् अस्ति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं त्रिपाद्याः सूत्राभ्याम् अनन्तरम् एव क्रियते, अतः त्रिपाद्याः ढो ढे लोपः 8|3|13 तथा रो रिः 8|3|14 एते द्वे सूत्रे वर्तमानसूत्रार्थम् निर्देशसामर्थ्यात् सिद्धे स्तः ।

प्रश्नः - ढ्रलोपे पूर्वस्य दीर्घोऽणः 6|3|111 अस्मिन् सूत्रे "पूर्वस्य" एतत् पदम् किमर्थम् प्रयुक्तम् अस्ति? "ढ्रलोपे" इति सप्तमीनिर्दिष्टं पदम् अस्ति, अतः तस्मिन्निति निर्दिष्टे पूर्वस्य 1|1|66 इत्यनेन प्रायः एतत् स्पष्टमेव स्यात् यत् लुप्तढकारात् अव्यवहितस्य पूर्वस्य अण्-वर्णस्यैव दीर्घः भवेत् ।
उत्तरम् - एतत् सूत्रम् अलुगुत्तरपदे 6|3|1 अस्मिन् अधिकारे अस्ति । अस्मिन् अधिकारे पाठितानां सूत्राणां प्रयोगः प्रायः तदा एव भवति यदा निमित्तम् स्थानी च भिन्नयोः पदयोः स्तः । परन्तु, वर्तमानसूत्रस्य प्रयोगः तदा अपि भवति यदा निमित्तम् स्थानी च एकस्मिन्नेव पदे स्तः । (यथा- उपरिनिर्दिष्टायाम् "गूढ" शब्दस्य प्रक्रियायाम् लुप्तढकारः तथा अण्-वर्णः एकस्मिन् एव पदे वर्तेते ।] एतत् स्पष्टीकर्तुमेव अत्र "पूर्वस्य" इति पदं स्वीकृतम् अस्ति । अस्मिन् विषये काशिका वदति - "पूर्वग्रहणम् अनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घार्थम् ।" इत्युक्ते, उत्तरपदम् नास्ति चेदपि पूर्वस्यैव दीर्घः भवेत्, एतत् स्पष्टीकर्तुम् पूर्वग्रहणं क्रियते ।
One-line meaning in English
When a ढकार is deleted due to a ढकार that follows it, or when a रेफ is deleted due to a रेफ that follows the अण् letter occurring before the deleted ढकार/रेफ becomes दीर्घ.
काशिकावृत्तिः
ढकाररेफयोः लोपः यस्मिन् स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति। लीढम्। मीढम्। उपगूढम्। मूढः। रलोपे नीरक्तम्। अग्नीरथः। इन्दूरथः। पुना रक्तं वासः। प्राता राजक्रयः। पूर्वग्रहणम् अनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घार्थम्। अणः इति किम्? आतृढम्। आवृढम्।
`कदजः` इति। कुत्सितोऽज इति `कुगतिप्रादयः` 2|2|18 इति समासः कूष्ट्रो राजेति बहुव्रीहिः। `कद्भावे` इत्यादि। अजादावत्तरपदे कद्भाव उच्यमानस्त्रिशब्द उत्तरपदे न प्राप्नोति। तस्मात् त्रिशब्दादुत्तरपदात्? पूर्वो यः कुशब्दः, तस्य कद्भावस्योपसंख्यानम्=प्रतिपादनं कत्र्तव्यम्। तत्रेदं प्रतिपादनम्--उत्तरसूत्रे चकारः क्रियते, सचानुक्तसमुच्चयार्थः। तेन त्रिशपब्देऽप्युत्तरपदे परतः कद्भावो भविष्यतीति॥
रेफे अकार उच्चारणार्थः । यद्ययं षष्ठीतत्पुरुषः स्यात्, तदाणः पूर्वत्वं नोपपद्यते, लोपस्याभावरुपत्वात् । अथापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते एवमपि करणीयमित्यादावप्यनीयरो रेफस्य लोपे परतः पूर्वस्य दीर्घप्रसङ्ग इति तत्पुरुषे एवं दोषं दृष्ट्वा कण्ठेकालवद्व्यधिकरणपदो बहुव्रीहिरित्याह - ढकाररेफयोर्लोपो यस्मिन्निति । अत्र लिङ्गम् - भव्यगेयप्रवचनीय इति निर्देशः । लीढमिति । लिह आस्वादने, निष्ठा, ढत्वधत्वष्टुअत्वढलोपेषु रुपम्, मिह सेचने, गुह संवरणे, मुह नैचित्ये । पूर्वग्रहणमनर्थकम्, तस्मिन्निति निर्दिष्टे पूर्वस्य इति सिद्धेः इत्यत आह - पूर्वग्रहणमित्यादि । सति पूर्वग्रहणे यद्यपि ढलोपे वचनप्रामाण्यादनुतरपदेऽपि स्यात्, रलोपे त्वनुतरपदे न स्यात् नीरक्तमित्यादाबुतरपदस्यापि सम्भाव्त । आतृढमिति । तृहूहिंसायाम् यस्य विभाषा इतीट्प्रतिषेधः । क्वचिदादृढमिति पाठः, तदसत् ,सेट्त्वादस्य धातोः दृढः स्थूलबलयोः इति हलोपो निपात्यते । आवृढमिति वृहू उद्यमने ॥
