Page loading... Please wait.
6|3|1 - अलुगुत्तरपदे
॥ तस्मै पाणिनये नमः ॥
6|3|1
SK 958
अलुगुत्तरपदे  
सूत्रच्छेदः
अलुक् (प्रथमैकवचनम्) , उत्तरपदे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अलुग्  6|3|1 उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अलुकिति च, उत्तरपदे इति च एतदधिकृतम् वेदितव्यम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामो ऽलुकुत्तरपदे इत्येवं तद् वेदितव्यम्। वक्ष्यति
`स्तोकान्मुक्तः, अल्पान्मुक्तः` इति। `करणे स्तोकाल्पकृचछ्रकतिपयस्यासत्ववचनस्य` 2|3|33 [`करणे च`--पा।सू।] इति पञ्चमी, `स्तोकान्तिकदुरार्थकृच्छ्राणि क्तेन` 2|1|38 इति समासः। ननु च `वनं समासे` 6|2|177 इत्यतः समासगरहणमनुवर्तिष्यते, समासे च नियतं सन्निहितमुत्तरपदम्, अतोऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदं लभ्यत इत्यभिप्रायेणाह--`उत्तरपदमिति किम्` इति। `निःस्तोकः` इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति प्रादिसमासः। एवं मन्यते--असत्युत्तरपदग्रहणे समासे ये स्तोकादय उत्तरपदभूताः पूर्वपदभूता वा, तेभ्य उत्तरस्याः पञ्चभ्या अलुग्भवतीत्येतावन्मात्रं लभ्यते, न तूत्तरपदे परतो ये स्तीकादय इत्येष विशेषः। ततश्च निःस्तोक इत्यत्राप्यलुक्? स्यात्। भवति ह्रत्रापि समासवर्तिनः स्तोकादेः शब्दादुत्तरा पञ्चमीति। नन्वेवमपि न कत्र्तव्येमेवोत्तरपदग्रहणम्, लक्षणप्रतिपदोक्तपरिभाषया(व्या।प।3) प्रतिपदं `स्तोकादिभ्यः करणे च` 2|3|33 इत्यादिसूत्रेण या पञ्चमी विहिता, तस्या एव ग्रहणम्। नतु `अपादाने पञ्चमी` 2|3|28 इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता, तस्या एव ग्रहणम्। न तु `अपादाने पञ्चमी` 2|3|28 इत्यनेन सामान्यलक्षणेन या पञ्चमी विहिता त्सयाः। अवश्यञ्च सलक्षमप्रतिपदोक्तपरिभाषाऽश्रयितव्याः; अन्यथा हि स्तोकादपेतः स्तोकापेत इत्यत्राप्यलुक्, स्यात्, एवं सति निःस्तोक इत्यत्रालुक्प्राप्तिरेव नास्ति, न ह्रत्र स्तोकशब्दात्? प्रतिपदिविहिता पञ्चमी, किं तर्हि? सामान्यलक्षणविहिता। तत किं तन्निवृत्त्यर्थेनोत्तरपदगरहणेन? इत्याह--`अन्यार्थम्` इत्यादि। आनङाद्यर्थमिदमुत्तरपदगरहणम्। असति चैतस्मिन्? `आनङ् ऋतो द्वन्द्वे` 6|3|24 इत्यानङ्, `होतापातृभ्याम्` इत्यत्र यथा पूर्वपदस्य भवति, तथोत्तरपदस्यापि स्यात्। तथा `इकोह्यस्बोऽङयो गालवसव` 6|3|60 इति ह्यस्वो यथेह भवति--`ग्रामणिपुत्रः` इति, तथेहापि स्यात्--`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्यस्वो यथेह भवति--`ग्रामणिपुत्रः` इति, तथेहापि स्यात्--`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्यस्वः स्यात्, तदा `ह्यस्वो यथेह भवति--`ग्रामणिपुत्रः` इति, तथेहापि स्यात्--`ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्लस्वः स्यात्, तदा `ह्यस्वो नपुंसके प्रातिपदिकस्य` इति, तथेहापि स्यात्, `ग्रामणीः` इति। ननु यद्यनुत्तरपदेऽपि ह्यस्वः स्यात्, तदा `ह्यस्वो नपुंसके प्रातिपदिकस्य` 1|2|47 इति वचनमनर्थकं स्यात्; अनेनैव सिद्धत्वात्? नानर्थकम्; अनिगन्तार्थत्वान्नित्यार्थत्वाच्च। किञ्च, असत्युत्तरपदग्रहणे कृतम्। यद्येवम्, यदर्थमिदं तद्विधावेव कत्र्तव्यम्, इह किमर्थ क्रियते? इत्याह--`इहाप्यलुको निवृत्तिम्` इत्यादि। इतिकरणो हेतौ। अन्यार्थं तावदवश्यमिदमुत्तरग्रहणम्। इह तु क्रियमाणे सत्ययं विशेषः--निःस्तोक इत्यतराप्यलुग्? निवृत्तः क्रियते। तेन लक्षणप्रतिपदोक्तपरिभाषा(व्य।