सिद्धान्तकौमुदी
ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥
ढ्रलोपे पूर्वस्य दीर्घोऽणः - ढ्रलोपे । ढच् रेफश्च ढ्रौ, तौ लोपयतीति-ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव, ढो ढे लोपः, रो रीति तयोरेव ढ्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ इत्यर्थः फलति । तदाह — ढरेफाविति ।ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ॑ इति तु न व्याख्यातं, तथा सति चयनीयमित्यनीयप्र्रत्ययान्ते "तस्य लोप" इति रेफलोपे यकारादकारस्य, चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । "पुनर्-रमते" इति स्थिते "रो री" ति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस् — रम्य इति स्थिते रुत्वे रेफलोपे चाऽनेन दीर्घः । शम्भू राजत इति । शम्बुस्-राजते इति स्थिते रुत्वे रेफलोपेऽनेन दीर्घः । त्रयाणामुदाहरणात्पूर्वेणैव णकारेणात्राण् गृह्रत इति सूचितम् । तृढो वृढ इति । अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणे न गृह्रते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात्, अन्यथा दीर्घश्रुत्या "अच" इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ढ्रलोपस्यैवाऽभावाद्दीर्घाऽप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्क्य तत्र ढलोपं दर्शयितुमाह — तृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां क्तप्रत्यये "हो ढः" इति ढत्वे "झषस्तथोः" इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढो वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननुतस्मिन्निति निर्दिष्टे पूर्वस्य॑त्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह — पूर्वग्रहणमिति । "ढ्रलोप" इति सूत्रस्य "अलुगुत्तरपदे" इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढ्रलोपनिभित्तभूतढरेफयोः परतः पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गुढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामथ्र्यादनुत्तरपदस्थयोरपि ढरेफयोः परतोऽपूर्वपदस्थस्यापि पूर्वस्या.ञणो दीर्घः सिध्यतीत्यर्थः । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घो न स्यात् ।गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अब्यासस्य रुक्, कुहोश्चुः, जश्त्वम् , लङ् सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ङ्यादिना सुलोपः, जर् गर् ध् इति स्थिते "एकाचो बश" इति गकारस्य भष्भावो घकारः, जश्त्वं दकारः, दश्चेति रुः, अडागमः, अजर्घर् र् इति स्थिते रो रीति रेफलोपः, ढ्रलोप इति दीर्घः, विसर्गः । अजर्घा इति रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात्तस्मिन् परतोऽकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ्रलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिसंभवादेव न सम्भवति, तथापि "अजर्घा" इत्यत्र रेफलोपनिमित्तरेफविषये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम्, दूरक्तमित्यादावेव स्यात् । "अजर्घा" इत्यत्र न स्यात् । पुना रमत इत्यादावसमासे ।ञपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनस्-रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्यहशि चे॑त्युत्वं रो री॑ति लोपश्चेत्युभयं प्रसक्तं, तत्र कतरद्बाध्यमित्यत्र निर्धारयति — मनस् रथ इत्यत्रेति । मनस्-रथैत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते उत्वमेवेत्यन्वयः ।
ढ्रलोपे पूर्वस्य दीर्घोऽणः - ढ्रलोपे ।रे॑त्यकार उच्चारणार्थः । ढश्च रश्च ढ्रौ, तौ लोपयतीति ढ्रलोपः । णिजन्तात्कर्मण्यण्युपपदसमासः । तृढो वृढ इति । ऊदित्त्वेन वेट्कत्वाद्यस्य विभाषेति निष्ठायां नेट् । ढत्वधत्वष्टुत्वढलोपाः । प्राचा तुदृढ॑ इति प्रत्युदाह्मतं, तदसत्, तत्र ढलोपस्यैवाऽभावात् ।दृढः स्थूलबलयो॑रिति घत्वेन बाधात् । न चेडभावो ढत्वं नलोपश्च निपात्यतां, धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सतिपरिद्रढय्ये॑त्यत्रल्यपि लघुपूर्वा॑दिति णेरयादेशो न स्यात् । [तथा]पारिवृढी कन्ये॑त्यत्रइतो मनुष्यजाते॑रिति ङीषं बाधित्वाअणिञो॑रिति ष्यङ् स्यात्, ढलोपस्याऽसिद्धत्वेन गुरूपोत्तमत्वादित्याकरे स्थितम् । ननुपरिद्रढय्ये॑त्यत्र ल्यबादेशः कथं भवेद्यावता परिदृढमाचण्टे इति णिचि कृते क्त्त्वाप्रत्यये च क्त्त्वान्त एव परेरन्तर्भावात्समासाऽभाव इति चेदत्र कैयटः-सङ्ग्रामयतेरेव सोपसर्गात्प्रत्ययोत्पत्तिर्नान्यस्मादिति नियमात्परिशब्दं पृथक्कृत्य दृढशब्दादेव णिच्क्रियते । णिजन्तस्य धातुत्वात्क्त्त्वाप्रत्यये कृते परेः क्त्त्वान्तेन कृदन्तेन समास इति सिद्धो ल्यबादेशः । णाविष्ठवद्भावाद्रभाव इति । ननुपूर्वस्ये॑ति व्यर्थं, सप्तमीनिर्देशादेव तल्लाभादत आह-पूर्वग्रहणमित्यादि ।ढ्रलोपे पूर्वस्ये॑ति सूत्रस्योत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढरेफयोः परतो दीर्घः स्यान्न तुलीढः॑अजर्घाः॑ इत्यत्रेति भावः । यद्यप्यसंभवादेवानुत्तरपदस्थे ढकारे दीर्घो भनेत्तथाप्यजर्घा इत्यत्र दीर्घो न स्यादिति ज्ञेयम् । वस्तुतस्तूत्तरपदस्य समासचरमावयवे रूढत्वात्पुना रमत इत्यादावपि न स्यात्, किंतुनीरक्तं॑दूरक्त॑मित्यादावेव स्यादिति तत्त्वम् । लीढ इति ।लिह आस्वादने॑ क्तः । ढत्वधत्वष्टुत्वढलोपाः । इह ढलोपं प्रति ष्टुत्वं नासिद्धं, ढकारे परतो लोपविधिसामथ्र्यात् । अतएवढो ढे लोपः॑ इत्यस्य पदाधिकारस्थत्वेऽप्यपदान्तस्य ढस्य लोपो भवति । अजर्घा इति ।गृधु अभिकाङ्क्षायां॑ यङ्लुकि द्वित्वे अभ्यासस्य रुक् । लङः सिपि शब्लुकि सिप ईडभावपक्षे लघूपधगुणो रपरः ।इतश्चे॑तीकारलोपे हल्ङ्यादिलोपः । भष्भावः । जश्त्वं ।दश्चे॑ति रुत्वपक्षेअजर्घर् र् इति स्थितेरोरी॑ति रेफलोपेऽनेन दीर्घः । अत्रेयं सुगमा व्याख्या-ढ्रलोपे पूर्वस्य दीर्घोऽणः । लीढः । नीरक्तं । दूरक्तम् । अणः किम् । तृढः वृढः । पूर्वग्रहणमनुत्तरपदेऽप#इपूर्वमात्रस्य दीर्घार्थम् । अजर्घाः । पुना रमते । हरी रम्यः । शम्भू राजते॑ इति ।
लघुसिद्धान्तकौमुदी
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम्? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥
महाभाष्यम्
ढ्रलोपे पूर्वस्य दीर्घोऽणः (2970) (दीर्घाधिकरणम्) (पूर्वग्रहणप्रयोजनभाष्यम्) पूर्वग्रहणं किमर्थम्, न तस्मिन्निति निर्दिष्टे पूर्वस्य 1|1|66 इति पूर्वस्य भविष्यति ? न सिध्यति । न हि ढ्रलोपेनानन्तर्यमस्ति ।। अथेह कस्मान्न भवति ‐ - करणीयम् ‐ - हरणीयम् ‐ - इति । नैष दोषः । नैवं विज्ञायते ‐ - ढ्रोर्लोपः ‐ - ढ्रलोपः, ढ्रलोप इति । कथं तर्हि ? ढ्रोर्लोपोऽस्मिन् सोऽयं ‐ - ढ्रलोप इति । यद्येवं, नार्थः पूर्वग्रहणेन । भवति हि ढ्रलोपेनानन्तर्यम् ।। इदं तर्हि प्रयोजनम् ‐ - उत्तरपदे इति वर्तते, तेनानन्तर्यमात्रे यथा स्यात् । औदुम्बरी राजा । धूमाकी रथेन । पुना रूपाणि प्रकल्पयन् ।।