प।3) नाश्रयितव्या भवति। अथ कुतः प्रातिमावधिकारौ? इत्याह--`अलुगधिकारः` इत्यादि। विधेयान्तरं विधेयान्तरस्य निवर्तकं भवतीत्यानङ्? विधीयमान उततरपदेऽलुकं निवत्र्तयति, तस्मात्--`अलगधिकारः प्रागानङः`। उत्तरपदाधिकारः `प्रागङ्गाधिकारात्` इति। उत्तरपदे परतो यत्? कार्यं वीधीयते तस्य सम्बन्धिशब्दत्वात्? पूर्वपदं विधिभाक्। अतोऽङ्गं विधिभाक्त्वेन विज्ञायमानमुत्तरपदाधिकारं निवर्तयति। अङ्गस्य हि यत्? कार्यं तत्? प्रत्यये परतो विधीयते, नोत्तरपदे। न ह्रुत्तरपदेऽङ्गसंज्ञा भवति। अथ वा--उत्तरपद इति सप्तमीनिर्देशादनन्तर एवोत्तरपदे भवितव्यमानङा। यदि चात्र विभक्तेरलुक्? स्यात्? तदा व्यवधानादानन्तर्य न स्यात्। न च व्यवधानेऽपि वचनसामथ्र्यादानङ्स्यादिति शक्यते परिकल्पयितुम्। एवं हि `तस्मिन्निति निर्दिष्टे पूर्वस्य` 1|1|65 इति निर्दिष्टग्रहणमानन्तर्यार्थ बाध्येत, अनिष्टं च रूपमापद्येत। न चानिष्टार्था शास्त्रे प्रक्लृपतिर्युक्ता। तस्मादलुगधिकारः प्रागानङः। अङ्गस्य प्रत्यये परतोऽभावादुत्तरपदे परतस्तन्न भवत्येव, अत उत्तरपदाधिकारः प्रागङ्गाधिकारात्॥
अलुगिति चेत्यादि । प्रत्येकं स्वरितत्वप्रतिज्ञानं दशेयति, अस्य पोरयोजनम् - एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । स्तोकान्मुक्त इति । करणे च स्तोकाल्पकृच्छ्र इत्यादिना पञ्चमी, स्तोकान्तिक इत्यादिना समासः । उतरपद इति किमिति । लुक् तावत्समास एव प्राप्तः प्रतिषिध्यते इति सामर्थ्यादुतरपद तैत्येतल्लभ्यते । नलोपो नञः इत्यादौ च न समासे इत्ययो हि समासग्रहणानुवृतेरुतरपदलाभात् नतरामित्यादौ नञो नलोपाद्यभावः सिद्ध इति पश्नः । निस्तोक इति । अत्रोतरपदभूतेभ्योऽपि स्तोकादिभ्यः परस्याः पञ्चम्या अलुक्प्रसङ्गः । ननु च लक्षणप्रतिपदोक्तपरिभाषया स्तोकादिभ्यः प्रतिपदं या पञ्चमी विहिता, यश्च तेषां प्रतिपदोक्तः समासस्तस्या एव तत्रैव वा लुग्भविष्यति, तत्किमेतन्निवृत्यर्थेनोतरपदग्रहणेन इत्यत आह - अन्यार्थमित्यादि । आनण्ःóतो द्वन्द्वे उतरपदे परतो यथा स्यात्, उतरपदस्य मा भूद् - होतापोतारौ, तान्यथा परमपि सर्वनामस्थानापेक्षत्वेन बहिरङ्गम ऋतो ङ् गुणिं बाधित्वा द्वन्द्वक्रियानन्तरप्राप्त आनङ् स्यात्, होतापोतृभ्यामित्यादौ च स्यादेव । तथा इको ह्रस्वोऽङ्यो गालवस्य इति उतरपदे यथा स्याद् , ग्रामणीरित्यादावुतरस्य पदस्य मा भूदित्येवमाद्यर्थमुतरपदाधिकारोऽवश्यं कर्तव्यः स इहैव क्रियेत, समासानुवृत्तिः - लक्षकणप्रतिपदोक्तपरिभाषा नाक्षयितव्या भवतीति । आ कुत तैमावधिकारौ इत्यपेक्षायामाह - अलुगधिकार इत्यादि । ऋकारान्तस्य ह्युतरपदेऽनन्तरे पितृपुत्र इत्यादौ आनङ भवितव्यम् । यदि चात्रालुक् स्याद्विभक्त्या व्यवधानं स्यात् । यद्वा - साक्षान्निर्दिष्टमानङदिकार्यं प्रकरणप्प्तस्यालुको निवर्तकमिति अलुगधिकारः प्रगानङ्ः तथाङ्गस्य विधीयमानं कार्यं यत्राङ्गमित्येतद्भवति तत्रैव भवति । कस्मिंश्चैतद्भवति प्रत्यये, न तूतरपद तथैति सामर्थ्याद् उतरपदाधिकारः प्रागङ्गाधिकारात् ॥
सिद्धान्तकौमुदी
॥ अथ अलुगुसमासप्रकरणम्‌ ॥

अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥
अलुगुत्तरपदे - अथाऽलुक्समासो निरूप्यते — अलुगुत्तरपदे । नाऽयं विधिः, "राजपुरुष" इत्यादावतिप्रसङ्गात्,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति । "आनङृतः" इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम् । #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम् ।
अलुगुत्तरपदे - अलुक्सयादिति । प्रसज्यप्रतिषेधोऽयम् । सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अलुगुत्तरपदे (2860) (अलुगधिकरणम्) (अधिकारमर्यादानिर्णयभाष्यम्) आ कुतोऽयमधिकारः ? अलुगधिकारः प्रागानङः । उत्तरपदाधिकारः प्रागङ्गाधिकारात् ।। (अधिकारप्रयोजनजिज्ञासाभाष्यम्) कानि पुनरुत्तरपदाधिकारस्य प्रयोजनानि ? (6383 अधिकारप्रयोजनवार्तिकम् ।। 1 ।।) - उत्तरपदाधिकारस्य प्रयोजनं स्तोकादिभ्योऽलुगानङिकोह्रस्वनलोपाः - पञ्चम्याः स्तोकादिभ्यः 6|3|2 स्तोकान्मुक्तः, अल्पान्मुक्तः, कतिपयान्मुक्तः । उत्तरपद इति किमर्थम् ? निष्क्रान्तः स्तोकात् ‐ - निः स्तोकः ।। आनङिकोह्रस्वनलोपाः प्रयोजनम् । आनङ् ‐ - होतापोतारौ । उत्तरपद इति किमर्थम् ? होतापोतृभ्याम् ।। इको ह्रस्वोऽङ्यो गालवस्य (61) प्रयोजनम् । ग्रामणिकुलम्, सेनानिकुलम् । उत्तरपद इति किमर्थम् ? ग्रामणीः, सेनानीः । उत्तरपद इति किमर्थम् ? परमन । नैषोऽस्ति प्रयोगः । इदं तर्हि ‐ - नतरां गमनम् ।। (6384 उपसंख्यानवार्तिकम् ।। 2 ।।) - एकवच्च - एकवच्चालुग्भवतीति वक्तव्यम् । किं प्रयोजनम् ? स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इति विगृह्य स्तोकान्मुक्त इत्येव यथा स्यात् ।। (6385 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।) - एकवद्वचनमनर्थकम् - एकवद्भावश्चानर्थकः ।। द्विबह्वोरलुक्कस्मान्न भवति ? (6386 अनिष्टनिरासवार्तिकम् ।। 4 ।।) - द्विबहुष्वसमासः - द्विवचनबहुवचनान्तानामसमासः । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? (6387 अनिष्टनिराससाधकवार्तिकम् ।। 5 ।।) - उक्तं वा - किमुक्तम् ? अनभिधानादिति ।। तच्चावश्यमनभिधानमाश्रयितव्यम् ।। (6388 अनभिधानप्रयोजनवार्तिकम् ।। 6 ।।) - एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः - एकवद्वचने हि गोषुचरेऽतिप्रसङ्गः स्यात् । गोषुचरः ।। (6389 अनभिधानप्रयोजनवार्तिकम् ।। 7 ।।) - वर्षाभ्यश्च जे - वर्षाभ्यश्च जेऽतिप्रसङ्गो भवति । वर्षासुजः ।। (6390 अनभिधाने दोषवार्तिकम् ।। 8 ।।) - अपो योनियन्मतिषु चोपसंख्यानम् - अपो योनियन्मतिषु चोपसंख्यानं कर्तव्यम्, जे चरे च तत्रातिप्रसङ्गो भवति । योनि ‐ - अप्सुयोनिः । योनि ।। यत् ‐ - अप्सव्यम् । यत् ।। मति ‐ - अप्सुमतिः । मति ।। जे ‐ - अप्सुजः । जे ।। चरे ‐ - अप्सु चरो गह्वरेष्ठाः ।।